पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ४०१ ने गन्ध इतिवदुभयं नैकमित्यस्य सर्वजनसिद्धत्वात् । योऽपि तदानीमभेदप्रतिपादक आगम: सोऽपि निर्दुःखत्वादिना साम्यं स्तौति सम्पदाधिक्ये पुरोहितोऽयं राजा संवृत्त इति- वत् अत एव निरश्चनः परमं साम्यमुपैतीति श्रुतिः श्रूयते । ईश्वरोऽपि न ज्ञानसुखात्मा किं तु ज्ञानाद्याश्रयः नित्यं विज्ञानमानन्दं ब्रह्मेत्यादौ विज्ञान पदेन ज्ञानाश्रय एवोक्तः यःसर्वशः स सर्वविदित्यायनुरोधात् । आनन्दमित्यस्याप्यानन्दवदित्यर्थः । अर्शआदित्वान्मत्वर्थीयो- प्रभा. भव- इत्यादिग्रन्थस्यान्यार्थकत्वेनोपवर्णितत्वादिति हृदयम् । नन्वेवं सति मोक्षकाले जीवब्रह्मणोरभेदप्रतिपादकश्रु तेः का गतिरत आह ॥ योऽपीति ॥ तदानीमिति ॥ मोक्षकाल इत्यर्थः ॥ आगम इति ॥ ब्रह्मविदौ व भवतीत्याकारकागम इत्यर्थः॥निर्दुःखत्यादिनेति ॥ निर्दुःखत्वादिविशिष्टात्मत्वेनेत्यर्थः । यथाश्रुते नि- दुःखत्वादिरूपसाम्यस्य घटादिसाधारणतया श्रुतौ ब्रह्मविदित्युपमेयनिर्देशवैयर्थ्यापत्तेः । आदिना निषत्वा दिपरिप्रहः । तृतीयार्थोऽभेदः तस्य साम्येऽन्वयः ॥ स्तोतीति ॥ अभेदेन स्तोतीत्यर्थः । तथाचाभेदार्थस्य प्रातीतिकार्थत्वेऽपि साम्यस्यैव वास्तवार्थत्वात् नोक्तदोप इति भावः । ननु साम्यवोधतात्पर्येणाभेदेन प्रति पादनं न दृष्टींमत्याशङ्का तादृशोदाहरणप्रतिपादनेन परिहरति ॥ संपदाधिक्येति ॥ उक्तार्थोपष्टम्भकश्रु- तिमाह ।। अत एवेति ॥ ब्रह्मविदित्यादिश्रुतेः साम्यप्रतिपादकत्वादेवेत्यर्थः ॥ निरञ्जन इति ॥ निदुःख इत्यर्थः ॥ परमं साम्यमुपैतीति ॥ उत्कृष्टसाम्यमुपैतीत्यर्थः । श्रुतिः श्रूयत इति । इत्यर्थका श्रुतिः पठ्यमानवेदे उपलभ्यते । तथाच ब्रह्मविदिति श्रुतेरभेदार्थकत्वे निरञ्जन इत्यादिश्रुतेरप्रामाण्यापत्तेरिति भावः अत्र लोके ईषत्साम्यमित्यत्र साम्यस्य ईधत्त्वमुपमानवृत्तियत्किञ्चिद्धर्माभिन्नत्वरूपं यथा सिद्ध तथा परमं साम्य. मित्यत्र साम्यस्य परमत्वं उपमानवृत्तियावद्धर्माभिन्नत्य रूपमेव वाच्यं तुल्यन्यायात् । एवंच निर्दुःखेश्वरात्म- कोपमानवृत्तियावद्धर्माभिन्नमुणैतीति तात्पर्यार्थस्य वक्तव्य तया उपमेयतया निर्दुःखे तादृशयावद्धर्मान्तर्गतेश्व. रस्वरूपधर्मवत्त्वस्यापि प्राप्त्या ईश्वरत्वरूपैकमात्रधर्भवत्व आदाय तादृशश्रुतेरभेदार्थकत्वलाभाज्जीवब्रह्मणोर्भेद- व्यवस्थापने उपष्टम्भकतया एतादृशश्रुतिलेखनं प्रामादिक्रमिति प्रतिभाति । द्वितीयपक्षे दूषणमाह् ॥ ईश्व- रोपीति ॥ अपिना जीवो यथा न ज्ञानसुखात्मा तथा प्रमाणाभावादीश्वरोऽपि ज्ञानसुखात्मको न तीत्यर्थः सूच्यते एतदेवोपपादयति ॥ किंत्विति ॥ ननु तर्हि ईश्वरस्य विज्ञानाद्यभिन्नत्वप्रतिपादकश्रुति- विरोध इत्याशङ्कां श्रुतेर्विज्ञानाद्यानयपरत्वद्रढीकरणेन परिहरति ॥ नित्यमिति ॥ विज्ञान पदेनेति ॥ अ. धिकरणार्थकल्युङन्तविज्ञानपदेनेत्यर्थः । तादृशश्रुतिघटकविज्ञानपदस्य स्वार्थकल्युडन्तत्वे बाधकश्रुतिमाह ॥ सर्वज्ञ इति ॥ आदिना यस्य ज्ञानमयं तप इत्यादेः परिग्रहः । तथाच नित्यं विज्ञानमिति श्रुतौ विज्ञान प. दस्य स्वार्थकल्युडन्तत्वे यः सर्वज्ञ इत्यादिश्रुतिविरोधापत्त्या अधिकरणार्थकल्युटन्तत्वमवश्यमङ्गीकार्य मिति भावः उकश्रुतिघटक विज्ञानपदयाधिकरणल्युङन्तत्वेन तेन विज्ञानाश्रयत्ववोधनेऽ यानन्द- शब्देन ईश्वरस्यानन्दरूपत्वबोधने वाधकाभाव इत्यत आह ॥ आनन्दमिति ॥ आनन्दवदित्यर्थ दिनकरीयम्. कायाः का गतिरत आह् ।। योऽपीति ॥ अत एव ब्रह्मविदेव भवतीति श्रुतेः साम्यप्रतिपादकत्वादे- व || निरञ्जनः निर्दुःखः । द्वितीये दोषमाह ॥ ईश्वरोऽपीति ॥ विज्ञानपदेन नित्यमित्यादिश्रुन्यन्तर्ग- तविज्ञानपदेन अधिकरणल्युडन्तेन विज्ञानाश्रयस्वाधनादिति भावः आनन्दवदित्यर्थ रामरुद्रीयम्. मित्यर्थः । यथाश्रुते भेदनाशाभ्युपगमेन पुन:ोत्पादस्य मूलाभुक्तत्वेन च भेदव्यवस्थापनस्थासङ्गत्यापत्ते- रिति ध्येयम् । न च भेदनाशे प्नतिबन्धकाभावेन तादात्म्यमप्युत्पद्यतामिति वाच्यम् । अभेदभावनामात्रेण तादात्म्योत्पत्तौ घटपटयोरपि तथात्वापत्तेरिति भावः । स्वभिन्नधर्मशून्यत्वमित्यस्य नानुपपन्नमित्यप्रेतनेना- न्वयः ॥ द्वितीय इति ॥ नात्मसामान्यस्य ज्ञानरूपत्वं किन्तु परमात्मन एवेति द्वितीयपक्ष इत्यर्थः ।। 51 11 -