पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । एतेन प्रकृतिः कर्वी पुरुषस्तु पुष्करपलाशवन्निर्लिप्तः किंतु चेतना कार्यकारणयोरभे- दात् कार्यनाशे सति कार्यरूपतया तन्नाशोऽपि न स्यादित्यकारणत्वं तस्य बुद्धिगतचैतन्याभि-- प्रसा. सांख्यमतमुपन्यस्यति ॥ एतेनेति ॥ पूर्वोक्तरीत्याऽऽत्मनो ज्ञानवत्त्वसाधनेन वक्ष्यमाणदोषेण थे. त्यर्थः ॥ प्रकृतिरिति ॥ मूलाविद्यात्मकप्रकृतिरित्यर्थः ।। कीति ॥ कर्तृत्वं चात्र मूलाविद्यान्तःकरणा- प्रकृतित्वरूपं बोध्यं कृतिमत्त्वरूपकर्तृत्वस्य तन्मते अन्तःकरणवृत्तित्वात् । नैयायिकाभिमतं पुरुषस्य क.. र्तृत्वं निषेधति ॥ पुरुष इति ॥ पुष्करपलाशवदिति ॥ पद्मपत्रवदित्यर्थः ॥ निर्लिप्त इति । अत्र लिप्तत्वमनुयोगितासंबन्धेन विजातीयसंयोगवत्वं । वैजात्यं च अम्भसा भस्मलिप्तं शरीरं तैलेन लिप्तमि- लायनुगत प्रतीतिसिद्धनोदनस्वव्याप्यजातिविशेषरूपं अनुयोगितासंबन्धेन ताशवैजात्यावच्छिन्न प्रतियोगि- ताकाभाववत्त्वं स्वरूपसंबन्धन तादृशवैजात्यावच्छिन्नानुयोगित्वावच्छिन्नप्रतियोगिताकाभाववत्वं वा नि- लिप्तत्वं । तस्य निर्लिप्तत्वे किं प्रमाणमत आह ॥ किंत्विति ॥ यत इत्यर्थः । तथाच पुरुषः लि. तत्वाभाववान् चेतनत्वात् इाते व्यतिरेक्यनुमानमेव निलितत्वे प्रमाणमिति भावः । एतन्मते चैतन्यं न ज्ञानाश्रयत्वं ज्ञानस्य पुरुषावृत्तित्वात किंतु चेतन इत्यनुगतप्रतीत्या चेतनपदशक्यतावच्छेदकतया वा सिद्ध- धर्मविशेषः । सचात्मत्वरूपोऽतिरिक्तो वा अन्यदेतत् । ननु तस्य निर्लिप्तत्वेऽपि कारणत्वमास्तामत आह || कार्यकारणयोरपीति ॥ एतन्मत इत्यादिः ॥ न स्यादिति ॥ मा भवत्वित्यर्थः ॥ इत्य- कारणत्वमिति ॥ इति हेतोः अकारणत्वमित्यर्थः ॥ तस्येति ॥ पुरुषस्येति । स्वीकार्यमिति शेपः । तथाच नाशाप्रतियोगित्वरूपनित्यत्वानुपपत्त्या कारणत्वनाङ्गीकर्तव्यमिति भावः । यद्यपि चैतन्यनित्यत्व. योः अन्यतरलिङ्गनैव निर्लिप्तत्वकारणवाभावोभयसाधनसंभवे हेतुद्वयोपन्यासो व्यर्थः तथापि शिष्यबु- दिनकरीयम्.. साङ्ख्यमतं दूषयितुमुपन्यस्यति ॥ एतेनेति ॥ पूर्वोक्तयुक्त्याऽऽत्मनो ज्ञानवत्त्वसाधनेन वक्ष्यमाणयु. स्या चेत्यर्थः । प्रकृतिरिति । मूलप्रकृतिरित्यर्थः ॥ कति ॥ कर्तृत्वं चात्र कर्तृभूतान्तःकरणप्रकृति- त्वम् । अनुकूलकृतिमत्त्वलक्षणकर्तृत्वस्य तन्मतेऽन्तःकरणधर्मस्वादिति ध्येयम् । पुष्करपलाशवदिति ।। पद्मपत्रवदित्यर्थः । यथा च पनपत्रमम्भसा लिप्त न सम्भवति तथा पुरुषः कर्तृत्वाद्याश्रयो न भवतीति भावः । तथा च पुरुषः कर्तृत्वाभाववान् कारणत्वाभावादित्यनुमान तत्र प्रमाणं बोध्यम् । ननु तत्र कारणत्वसत्त्वाद्धे. स्वसिद्धिरत आह ॥ कार्यकारणयोरिति ॥ न स्यादिति ॥ मा भववित्यर्थः ॥ तस्य पुरुषस्य । न- न्वेतादृशपुरुषसत्त्वे किं मानमत आह ॥ बुद्धिगतेति ॥ कचित्प्रसिद्धस्यैव चैतन्यस्य बुद्धावारोपसम्भवा- रामरुद्रीयम्, ति ॥ न विद्यते सुखं यस्येति बहुव्रीह्यादरणे आनन्दमित्यत्र मत्वर्थकाच्प्रत्ययश्रुतिविरोधादिति भावः। व.. स्तुतः प्रकरणपदस्य प्रत्ययार्थकता न प्रसिद्धा अतो नञ्तत्पुरुषनिष्पन्नपदपरम्परापठितत्वमेव प्रकरणं त: द्विरोधादित्यर्थः । अस्थूलमनणु अदीर्घमित्यादौ सर्वत्र नञ्तत्पुरुषदर्शनेन तत्सन्निधौ पठितस्य असुखमिति पदस्य बहुवाहिनिष्पन्नत्वे प्रकरणविरोधादित्यों ज्यायानिति प्रतिभाति ॥ इति वेदान्तिमतखण्डनम् ॥ मूलस्थ एतेनेत्यस्यार्थमाह ॥ पूर्वोक्तेति ॥ न च पुरुषस्य साङ्ख्यमतेऽपि किं तु चेतन इत्यनेन चेत- नत्वाङ्गीकाराचैतन्यस्य ज्ञानरूपत्वादात्मनो ज्ञानवत्वसाधनेन साङ्चमतनिराकरणासम्भवादिदमसकतमिति वाच्यम् । चेतनत्वस्य तन्मते विज्ञानरूपत्वाभ्युपगा दन्यथा चेतनातिरिक्तज्ञानाभ्युपगमे तस्य पश्चविंशति तत्त्वमध्येऽप्रविष्टतया तत्त्वाधिक्यापत्तेः मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । पोडशकातु वि. कारो न प्रकृतिर्न विकृतिः पुरुष इति तसिद्धान्तादिति भावः। एतेनेत्यस्यैवार्थान्तरमाह ॥ वक्ष्यमाणेति॥ मूलेति ॥ सर्वकारणेत्यर्थः ॥ प्रकृतित्वमिति ॥ कारणत्वमित्यर्थः । नम्वनुकूलकृतिमत्त्वमेव कर्तृव मिति कुतो नाभ्युपेयत इत्यत आह ॥ अनुकूलेति ॥ मा भवत्वितीति ॥ पुरुषस्य घटादिकारणत्वे घटादि.