पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमान्वता । ३८१ आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् ॥ ४७ ।। आत्मानं निरूपयति ।। आत्मेन्द्रियाद्याधिष्ठातेति ॥ आत्मत्वजातिस्तु सुखदु:- - प्रभा मूले आत्मेन्द्रियाद्यधिष्ठातेति ॥ ननु आत्मसामान्यलक्षणोक्तयनन्तरमेवात्मस्वरूपप्रमाणयोर्वक्तव्य- तया तदकथनेन न्यूनतेत्याशङ्का मात्मशब्देनात्मत्वविशिष्टस्योपस्थित्यात्मत्वजातिमत्त्वमात्मनो लक्षणमित्युक्त प्रायमात्मशब्दस्यैव लक्षणकथनरूपत्वादिति परिहर्तुमादौ आत्मत्बजाति साधयति ॥ मुक्तावळ्यां सुख- तुःखादीति ॥ एतेनात्मनिरूपणप्रस्तावे आत्मत्व जातिसाधनमर्थान्तरग्रस्तमिति दूषणं परास्तम् । नच गुण- विभागकारिकयां ज्ञानस्यैव प्रथममुपस्थितत्वेन ज्ञानादिसमवायिकारणतावच्छेदकतयेत्यनुक्त्वा सुखादिसमवा - यिकारणतावच्छेदकतयेत्युक्तौ बीजाभाव इति वाच्यम् ज्ञानत्वस्य नित्यवृत्तितया कार्यतावच्छेदकत्वासंभवेन कालिकसमवायोभयसंबन्धस्य कार्यतावच्छेदकतावच्छेदकसंबन्धत्वस्वीकारे प्रयासाधिक्यामति अनन्तरोपात्त. मपि सुखादिकमादाय तत्समवायिकारणतावच्छेदकतयेत्युक्तम् । आदिना दुःखद्वेषधर्माधर्मादेः परिग्रहः। यद्य- पि आत्मत्वे अहं सुखीत्यादिप्रत्यक्ष प्रमाणमपि संभवति तथापि स्वीयात्मनि प्रत्यक्षसंभवेऽपि सकलात्मसा- धारण्येन तत्प्रत्यक्षासंभवेन सकलात्मसु तत्सिद्धयर्थमनुमानमुपन्यस्तामिति हृदयम् । ननु सुखत्वाद्यवच्छिन्नं प्रत्यात्मत्वेन कारणत्वे मानाभावः नचातिप्रसङ्गः अदृष्टादिकारणविरहादेवातिप्रसङ्गवारणसंभवादिति चेन्न कार्यमात्रवृत्तिजातेस्समवायि कारण कार्यतावच्छेदकस्वनियमेन ताशकार्यकारणभावस्यावश्यकत्वात् । नच तार शनियमसंरक्षणाय सुखत्वाद्यवच्छिन्नं प्रति सत्त्वेन द्रव्यत्वेन वा हेतुत्वमास्तां अदृष्टादिकारणविरहेणैवाति. प्रसङ्गवारणसंभवादिति वाच्यम् व्याप्यलघुभुतधर्मेण कारणत्वे संभवति व्यापकधर्मेण कारणत्वकल्पनाया अ. न्याय्यत्वात् इति प्राचामभिप्राय : तन्न कार्यमात्रवृत्तिजातेः समवायि कारणकार्यतावच्छेदकत्वनियमे मानाभा. वः किन्तु कार्यतावच्छेदकत्वमानं । अन्यथा चाक्षुषत्वादेरपि कार्यमात्रवृत्तितया चाक्षुषत्वादिभेदेनानुमिति. त्वादिभेदेन चात्मनस्समवायिकारणत्वप्रसङ्गात् । यच्चोकं व्याप्यलघुधर्मेण कारणत्वे संभवतीति तदपि न आत्मत्वस्य व्याप्यत्वेन सिद्धत्वेऽपि जातित्वसिद्धेः प्राकू तस्य लघुधर्मत्वासिद्धेः। अस्मद्गुरुचरणास्तु शरीरस्य समवायेन विहिताविहितकर्मवत्वेनादृष्टोत्पत्त्यापत्तेस्तजन्यसुखाद्युत्पत्तेश्च वारणाय सुखत्वाद्यवच्छिन्नं प्रति आत्मत्वेन कारणत्वमावश्यकमिति व्याचक्रुः । केचित्तु वस्तुतस्तु मनसि ज्ञानोत्पत्तिवारणाय ज्ञानत्वावच्छिन्नं प्रति आत्मत्वेन हेतुत्वमावश्यकामित्याहुः तदसत् तावतापि ईश्वरे ज्ञानोत्पत्त्यापत्तेर्दुारत्वात् । नच समवाये- न ज्ञानोत्पत्तौ शरीरस्यावच्छेदकतया ईश्वरस्य शरीराभावेन न तन येन ज्ञानोत्पत्यापत्तिरिति वा- दिनकरीयम् . सुखदुःखादीति ॥ आदिना ज्ञानेच्छाद्वेषप्रयत्नधर्माधर्मभावनापरिग्रहः । यद्यप्यात्मत्वस्यान्यात्मन्यप्रत्य. क्षत्वेऽपि स्वात्मनि स्वरूपतो मानसप्रत्यक्षविषयत्वमस्त्येव तथापि सकलात्मसाधारणानुगतप्रत्यक्षासम्भवेन रामद्रीयम्. अत एव एतादृशास्वरसं स्पष्टीकर्तुं नवीनमतमुपन्यस्यति ॥ नव्यास्त्विति । दिकालोपाधीनामिति ॥ न चैवं प्रन्थकृदुक्तकाललक्षणमसम्भवप्रस्तामिति वाच्यम् । नवीनानां प्रन्यकृदननुयायित्वादिति भावः । वदन्तीत्यनेन अनाप्यस्वरसस्सूचितम्तद्वीजं तु नानोपाधीनां कारणताकल्पनमपेक्ष्य एकस्य महाकालस्य कारणताकल्पनमेवोचितं लाघवास्कालस्य जगत्कारणत्वेऽपि उक्तरीत्याऽतिरिक्तकालसिद्धिसम्भवाचेति ध्येयम्॥ ॥ इति दिग्प्रन्थः ॥ नन्वहं सुखीत्यादिप्रतीत्या आत्मत्वेनात्मनो विषयीकरणात् प्रत्यक्षमेवात्मत्वे प्रमाणं सम्भवति तत्क- थं मूले सुखादिसमवायिकारणता किञ्चिदवच्छिन्ना कारणतात्वादित्यनुमानं तत्र प्रमाणत्वेन दर्शितमित्याश- इते ॥ यद्यपीति ॥ स्वरूपतः स्वांशे किञ्चिद्धर्माप्रकारकेत्यर्थः ॥ सकलात्मसाधारण्यं सकलात्मवि- शेष्यकत्वम् ॥ अनुगतप्रत्यक्षं सकलात्मगतैकात्मत्वप्रकारकप्रत्यक्षम् । प्रकारकत्वस्य समासलप्तषष्ठय-