पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रभा-दिनकरी व रामरूद्रीयसमन्विता । - न्यपाने प्रवृत्तिर्न स्यात् इष्टसाधनताज्ञानस्य तद्धेतुत्वात् तदानीमिष्टसाधनत्वानुभावकाभावात् मन्मते तु जन्मान्तरानुभूतेष्टसाधनत्वस्य तदानीं स्मरणादेव प्रवृत्तिः । न च जन्मान्तरातु- भूतमन्यदपि स्मयतामिति वाच्यम् उद्बोधकाभावात्। अत्र त्वनायत्या जीवनादृष्टमेवोद्रो- धक कल्प्यते । इत्थं च संसारस्यानादित्तया आत्मनोऽनादित्वसिद्धावनभिावस्य नाशा- सम्भवानियत्वं सम्भवतीति बोध्यम् ॥ प्रभा. दूषणान्तरमाह ॥ एवमिति ॥ न स्यादित्यस्य हेतुमाह ! इति ॥ तद्धे तुत्वादिति ॥ इच्छाद्वारा प्रवृत्तिहेतुत्वादित्यर्थः । वालस्य इष्टसाधनताज्ञानरूपकारणासत्त्वमुपपादयति ॥ तदानीमिति ॥ स्तन्यपा- नप्रवृत्तिपूर्वकाल इत्यर्थः ॥ अनुभावकाभावादिति ॥ इन्द्रिय समिकर्षरूपकारणाभावात प्रत्यक्षानु- त्पत्त्या ज्ञानसामान्याभाबादेव इष्टसाधनत्वविषयकानुमित्याद्यनुत्पत्तिसंभवादिति भावः एतादशा- नुपपत्तिस्तवापि तुल्येत्याशवां स्वमतेष्टसाधनलाज्ञानोपपादनेन परिहरति । मन्मते विति ॥ प्रवृ- त्तिरिति ॥ तथाच स्मृत्यनुभवसाधारणेष्टसाधनताज्ञानत्वेन हेतुत्वादिति भावः ॥ स्मयतेति ॥ तथा- च जन्मान्तरानुभवजन्य घटादिविपय कसंस्कारस्यापि सत्वादिति भावः ॥ उद्घोषकाभावादिति ॥ तथाच उद्बुद्धसंस्काररूपकारणाभावात् न घटादिस्मरणापत्तिरिति भावः । ननु स्तन्यपानविशेष्यके साधनत्वप्रकारकस्मृतिजनकगंस्कारस्य अनुहृद्धत्वात् कथं तादृशस्मृतिरित्याशङ्का उद्बोधकसत्त्वप्रात-- पादनेन परिहरति ॥ अत्र विति ॥ इष्टसाधनत्वस्मारकसंस्कारे लित्यर्थः ॥ अनायत्या जीवनान्यथानु- पपत्त्या जीवनादृष्टमेवेति ॥ अन्यथा वालस्य शुष्ककण्ठतवा मरणापत्तिरिति भावः ॥ इत्यंचति ॥ शरीरातिरिक्तात्मसिद्धौ चेत्यर्थः ॥ संसारस्यानादितयेति ॥ अन संसारः जननमरणान्यतर- रूपः तस्यानादित्वं न प्रागभावाप्रतियोगित्वं तयोः प्रागभावप्रतियोगित्वात् किन्तु स्वाश्रयानधिकर- णकालकाभिन्नधर्मवत्त्वम् । एवंच जननमरणान्यतरस्वरूपसंसारत्वस्य स्वशब्देनोपादनासंभवः तादृशा- न्यतरत्वाश्रयानधिकरणकालाप्रसिद्धेः कालमात्रस्य जननमरणान्यतराश्रयत्वात् । किन्तु घटनिष्ठतव्यक्ति त्वादि- कमेव तादृशस्वाश्यानधिकरणकालकं ययत्स्वं तत्तद्यक्तिमदकूटवत्त्वस्य पूर्वोक्तस्यान्यतरत्वे सत्त्वात् तद्वत्व- मादाय संसारस्यानादित्वापत्तिः । नच संसारस्य एतादृशानादित्वोपपादनेऽपि आत्मनः अनादित्व इदं वर्थ प्रयोजकमिति वाच्यं शरीरस्य जननमरणयोः अनादित्वस्वीकारे तत्कारणीभूतादृष्टस्याप्यनादित्वं बाय तच स्वाश्रयागभायाधिकरणस्वाश्रयानधिकरणकालकाभन्नधर्मवत्वरूपं महाप्रळयस्य स्वपदार्थादृष्टवा- श्रयानधिकरणतया अदृष्टत्वस्य तादृशकालिकभिन्नधर्मत्वाभावात् अदृष्टस्य तादृशधर्मवत्वरूपानादित्वानु पपत्तिः अत: सत्यन्तं कालावशेषणं असंभववारणाय स्वाश्रयानधिकरणत्वमपि कालविशेषणं । एवं दिनकरीयम्. न स्यादित्यत्र हेतुमाह ॥ इष्टेति ॥ तद्धेतुत्वात् प्रवृत्तिहेतुत्वात् ॥ तदानी स्तन्यपानप्रवृत्त्यव्यवहितपू. बकाले । ननु प्रवृत्त्यन्यथानुपपत्तिस्तवापि समानेलाशय स्वमते प्रवृत्त्यन्यथानुपपत्तिं परिहति ॥ मन्म- ते विति ॥ अन्यदपीति ॥ इष्टसाधनत्वादन्यदपीत्यर्थः ॥ अत्र तु स्तन्यपानप्रवृत्त्यनुकूलेटसाधनत्व- स्मरणे तु । आत्मनो नित्यत्वं साधयति । इत्थं चेति ॥ स्तन्यपानप्रवृत्त्यनुकूलष्टसाधनतास्मरणे च । प्रा- गभावस्य नाशसम्भवादाह ॥ भावस्येति ।। नाशासम्भवादिति ॥ नाशं प्रति जन्मभावत्वेन हेतुत्वा- दात्मनोऽनादित्वेन जन्यभावत्वरूपहेतोरभावेन नाशासम्भवादित्यर्थः । इति चार्वाकमतखण्डनम् ॥ रामरुद्रीयम्. चोत्तरकालीनगौरवज्ञानस्य पूर्वकालीन निश्चयप्रतिवन्धकत्वासम्भव इति भावः ॥ इटसाधनत्यादन्यदपी- त्यर्थ इतीति ॥ तथा च सर्वेषां जातिस्मरत्वापत्तिरिति भावः । मूले अनायसेत्सत्यागलेलः । अन्यथे- साधनतानुभवाभावेनोद्बोधकाभावेन स्मरणासम्भवेन च प्रयुक्त्यसम्भवेन बालः शुक्रकण्ठो म्रियतेति भा.