पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली मानान्यथानुपपत्त्या तत्कल्पनं । बुद्धिश्च प्रकृतेः परिणामः सैव महत्तत्त्वमन्तःकरणमित्यु- च्यते तत्सत्त्वासत्त्वाभ्यां पुरुषस्य संसारापवर्गौ तस्या एवेन्द्रियप्रणालिकया परिणतिनिरू- प्रभा. द्धिवेशद्याय हेतुद्वयोपन्यास इति ध्येयम् । ननु चैतन्यस्यैवाळीकत या कथं तेन हेतुना निर्लिप्तत्वा- दिकं साध्यत इत्यत आह ॥ बुद्धिगतेति । तत्कल्पनमिति ॥ पुरुषे चैतन्यस्वीकार इत्यर्थः । तथाच क्वचित्प्रसिद्धस्यैव बुद्धावारोएसं भवेन तादृशारोपान्यथागुपपत्त्या पुरुषे चैतन्यमङ्गीकर्तव्यामिति भावः । ननु बुद्धिपुषयोरभेद एवास्त्वित्यत आह ॥ बुद्धिश्चेति ॥ चोऽवधारणे । तस्य परिणामपदार्थन सहान्वयः । मूलाविद्यायाः परिणाम एव वुद्धिरित्यर्थः । एवकारेण पुरुषाभिन्नत्वव्यवच्छेदः । तथाच नि. त्यत्वानित्यत्वरूपविरुद्धधर्माध्यासान्न बुद्धिपुरुषयोरभेदसंभव इति भावः । ननु पुरुषस्याकर्तृत्वे कृतिसाध्य- धर्माधर्मयोस्तत्रानुत्पत्त्या तजन्य सुखदुःखयोः सुतरामसंभवेन सर्वदा पुरुषस्यासंसारित्वापात्तरत आह ॥ तत्सत्त्वासत्त्वाभ्यामिति ॥ बुद्धिसत्त्यासत्वाभ्यामित्यर्थः । तथा चैतन्मते पुरुषस्य बुद्धिरूपमूलाविद्या. संबन्ध एव संसारः मूलाविद्यानिवृत्तिरेव मोक्ष इति वस्तुगतिः । तथाहि वस्तुतो दर्पणासंबद्धस्यापि मुखस्य स्वच्छत्वरूपोपाधिकृतदर्पणासंसांग्रहात फूत्कार जानित दर्पणनिष्टमालिन्यस्य यथा ज्ञान तथा बुद्ध्यसंबद्धत्या- ‘पि पुरुषस्य स्वच्छत्वरूपोपाधिकृतवुद्धयसंसर्गाग्रहात् बुद्धिपरिणतिरूपाणां सुखादीनां बुद्धिपरिणत्याकारविशे. षरूपाणां घटादिरूपविषयाणां च पुरुषे ग्रहः तथाच न वस्तुतः पुरुषस्य विषयसंबन्धः किन्तु औपाधिक इति औपाधिकमेव संसारित्वं बुद्धिनाशे तु उपाध्यभावात् स्वाभाविकमेचासंसारित्वमिति । ननु तव मते पुरुष- स्य ज्ञानवत्त्वरूपचैतन्य मेवास्तु बाधकाभावात् । नच तस्य ज्ञानवत्त्वे अनित्यधर्मात्रयत्वेनानित्यत्वापत्तिरिति वाच्यं ज्ञान स्यापि नित्यत्वस्वीकारात् । एवंच बुद्धिज्ञानयोः ऐक्येन बुद्धरपि नित्यतया तत्कारणतया मूल. प्रकृतिसिद्धिस्तु सुदूरपराहतेत्याशङ्कां परिहरति॥ तस्या एवेति ॥ इन्द्रियप्रणाळिकया ॥ इन्द्रियकरणिका दिनकरीयम्. दिति भावः ॥ प्रकृतेरिति ॥ मूलप्रकृतरित्यर्थः । ननु पुरुपस्य कर्तृत्वाभावे तत्र धर्माधर्मयोरुत्पत्त्यभावा- तदधीनमुखदुःखयोस्तत्रानुत्पत्तौ दुःखध्वसरूपमोक्षः पुरुषस्य न स्यादत आह ॥ तत्सत्त्वासत्त्वाभ्यामिति ॥ बुद्धिसत्त्वासत्त्वाभ्यामित्यर्थः । वुद्धिसत्वे इन्द्रियप्रणालिकया तत्परिणामेनायं घट इत्यादिज्ञानेन सम्बद्धो घटा. दिविषयः स्वाकारज्ञामपरिणामिबुद्धयागृहीतासंसर्गकत्वसम्बन्धेन पुरुषनिष्टः पुरुषस्वरूपतिरोधानेन पुरुषस्य संसारसम्शदक: बुद्धिनाशे तु तत्परिणामस्यायं घट इत्यादिज्ञानरूपस्याभावाद्विषयावच्छेदाभावात्कैवल्या- वस्थान रूपो मोक्षः दुःखसम्बन्धत«सरूपौ संसारमोक्षौ तु न पुंसः किंतु बुद्धेरेवेति भावः । ननु पुरु- पे साक्षात्सम्बन्ध एव विषयस्यास्तु स एव च तस्मिन् संसारव्यवहारनियामकोऽस्तु किमुक्तबुद्धिघटितपर. परासम्बन्धेने त्यत आह ॥ तस्या एवेति ॥ तथा च विषये वुद्धेरेव सम्बन्धः पुरुषसम्बन्धः बुद्धिपुरुष- रामरुद्रीयम् कार्यस्यापि नाशो न स्यात्कार्यकारणयोरभेदारपुरुषस्य चाविकारस्य नाशरूपविकारासम्भवादिति भावः ।। इन्द्रियप्रणालिकयेति ॥ इन्दियद्वारेत्यर्थः । इन्द्रियमार्गेण वहिर्निर्गताया बुद्धेर्घटादिविषयदेशप्राप्तौ त. दाकारेण वुद्धेः परिणामो जायते स एव वृत्तिरूपं घटादिज्ञानमिति रीत्येन्द्रियाणां द्वारता बोध्या ॥ सम्ब. न्ध इति ॥ खाकारकत्वमेव ज्ञानघटयोः सम्बन्धः ॥ स्वाकारोति ॥ घटादिविषयाकारेत्यर्थः ॥ परि- णामित्वं कारणत्वम् ॥ अगृहीतासंसर्गकत्वं अगृहीतभेदकत्वं भेदाग्रहस्तु बुद्धिसान्निध्यरूपदो- षादेवेति बोध्यम् ॥ स्वरूपतिरोधानं सम्बन्धमात्ररहितस्वभावस्याप्रकाशः ॥ विषयावच्छेदः विष- यसम्बन्धमानम् । कैवल्येनेत्यस्यापि विषयसम्बन्धमानं विनेत्येवार्थः । बुद्धेरेवेति ॥ बुद्धावेव दुःखस्य राद्धंसस्य चोत्पादादिति भावः ॥ साक्षात्सम्बन्धः स्वरूपसम्बन्धरूप इत्यर्थः । बुद्धः पुरुषसम्बन्धित्वं तत्र पुरुषसम्बन्धं विनाऽनुपपन्नमियाशङ्कयाह ॥ बुद्धीति ॥ तथा च भेदाग्रह एव तत्र तत्सम्बन्ध इति