पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रमा-दिनकरीय-रामबद्रीयसमन्विता । ३८९ तथात्वमिति ॥ तथात्वं चैतन्यम् ॥ उपघाते नाशे सति । अर्थाच्चक्षुरादीनामेव । कथं स्मृतिः पूर्वं चक्षुपा साक्षात्कृतानां चक्षुरभावे स्मरणं न स्यात् अनुभवितुरभावात् अन्येनानुभूतस्यान्येन स्मरणासम्भवात् अनुभवस्मरणयोः सामानाधिकरण्येन कार्यकारणभावादिति भावः॥४८॥ प्रभा. आदिना प्रत्यक्षप्रमितिविभाजकोषाध्यवच्छिन्नपरिग्रहः । तथाच तादृश हेतोरव्याभिचारित्वेन कर्तृत्वसाध- कत्वसंभव इति भावः । अत्र व्यतिरेकदृष्टान्तोऽवसेयः । हेतोविरुद्धत्वाश का वारयति ॥ विरोध इति ॥ विगतभिन्नाधिकरणवृत्तीत्यर्थः ॥ सामानाधिकरण्य इति यावत् ॥ साधकाभावादिति पाठे तु विरोधे असामानाधिकरण्ये मानाभावादिति कर्तृकरणत्वे विरुद्ध इति साधकप्रत्ययाभावादिति भावः॥ ननु न चैतन्यमित्यत्र विशेष्यतया उपस्थितस्याभावस्यैव तच्छब्देन परामर्शसंभवः तस्य प्रकृतानुपयुक्त- त्वमतो व्याचष्टे ॥ मुक्तावल्यां तथात्वं चैतन्यमिति ॥ उपघातपदस्य केवलावयवनाश एव प्रयो- गादाह ॥ नाश इति ॥ उपघातपदस्य ससंवन्धिकतया उपघातः केषाभित्या कालायाः सत्त्वा- दाह ॥ अर्थादिति ॥ तथाच एकमेवेन्द्रियाणामिति पदं काकाक्षिन्यायेन उभयत्र संवध्यत इति भावः । कथं स्मृतिरिति मूलेन चक्षुरभाषेन स्मरणानुप्रपत्तिरुक्का तत्र हेतोरनुपपत्तेः स्वयं हेतुं पूरयितुं मूलार्थमाह । पूर्वमिति ॥ चक्षुषः नाशात्पूर्वमित्यर्थः । चक्षुषा साक्षात्कृताना- मिति ॥ चक्षुःकारणकत्वविशिष्टचक्षुःकर्तृकत्वविशिष्टचाक्षुपविषयाणामित्यर्थः ॥ चक्षुरभाव इति ॥ चाक्षुषकारणाभिन्नचाक्षुषसमवाव्यभाव इत्यर्थः । तत्र हेतुमाह ॥ अनुभचितुरिति ॥ ननु सिद्धा- न्तिमते चक्षुरादिनानुभूतस्य इन्द्रियान्तरेण मनसैव स्मरणादेतन्मतेऽपि इन्द्रियान्तरेणैव स्मरणं नानु. पपन्नमत आह ॥ अन्येनानुभूतस्येति ॥ तत्र हेतुमाह ॥ अनुभवेति ॥ साभानाधिकरण्ये. नेति ॥ समवायघटितसामानाधिकरण्ये नेत्यर्थः । नचन्द्रियान्तरेण स्मरणस्वीकारे समवायघटितसा- दिनकरीयम्. वाद्याचष्टे ॥ तथात्वं चैतन्यमिति ॥ उपधातपदस्य केवलावयवनाश एवं प्रयोगस्तदाह ॥ ना. श इति ॥ मूले उपघाते कथं स्मृतिरित्युक्तं तत्रोपघातः केपामित्याकालायाः सत्त्वादाह ॥ अर्था- दिति ॥ तथाचैकमेवेन्द्रियाणामिति पदमाकासावशादुभयत्र सम्बध्यत इत्याशयः । कथं स्मृतिरिति मूलेनेन्द्रियाणां चैतन्यपक्षे चक्षुरभावे स्मृत्यभाव आपादितस्तत्र हेतोरनुक्तेः स्वयं हेतुं पूरयन्नर्थमाह ॥पूर्व च-- क्षुषेति ॥ नन्विन्द्रियान्तरेणैव स्मृतिर्भविष्यतीत्यत आह ॥ अन्येनानुभूतस्येति ॥ अत्र हेतुमा- ह ॥ अनुभवेति ॥ यद्यपि व्यधिकरणयो: कार्यकारणभावविरहात्सामानाधिकरण्येनेत्युक्तिफिला तथापि यत्र विषयतासम्बन्धेन स्मृतिस्तत्र विषयतासम्बन्धेनानुभव इतीदृशाविषयत्वघटितसामानाधिक- रण्यप्रत्यासत्त्या कार्यकारणभाव आवश्यकः आत्मनिष्टसामानाधिकरण्यघटित कार्यकारणभावेन घटाद्यनु. भवोत्तरं पटादौ विषयतासम्बन्धेन स्मृत्यापत्तेरवारणादिति । चक्षुःकर्तृकानुभवस्य घटे सत्त्वादिन्द्रिया- न्तरकर्तृकं स्मरणं तत्र नानुपपन्नमित्याशङ्कानिराकरणाय तथोक्तिः समचायघटितसामानाधिकरण्यप्रत्यास. त्येति तदर्थः । चैत्रस्य घटानुभवकाले मैत्रस्य घटस्मरणवारणाय तत्तत्पुरुषभेदेनानन्तकार्यकारणभावक- ल्पने गौरवात् समवायघटितसामानाधिकरण्य प्रत्यासत्या तयो तुहेतुमद्भावस्वीकारादिति भाव इति ध्ये. रामरुद्रीयम्. त्तिः । तदपि विभिन्न प्रतिनिमित्तकत्वमेव । केवलावयवेति ॥ अवयविरहितावयवेत्यर्थः । अ- • वयवनाशेऽप्यस्यविनो नाशस्यावश्यकत्वात्केवलेत्युक्तम् । नत्ववयविनाशव्यवच्छेदाय तदुफि: एक्का. रेणैव तत्सिद्धेः ॥ उभयत्रेति ॥ इन्द्रियाणामित्यस्य तथात्वं नाश इत्युभयोरित्यर्थः ॥ घटाद्यनुभवोत्तरं पटादाविति ॥ न च घटविषयकस्मरणं प्रति घटविषयकानुभवत्वेन कारणले नैष दोष इति वाच्यम् । तथासति विषयभेदेनानन्तकार्यकारणभावप्रसङ्गादिति भावः ॥ तयोहंतुहेतुमद्भावस्वीकारादिति ॥