पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमान्विता । तदा ध्वंसेनवोपपादनीय इति । दिनादित्यवहारस्तु सत्तक्षणकटैरिति ।। प्रभा. वच्छिन्नं ग्राह्यं अन्यथा संबन्धान्तरेण तेषां वृत्तित्वाप्रसिद्ध पाइसंभवापत्तेः । तथाच यत्समयति यसप्रतियो- गित्वध्यापकतावच्छेदकं यदधिकरणक्षणवृत्ति सामान्याभावत्वं तस्य तत्समयसंवम् उत्पत्तिरिति पर्यवसि. तोऽर्थः । स्ववृत्तिध्वंसप्रतियोगित्वव्यापकतावच्छेदकाभावत्वावच्छिन्ननिरूपित्तप्रतियोगितावच्छेदकवृत्तित्वाच. च्छिन्ननिरूपकक्षणसामान्यवृतित्वसंबन्धेन क्षणवत्वमुत्पत्तिरिति निर्गलितोऽर्थ इति प्रतिभाति । महाप्रलये क्षणव्यवहारो नास्त्यव स्ववृतिध्वंसप्रतियोगिकालावृत्तित्वस्ववृत्तित्वोमयसंबन्धेन किंचित्पदार्थरूपम्य क्षणा- घटितोत्पत्तिलक्षणस्य वस्तुं शक्यत्वात् अत्र घटोत्पत्तिप्राक्क्षणमादायोत्पन्नघटस्य पुनरुत्पत्त्यापतिवारणा- व स्वात्तत्वस्य संबन्धकोटौं प्रवेशः द्वितीयादिक्षण संबन्धस्याप्युत्पत्तिरूपत्वापान्तिवारणाय स्ववृत्तिध्वं- सप्रतियोगिकालावृत्तित्वस्यापि संवन्धघटकतेति एवंचौकारुचि हृदि निधाय यदीत्युक्तम् ॥ ध्वंसेनैवेति । स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिकयावसविशिष्टसमयस्यैव तत्र क्षणव्यवहारनियामकरवेन मणिकारोफत्वा- त् अन्न याव«सविशिष्टमात्रस्य तत्र क्षणव्यवहारनिश्रामकत्वे असंभवः घटप्रागभावध्वंसस्य घटा- स्मकतया तस्यापि यावर्द्धसान्तर्गतत्वेन प्रलयस्य कालिकसंवन्धेन घटाद्यात्मकध्वसघटितसमुदायवत्वाभा. वात् अतः स्व वृत्तिध्वंसप्रतियोगिप्रतियोगिकत्वं यावद्धंसावशेषणं ताशयत्किंचिद्धसवत्त्वस्येदानीन्तनकाले. पि सत्त्वेनातिव्याप्तिवारणाय यावद्धसविशेषणम् । एवं चरमक्रियाध्वंसत्यापि प्रलयात्मकस्वकृतिध्वंसप्र- तियोगिप्रतियोगिकयावर्बुसान्तर्गतत्वेन तद्धटितध्वंससमुदायस्येदानीन्तनकालेऽभावान्नातिव्याप्तिः । यद्य- पि घटात्मकध्वंसमादा यासंभववारणाय यावद्धंसेषु भावप्रतियोगिकत्वविशेषणमेव दातुमुचित स्ववृत्त्यादिविशे- षणापेक्षया लाघवात् तथापि भावप्रतियोगिकयावर्द्धस्य महाकालेऽपि सत्त्वात् अतिव्याप्त्यापत्तेः । नच तस्या- पिक्षणत्वमिष्टमेवेति वाच्यं केवलमहाकालस्य क्षणत्वाङ्गीकारे सिद्धान्तविरोधापसे: केवलमहाकालस्य तथा व्यवहाराभावाच्च । स्ववृत्तीत्यादिविशेषणदाने तु घटाद्यात्मकध्वंसस्यापि यावदन्तर्गतत्वेन तद्घाटितवनसमुदा- यत्वावच्छिन्नस्य कदाचिदपि महाकालेऽसत्त्वेन नोकदोषावकाशः। तस्मात् तादृशयावसविशिष्टसमयस्य क्ष- णत्वव्यवहारनियामकत्वेन मणिकारोकस्य तत्रापि संभवात् क्षणव्यवहारो नानुपपन्न इति भावः ॥ ॥ इतिकालग्रन्थः॥ दिनकरीयम् . नास्त्येव उत्पत्तिलक्षणस्य क्षणाघटितस्यैव स्ववृत्तिध्वंसप्रतियोगिकालावृत्तित्वविशिष्टस्त्रवृत्तित्वरूपस्य तदुत्प. सौ सम्भवादित्यभिप्रेत्योक्तं यदीति ॥ श्वसेनैवेति ॥ स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिकयावद्धसविशिष्ट- समयस्यैव तत्र क्षणव्यवहारविषयत्वादिति भावः ॥ इति कालग्रन्थः ॥ रामरुद्रीयम् ताशकर्मेति ॥ विभागप्रागभावाद्यवच्छिन्नकमत्यर्थः । इदमुपलक्षणं। उत्तरसंयोगप्रागभावादेरप्यसत्वादि. त्यपि बोध्यम् ॥ तद्धिकरणेति ॥ तत्पदमुत्पत्स्यमानपदार्थपरं अधिकरणत्वमाध्यताद्वयं च कालि. केन व्याप्यत्वं व्यापकत्वं च दैशिकस्वरूपेण बोध्यम् । तथा च यदधिकरणक्षणावृत्तित्वस्थ व्याच्या यत्सम. यवृत्तिध्वंसप्रतियोगिता तस्य तत्समयवृत्तित्वमुत्पत्तिरित्यर्थः। अत्र च यदधिकरणसमयेत्युक्ती तटाधि- करणमहाकालादिवृत्तित्वस्यैव तदुत्पत्तिसमयवृत्तिध्वंसप्रतियोगिपूर्वविनष्टपटादौ सत्त्वेन व्याप्तिभङ्गः स्यादिति क्षणत्वेनैव समयो निवेशनीय इति भावः ॥ स्ववृत्तीति ॥ अत्र स्वपवयं यत्समयवृत्तित्वमुत्पत्तित्वेना- भिमतं तत्समयव्यक्तिपरं कालावृत्तित्वं तादृशकालवृत्तित्वसामान्याभावस्तेन न स्वपदेन द्वितीयक्षणाद्युपा- दानसम्भवः अन्यथा द्वितोयादिक्षणवृत्तिध्वंसप्रतियोगियारेकश्चित्पूर्वकालाइसित्वस्योत्पनघटादी सत्वेन त- स्य द्वितीयादिक्षणवृत्तित्वस्याप्युत्पत्तित्वप्रसङ्गात् तादृशाभामवैशिष्टयं स्ववृत्तिरवे सामानाधिकरण्यसम्बन्धन बोध्यम् । ननु मुले महाप्रलये ध्वंसरूपसमयेनैव क्षणव्यवहार उपपादनीय इत्युक्त तन्न सङ्गच्छते ध्वंसख क्ष. णत्वे सृष्टिकालेऽपि ध्वंसरूपस्थूलकालस्य क्षणत्वेन व्यबहारापत्तेः । यदि च चरमध्वंसव्यकेरेव तपकिरवे. 48