पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली ऽच्प्रत्ययः भन्यथा पुहिङ्गत्वापत्ते: आनन्दोऽपि दुःखाभावे उपचर्यते भाराद्यपगमे सुखी संवृत्तोऽहमितिवत् । अस्तु वा तस्मिन्नानन्दो न त्वसावानन्दः असुखमिति श्रुतेः । न वि- द्यते सुखं यस्येति कुतो नार्थ इति चेन्न । क्लिष्टकल्पनापत्तेः प्रकरणविरोधादानन्दमित्यत्र मत्वर्थीयाच्प्रत्ययविरोधाच्चेति सङ्ग्रेपः ।। प्रभा. इति । अन्यथा सुखार्थानन्दशब्दस्य पुलिस त्वनि यमेन मत्वर्थीयाच्प्रत्ययान्तत्वं विना नपुंसकानुषप तरिति भावः । ननु आनन्दवदर्थकत्वमपि न संभवति तव मते निरानन्दकब्रह्मणि आनन्दासंभवाद. त आह ॥ आनन्दोऽपीति ॥ उपचर्यत इति ॥ दुःखाभावं प्रवृत्तिनिमिती कृत्य ईश्वरे आनन्द- शब्दः प्रयुज्यत इत्यर्थः । तथाचामन्दशब्दस्य दुःखाभाववति लक्षणेति । ननु तर्हि घटादावप्याग- न्दशब्दस्य प्रयोगापत्तेः तव लक्षणापत्तेश्च अत आह || अस्त्चिति ॥ नित्यज्ञानादिवन्नित्यसुखमप्य. स्त्वित्यर्थः । ईश्वरस्य मुखभिन्नत्वे प्रमाणमाह ॥ असुखमिति ॥ तथाचासुखं ब्रह्मति श्रुतिघटकनको ब्रह्मणि मुखभेदबोधनादिति भावः ॥ क्लिप्टकल्पनापत्तरिति ॥ नञः तत्र लक्षणापत्तरित्यर्थः । नहि नतत्पुरुषेऽपि तख लक्षणावश्यकी तस्य निपातत्वेन भेदेनान्वय संभवात् । ननु नञ्तत्पुरुषेऽपि ए. कमिबोधकत्वरूपसामानाधिकरण्यमनुभवसिद्धं । अन्यथा असुखपदब्रह्मपदयोः समानवचनत्वानुपपत्तेः अतस्तन्निवाहार्थं नमः अभाववति लक्षणा तवाप्यावश्यकीत्यत आह ॥ प्रकरणेति ॥ शरीरभेदाद्यर्थ- काशगरमित्यादिश्रुतिघटकासुखशब्दम्य सुखाभाववदर्थकत्वासंभवादित्यर्थः । प्रकरणविरोधस्यादोपत्वेs- पि पणान्तरमाह । मत्वर्थी याच्प्रत्ययविरोधाञ्चति ॥ सुखार्थकानन्दशब्दस्य पुल्लिङ्ग त्वनियमेन मत्व याप्रत्ययान्तत्वं विना नपुंसकत्वानुपपत्त्या आनन्दमिति शब्दस्यासाधुत्वापत्तरिति भावः । दिनकरीयम्. इलि ॥ मत्वर्थीयाच्प्रत्ययान्तनानन्दशब्देनानन्दवतो बोधनात् अन्यथाऽऽनन्दमिति नपुंस- कन्चानुपपत्तेरिति भावः । नन्वानन्दवदित्यर्थो न सगच्छते तव मते ईश्वरे आनन्दाभाचादत आह ॥ आ. नन्दोऽपीति ॥ लक्षणा कल्पनमेव तव दोष इत्यत आह ॥ अस्तु वेति । असुखमिति ॥ असुखमित्य- स नया ब्रह्मणि सुखभेदबोधनादिति भावः ॥ क्लिटकल्पनापत्तरिति ॥ बहुब्राहावन्यपदार्थलाभार्थं न. अर्थः । नच नञ्तत्पुरुषेऽपि नलो लक्षणाऽऽवश्यकी अन्यथा नज सामार्थतया भे. देनान्वयासम्भवादिति वाच्यम् । तस्य नामत्वेऽपि निपातत्वादिति । ननु नञ्तत्पुरुषेऽपि तत्रामुखपदब्रह्म पदयोरेकधार्मिबोधकत्वलक्षणं सामानाधिकरण्यमनुभवसिद्धं अन्यथा तयोः समानवचनत्वानुपपत्तेरतस्तनि. र्वाहार्थं नोऽभाववति लक्षणा तवा यावश्यकीत्यत आह ॥ प्रकरणेति ॥ प्रत्ययविरोधाच्चेति ॥ आ. नन्दशब्दस्य पुलिजत्वनियमेनानन्दमिति रूपस्य मत्वर्थीयाच्प्रत्ययं विनाऽनुपपत्तरिति भावः । इति वे- दान्तिमतखण्डनम् ॥ रामरुद्रीयम्. त्वर्थीयेति । तदस्यास्तीत्यर्थे मतुबादीनामिव अर्श आदिभ्योऽजिति सूत्रण अच्प्रत्ययविधानादिति भावः ।। नपुंसकत्वानुपपत्तेरिति ।। स्यादानन्दथुरानन्द इति कोशेन तस्य नित्यपुलिङ्गत्वावधारणादिति भावः। न च छान्दसं नपुंसकलिङ्गत्वमिति वाच्यम् । गत्यन्तराभाव एव छान्दसत्वाभ्युपगमादित्यवधेयम् ।। आ. वश्यकीति ॥ ब्रह्माण सुखभिन्नस्यैयाभेदान्वयसम्भवादिति भावः । ननु नअर्थभेदस्याश्रयतयैव ब्रह्मण्यन्व- यो वाध्य इत्यत आह ॥ अन्यथेति ।। नामार्थतयेति ॥ नामार्थयोः भेदान्य य बोधोपगमे राजा पुरुष इ. त्यत्रापि राजकीयः पुरुष इति बोधापत्तिरिति भावः ॥ निपातत्वादिति ॥ निपातातिरिक्तनामार्थयोरेव अभेदेनान्वयनियमः कथमन्यथा घटो नास्तीत्यादौ नअर्थाभावे प्रतियोगितया घटादेरन्वयाभ्युपगम इति भा. वः ॥ समानबचनेति ॥ अभेदान्वयस्थल एव समानवचनत्यनियमादिति भावः ॥ प्रत्ययविरोधादि- जस्तन लक्षण