पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । घटकः कल्प्यते । इत्थं च तस्याश्रयत्वमेव सम्यक् ॥ ४५ ॥ परापरत्वधीहेतुः क्षणादिः स्यादुपाधितः । प्रमाणान्तरं दर्शयति ॥ परापरत्वेति ॥ परत्वापरत्वादिबुद्धरसाधारणं निमिस काल एव । प्रभा. वादिति भावः । तथाचेदानी घट इत्याकारकसूर्यपरिस्पन्दप्रकारकघटविशेष्यकप्रतीतिः परम्परासंबन्धविषय। साक्षात्संबन्धाभावे सति विशिष्टबुद्धित्वादित्यनुमानात् परम्परासंबन्धविषयकत्वासद्धी तादशपरम्परासंबन्धे कुप्ताकाशादीनां विनिगमनाविरहेण तादृशसंबन्धघटकतयाऽतिरिक्तकालस्सिध्यतीति इदानीमित्यादिकल्प्यत इत्यन्तसमुदायार्थः ॥ इत्थं चेति ॥ उक्तरीत्याऽतिरिक्तकालसिद्धी चेत्यर्थः ॥ सम्यगिति ॥ संभवतीत्य. थः । कालस्सर्ववानिति प्रतीतेरतिरिक्त कालविषयकत्वस्यैव युक्तत्वादिति भावः परापरत्वधीहेतुरिति मूलप्रतिपाद्यपरत्वापरत्वविषयकवुद्धिकारणत्वं कार्य मात्रकारणादृष्टादावतिप्रस. कै अतः हेतुपदस्यासाधारणनिमित्तकारणत्वमञ्जीकृत्य विशिष्टमूलार्थमाह ॥ परत्वेति ॥ ननु परत्वापरत्व- योः प्रमाणोपन्यासायैव धीपदं नतु तस्यापि प्रवेशः परत्वापरत्वासाधारणकारणत्वस्यैव वक्तुमुचितत्वात् नच तदपि संभवति कालिकपरत्वापरत्वयोः जन्यद्रव्य एवोत्पत्त्या तन कालस्यासाधारणकारणत्वे मानाभावात् अ- दिनकरीयम्. सति तत्तक्रियाविशिष्टमहाकालापेक्षया लाघवेन तत्तत्कियाया एव तादृश प्रतीतिविषयवस्थोचितत्वात् । इती- स्यनन्तरं स्वाश्रयतपनसंयोगिसंयोग एव सम्बन्धो वाच्यस्तत्रेति शेषः । नचाकाशमेव सम्बन्धघटकमास्ता. मिति वाच्यम् । आकाशदिगात्मनां विनिगमनाविरहेणातिरिक्तैककालस्य तथात्वात् ॥ इत्थं चेति ॥ अति. रिककालसिद्धौ चेत्यर्थः ॥ सम्यगितिः कालः सर्ववानिति प्रतीतेरतिरिक्तकालविषयकत्वस्योचितत्वादिति भावः॥४५॥ परत्वापरत्वबुद्धेरिति । ज्येष्ठे परत्व प्रत्ययः कनिष्ठेऽपरत्वप्रत्ययः स व परत्वापरत्वगुणविशेषाधीनः परवापरत्वे च सासमवायिकारणके भावकार्यत्वात् असमवायिकारणं च तयोः कालपिण्डसंयोग एवेति प. रत्वापरत्वयोरसमवायिकारणसंयोगाश्रयतया कालसिद्धिरिति भावः । परत्वापरत्वयोरित्यम्यैव वक्तुमुचित. स्वेऽपि तद्बुद्धिपर्यन्तानुधावनं कालिकपरत्वापरत्वयोः प्रमाणं दर्शयितुम् । न च पिण्डगतरूपादेरेव परत्वा- रामरुद्रीयम्. त्यस्य नानुपपत्तिरिति यदि ब्रूयात्तदेदानी घट इत्यपि न स्थादित्यावेदयितुं तदुपादानमिति ध्येयम् ॥ आ. काशमेवेति ॥ स्वाश्रयसंयोगिसंयोगरूपपरम्परासम्बन्धस्याकाशमादायापि घटयितुं शक्यत्वादिति भावः ॥ तथात्वात् सम्बन्धघटकत्वात् । यद्यपि स्वसंयोगित्वेनैवाकाशादीनां सम्बन्धघटकता नत्वाकाशत्वादिनेति न विनिगमनाविरहावकाशस्तद्रूपेण क्लप्तविभूनां सर्वेषामेव सम्बन्धघटकत्वमपीष्टमेव विनिगमनाविरहात् । न चानन्तव्यक्तीनां तादृशपरम्परासंबन्धघटकत्वकल्पनापेक्षया एकातिरिकव्याक्तिकल्पनमेव लध्विति वाच्यम् । कालस्य संयोगिसंयोगघटकतायाः स्वसंयोगिन्याकाशादिव्यावर्तकविशेषणमन्तरा दुरित्वादिदमसङ्गतं तथा- पि अनन्तानामाकाशादिसंयोगव्य कीनां घटीयसंसर्गता विनिगमनाविरहेण कल्पनीया अतिरिक्तकालव्य- क्तिकल्पने तु तदीयसंयोगमात्र एव तत्कल्पनमिति लाघवं क्लप्ताकाशादिसंयोगमादायाक्लुप्तकालसंयोगस्य विनिगमनाविरहो न सम्भवतीति पूर्वमेवावेदितमिति तात्पर्यमवगन्तव्यम् ॥ अतिरिक्तकालेति ॥ का. लाख्यातिरिकद्रव्यसत्त्वे उत्तप्रतीतेदिग्विषयकता न युज्यते दिशोऽनुल्लेखात्कालपदस्य दिगर्थकता च लक्ष. णां विना न सम्भवतीति तस्वीकारे मुख्यार्थपरित्यागापत्तेरिति भावः ॥ ४५ ॥ मूले असाधारणं निमित्तमित्यस्य ताशवुद्धित्वावच्छिन्नं प्रति निमित्तकारणमित्यर्थो न सम्भवति तथाविध- हेतुतायो मानाभावादतस्वत्पदस्य प्रयोजकार्थकता स्पष्टयति ॥ ज्येष्ठ इत्यादिनाभाव इत्यन्तेन ॥ प्रमा. पामिति ॥ रामः परो लक्ष्मणोपर इति विलक्षणप्रतीत्यैव कालिकपरत्वापरत्वयोः सिद्धिस्तादृशप्रतीतेः दि.