पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली नां त्वन्मत इव मृतशरीराणामपि तदभावे का क्षतिः प्राणाभावेन ज्ञानाभावस्य सिद्धरि- ति चन्न । शरीरस्य चैतन्ये बाल्ये विलोकित्तस्य स्थाविरे स्मरणानुपपत्तेः शरीराणामवयवो- एचयापचयत्यादविनाशशालित्वात् । न च पूर्वशरीरोत्पन्नसंस्कारेण द्वितीयशरीरे संस्का- र उत्पाद्यत इति वाच्यम् अनन्तसंस्कारकल्पने गौरवात् । एवं शरीरस्य चैतन्ये बालकस्य स्त. प्रभा, म् तु ज्ञानयत्वरूपं अन्यथा मुक्तात्मनि तव चैतन्याभावप्रसंजात् एवंच मृतशरीरस्य ज्ञानाधिक • रणवरूपचैतन्यवत्त्वात् कथं व्यभिचार इत्याक्षिपति ॥ चतन्यमित्यादिना ॥ ज्ञानादिकमेवेति ॥ ज्ञानाधाधिकरणत्वमेवेत्यर्थः । आदिना इच्छादेः परिग्रहः ॥ त्वम्मत इवेति ॥ देहातिरिक्तात्मत्ववा- दिनां सन इवेत्यर्थः । तदभाव इति ॥ ज्ञानाभाध इत्यर्थः ॥ का क्षतिरिति । ज्ञानाधिकरणत्वरू पचैतन्य मत्त्वादिति भावः । ननु तर्हि मृतशरीरे ज्ञानानु पत्तिः कुत इत्याशङ्का परिहरति ॥ प्राणाभावेनेति ।। सिरिति ॥ तथाच ज्ञानादिकं प्रति प्राणस्यापि हेतुतया मुक्तात्मनि प्राणाभावप्रयुक्तज्ञानाभाववत् मृत शशिरऽपि प्राणाभावप्रयुक्त ज्ञानाभाव संभवादिति भावः ॥ बाल्ये विलोकितस्येति ॥ अत्र सप्तम्य- थः अवच्छदकत्वं विलोकनपदं अनुभवमानपरं तेन शब्देनानुभूतस्य कालान्तरे स्मरणानुपपत्तरकथनात् न्यूनताशका निरस्ता । तथाच बाल्यावच्छेदेनानुभूतस्येत्यर्थः पर्यवस्पन्नः ॥ स्थाविर इति । अत्र स्थाविरपदं यौवनको मारबोहालक्ष तेन न न्यूनना । स्मरणानुपपत्तिमेवोपपादयति ॥ शरीराणा मिति ॥ उत्पादविनाशशालित्वादिति । तथाच नुभवाश्रयस्य बाल्यशरीरस्य नष्टत्वेन तदानी मभानादिति भावः ॥ संस्कार उत्पद्यत इति । तथाच स्वसामग्रीजन्ययौवनादिशरीरे चाल्य- शरीर समवेतसरकारेण यौवनादिश रे संस्कारान्तरोत्पत्तिस्वीकारेण तलापि स्वप्रयोज्यसंस्कारवत्व संबन्धे- जानु भवस्य सत्वान स्मरणानुपपात्तरिति भावः । अनन्तसंस्कारेति ॥ इदमुपलक्षणम् । संस्कार- स्य संस्कार जनकन्ये एकास्मिन्नेव शरीरे प्रतिक्षणं संस्कारान्तरोत्पत्त्यापत्तेः पूर्वशरीरोत्पन्न संस्कारस्य उ. तशीर निष्ट संस्कारस्य सामानाधिकरण्याभावेन संस्कारस्य भस्कारजनकत्वे मानाभावात्यपि बोध्यम् । ननु लाघवात् कृप्तशरीरस्य नेतन्यासिद्धी अनन्तसंह कारादिकलनं न दोपाय फलमुखत्वादित्यतो दिनकरीयम. नैयायिकमसे यथा मुक्तात्मनां ज्ञानाभावेन न ज्ञानाधिकरणत्वरूपं चतन्य तथा मलपि मते मृतशरीर- स्य च चैतन्यमिति शरीरमेवात्मेति वादी चार्वाकः शकते ॥ ननु चैतन्यमिति ॥ ज्ञानादिकं ज्ञानाद्यधिक - रणत्यम् । तदभाये ज्ञानाद्यभाये । ननु तर मते मृतशरीरे चैतन्याभार: किंनिबन्धनः सन्मते तु प्राण- विशिष्टात्मनो विरह एव तत्र प्रयोजक इत्यत आह ॥ प्राणामावेनेति । तथा च लाघवात् प्राणाभावः बैतन्यविरहे प्रयोजक इति भावः । चार्वाकमतं परिहरति ॥ नेति ॥ स्मरणानुपपत्तेरिति ॥ अनुभवा. श्रयस्य वाल्यशरीरस्य तदानीमभावादिति भावः । ननु बाल्यशरीरं सदाऽस्त्येवेत्यत आह । शरीराणा. मिति ॥ संस्कार उत्पाद्यत इति ॥ तथा च स्वप्रयोज्यसंस्कारवत्त्वसम्बन्धेन वाल्यशरीरसमवेतानुभ- वस्य स्थविरशरीरे सत्त्वान्न म्मरणानुपपत्तिरिति भावः । गौरवस्य फलमुखत्वाद्दूषशान्तरमाह ॥ एवमिति ॥ रामरुन्द्रीयम्. शरीरमेवात्मेति ॥ तथा चोक्तहेतोरसिद्धिरिति भावः ॥ ज्ञानाद्यधिकरणत्वमिति ॥ कालि- कादिना ज्ञानादेः कालादावपि सत्त्वेन तेषामपि चेतनत्वापत्त्या समवायावच्छिन्नज्ञानाद्याधारत्वमेव चैतन्य- मिति भावः ॥ उत्पद्यतामितीति ॥ ननु पूर्वपूर्वशरीरनिष्टसंस्कारेणोत्तरशरीरे संस्कारोत्पत्तावपि न स्म- रणोपपत्तिः स्थविरशरीरे बालकशरीरंगतानुभवस्य स्वजन्यसंस्कारवत्त्वसम्बन्धेन विरहादित्यत आह ॥ त- थाचेति ॥ गौरवस्य अनेकसंस्कारव्यक्तिकल्पनरूपगौरवस्य ॥ फलमुखत्यादिति ॥ फलं विचारफलं शरीरस्यात्मदनिश्चयः तन्मुखत्वात्तदुत्तरकालीनत्वादित्यर्थः । फलं मुखं पूर्वकालीनं यस्येति व्युत्पत्तेः तथा