पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरूद्रीयसमन्विता । प्रतिपन्नं प्रति प्रथमत एव शरीरादिमिन्नस्तलातीतिगोचर इति प्रतिपादयितुं न शक्यत इ- त्यतः प्रमाणान्तरं दर्शयति ॥ करणमिति ॥ वास्यादीनां छिदाकरणानां कर्तारमन्तरेण फ.. लानुपधानं दृष्टम् एवं चक्षुरादीनां ज्ञानकरणानामपि फलोपधानं कर्तारमन्तरेण नोपणात इत्यतिरिक्त कर्ता कल्प्यते ॥ ४७॥ शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः । ननु शरीरस्य कर्तृत्वमस्त्वत आह । शरीरस्येति ।। ननु चैतन्य ज्ञानादिकमेव मुक्तात्म- प्रभा. परम्परासंवन्धेन यथा लौहित्यवत्वं सम्पादयति तथा आत्मापि स्वसंयुक्तेन्द्रियादेपु जनकतावच्छेदकत्यात्म- परम्परासंबन्धेन चैतन्यवत्त्वं साधयतीत्यर्थः । एतावता स्वम्हापमुक्त्वात्मनि प्रमाणं दर्शयितुमादावाक्षेपमुक्तता करणं हील्यादि मूलमवतारयति ॥ यद्यप्यात्मनीति ॥ नचात्मनः प्रत्यक्षत्वस्वीकारे आत्मा ताचन प्रत्यक्ष इति सूनभाष्यविरोध इति वाच्यं भाष्यस्थात्मपदस्य परमात्माभिप्रायकत्वेन आत्मतत्त्वविवेके व्याख्यात. त्वात् ॥ विप्रतिपन्नं प्रतीति ॥ अहमिति प्रतीतेः शरीराद्यतिरिक्तविषयकत्वे विप्रतिपन्नं प्रतीत्यर्थः । या स्थादीनामिति ॥ इदंच दृष्टान्तकथनम् । तथाच इन्द्रियं सकर्तृकं फलोषधानात्मककारणत्वघटित करण. त्वात् छेदनफलोपधायकवास्यादिवत् इत्यनुमानं फलितम् । अत्रात्मनि व्यभिचारवारणाय तादृशकारण स्वमात्रस्य हेतुत्वं परित्यज्य तादृशकारणताघटितकरणत्वस्य हेतुत्वोपन्यासः। फलानुपधायके वात्यादी स्वरूपयोग्यतारूपकारणत्वघटितनिरुक्तहेतोः सत्त्वाद्यभिचारवारणाय फलोफ्धानात्मककारणताघटितस्य हेतु. रेवेनोपन्यासः । नच कर्तृभूतात्मनः विभुत्वाच्छिद्रकियास्वरूपयोग्यवास्थादायपि तत्संबन्धस्य विद्यमानत्वात कथं व्यभिचार इति वाच्यं कर्तृसंबन्धत्वं न कृत्यायसंबन्धत्वरूपं मूर्तमात्रे सिद्धत्वेन सिद्धसाधना इत्तेः किन्तु प्रकृत कार्योपधायककृतिकालीनत्वविशिष्टतादृशकृत्यवच्छेदक शरीरसंबन्धत्तम् । एवंच छिदिक्रियास्व- रूपयोग्यवास्यादौ तादशहेतुमति उक्तसाध्याभावात् व्यभिचारवारणाय निरुक्त हतौ फलोपधानात्मककार- णतानिवेशस्यावश्यकत्वात् ॥ ४५ ॥ ननु स्थूलोऽहं कृशोऽहं करोमीति प्रतीत्या शरीरस्यैव कर्तृत्वसिद्धेः शरीरमेवात्मेति चार्वाका- भित्ताभिप्रायकतया मूलमवतारयति ॥ ननु शरीरस्येति ॥ ननु चैतन्यं ज्ञानाधिकरणत्वोर दिनकरीयम्. चेतनाधिष्ठित कार्य करोतीति व्याप्तेः । अहं सुखीत्यादिनाहं जानाम्यह.करोमीत्यादिपरिग्रहः । नचात्मा सावन प्रत्यक्ष इति सूत्रभाष्यविरोध इति वाच्यम् । आत्मतत्त्वविचेके परात्माभिप्रायेण भाष्यव्याख्यानस्य प्रदर्शितला. त् ॥ विप्रतिपन्नं प्रतीति । अहमिति प्रतीतेः शरीराद्यतिरिक्तविषयकत्वे विप्रतिपन्नं प्रतीत्यर्थः ॥ ४७ ॥ रामरुद्रीयम्. चेतनस्याकारणत्वेऽपि तत्कारणप्रवृत्तिकारणत्वेन दृष्टान्तस्य न साध्यवैकल्यामिति विभावनीयम् । अचे- तनमिति ॥ यद्यपि करणं हि सकर्तृकमिति व्याप्तिः प्रदर्शिता यद्यत्करणं तत्तत्फलोपहितकारणं तत्राकतकं तदुपधाने तस्कर्तृसहकृतामिति तदर्थात् व्यापारवत्कारणस्य करणत्वे चक्षुःसंयोगेन जानातीति प्रयोगानुप- पत्त्या फलोपहितकारणत्वस्यैव तत्त्वात्सहकृतत्वं पूर्वनिरुक्तमेव एतादृश लामान्यमुखव्याप्तिरेवोत्तरत्र मूले वास्यादीनामित्यादिना दर्शयिष्यते तथापि आत्मनि उक्तांनयमस्य व्यभिचारः स्वाभिन्नतज्ज्ञानकर्तुरप्रसिद्ध हेतोदृष्टान्तपक्षसाधारण्यानुरोधेन उक्तनियमस्याश्रयत्वानुकूलकृतिमत्त्वतदन्यतररूपतत्तत्कियाकर्तृत्वघटितत्वा- गौरवं चेत्यालोच्य तादृशव्याप्तेरेवायं परिष्कार आदृतः यद्यदचेतनं यत्करोति यदुपधायकं भवति तत्तदुपधाने चेतनाधिष्ठितं भवतीति तदर्थः । चेतनाधिष्ठितत्वं पूर्वनिरुक्तमेवेत्युक्तानुमानेन चक्षुरादिभिन्नज्ञालासद्धिः चेतना चेतनयोरेकत्वासिद्धेरिति भावः । उक्तानुमाने वारयादिरेव दृष्टान्तः उत्तरमूलग्रन्थानुसारादिति भावः ॥ ४७ ।। 49