पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली - इदानी घट इत्यादिप्रतीति सूर्यपरिस्पन्दादिकं यदा विषयीकरोति तदा सूर्यपरिस्पन्दादि- ना घटादेः सम्बन्धो वाच्यः स च सम्बन्धः संयोगादिर्न सम्भवतीति काल एव सम्बन्ध- प्रभा. 4: पटो भविष्यतीत्याद्याकारिका तत्तकालस्य तत्तत्कार्योत्पत्त्यवच्छेदकत्वा५माहिनी प्रतातिरपि सङ्गच्छते तत्कारणत्वं विना तदुत्पत्त्यवच्छेदकत्वासंभवात् ज्ञानाद्युत्पत्त्यवच्छेदकशरीरे जानकारणत्वदर्शनात् । नच स्वसम तद्वित्वादिसमवायिकारणस्य कालस्य कथं द्वित्वादिनिमित्तकारणत्वामिति वाच्यम् समवायसंवन्धेन द्वित्वा- दिकं प्रति समवायिकारणत्वेऽपि कालिकसंबन्धेन द्वित्वादिसाधारणकार्यसामान्य प्रति तस्य निर्मिसकारणत्वे माधकाभावात् । अनथैव दिशा दिशोऽपि कार्यमाने निमित्तत्वं बोध्यम् ॥ मुक्तावल्यां तत्रेति ।। पूर्वोक्तल- क्षणलक्षितकाल इत्यर्थः ।। प्रमाणमिति ॥ अनुभवरूपमित्यादिः ॥ जगतामाश्रय इति । तथाच काल- स्सर्ववानित्यनुभवात् सर्वाधारत्वेन कालस्सिध्यतीति भावः । नन्वेतादृशप्रतीतो सर्वाधारत्वेन कृप्तदिश एवं वि- षयत्वमास्ता अतिरिक्तकालकल्पने गौरवादित्याशङ्का प्रकारान्तरेण कालं प्रसाध्योक्तप्रतीतेस्तद्विषयकत्वाशीका- रेण परिहरति ॥ तथाहीत्यादिना ॥ यदि सूर्यति॥ सिद्धान्ते खण्ड कालस्य तादृशनतीतिविषयत्वस्वीकारे कालिकसंबन्धावच्छिन्नघटाभावतत्प्रतियोगिनोरेकेत्र कालिकसंबन्धेन वर्तमानत्वासंभवेन तयोः तेन संबन्धन ध्याप्यवृत्तित्वापत्या महाकालस्य तादृशप्रतीतिविषयत्वस्वीकारात् यदीत्युक्तम् । नच महाकालस्य ता- दृशप्रतीतिविषयत्वे इदानी घटो न तदानीमिति प्रत्ययानुपपत्तिरिति वाच्यं अत्र प्रतियोग्यभावयोरेकावच्छेदेन भृत्तित्वविरोधात अन्यथा विभिन्नावच्छेदेन संयोगतदभावयोः वृक्षे असत्यप्रसङ्गात् । एवंच वृक्षे कपिसंयोगत- दभावयोत्सत्त्वेनाप्रे वृक्षः कपिसंयोगवान् मूले वृक्षः कपिसंयोगाभाववानिति प्रतीतेः विभिन्नावच्छेदेन वृक्षे कपिसंयोगतदभावावमाहित्ववत् इदानी घटो न तदानी घट इति प्रतीतेरपि विभिन्नावच्छेदेन महाकाले घट- तदभावावगाहित्वे बाधकाभावात् । अत एवेदानी घट इति प्रतीत्या महाकालसिद्धिः धटध्वंसविशिष्टः का. लो घटवदन्य इति प्रतीत्या खण्डकालस्य चाधिकरणत्वं सिध्यतीति तर्कालङ्कारभट्टाचार्योतिरपि संगच्छत इति। सूर्यपरिस्पन्दादिकमित्यादिना वायुपारस्पन्दादेः परिप्रहः । इतीसनन्तरं स्वसमवायितपनसंयोगिसंयोग एवं संबन्धो वाच्यस्तोति शेषः ॥ काल एवेति ॥ आकाशादीनां विनिगमनाविरहेणं संबन्धघटकत्वासंभ- दिनकरीयम्. कालस्य निमित्तहेतुत्वं न सम्भवति स्वसमवेतद्वित्वपृथक्त्वसंयोगविभागं प्रति कालस्य समवायिकारणत्वेन तद्भिन्नत्व/टेतस्य निमित्तकारणत्वस्य तत्राभावादित्याचार्योकं शङ्कथं समवायसम्बन्धेन द्वित्वादिकं प्रति तस्य समवायिकारणत्वेऽपि कालिकसंबन्धेन द्वित्वादिकार्य प्रति निमित्तकारणत्वस्यानपायात् । एवमेव का. र्यमाने दिशोऽपि निमित्तकारणत्वं बोध्यम् ॥मुक्तावल्यां तत्रेति ॥ तत्र काले ॥ जगतामाश्रयो मत इति ॥ कालः सर्ववानिति प्रतीत्या सर्वाधिकरणत्वेन कालसिद्धिरिति भावः । नन्वेतादृशी प्रतीतिर्दिग्विष- पिण्येवास्तु अतिरिक्तकाल कल्पने गौरवादिति न केवलमनया प्रतीत्या कालः सिध्यति परन्तु प्रमाणान्तरण काले सिद्धे प्रकृतप्रतीतिबलात् सर्वाधारत्वं करप्यत इत्याह ॥ इदानामित्यादिना ॥ सूर्यपरिस्पन्दादि- कमिति ॥ इदानी तदानामिति प्रतीतिर्महाकालं विषयांकरोतीति तु न वाच्यम् ।तथासतीदानी घटो न तदानीमिति प्रलयानुपपत्तेः नच तत्तक्रिया विशिष्टमहाकाल एवेदनीमित्यादिप्रत्ययविषयस्तथा चेदानी घटो न तदानीमिति प्रत्ययस्यैतक्रियाविशिष्टमहाकाले घटो न तस्क्रियाविशिष्टमहाकाल इत्यर्थ इति वाच्यम् । तथा रामरुद्रीयम्. योगकरीत्या कालेऽसम्भवादिति भावः । इदानीमित्यादिप्रतीतीनां सूर्यपरिस्पन्दविषयकत्वं मूले प्रतिपादि. तं तदुपपादयति ।। इदानीमित्यादिना ॥ प्रतीत्यनुदयापत्तेरिति ॥ महाकालस्य सर्वाधारत्वादिति भावः । यद्यपि न तदानीं घट इति प्रतीतेरेव बाधितार्थकता नलिदानी घर इ.यस्येति इदानी घट इति भा. गरथ प्रकृते नोपयोगस्तथापि कालस्य गगनादिवन्न कस्यापि कालिकसम्बन्धेनाधारतेति न तदानी घट ६.