पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली स्येव मलिनिमा ] कर्तव्यमिति व्यापारांशः । तेनांशत्रयवती । बुद्धिस्तत्परिणामेन ज्ञानेन पुरुष- स्यातात्त्विक सम्बन्धः दर्पणमलिनिम्नेव मुखस्योपलब्धिरुच्यते । निज्ञानवत्सुखदुःखेच्छाद्वेष- धर्माधर्मा अपि बुद्धेरेव कृतिसामानाधिकरण्येन प्रतीतेः । नच बुद्धिश्चेतना परिणामित्वात् । प्रभा. द्वाह्यस्वाभावात् बाह्यघटादिना तादात्म्यस्य बाधितत्वादिसत आह ॥ इन्द्रियप्रणाळिकयेति ॥ इन्द्रियद्वारा बहिनिर्गता सतीत्यर्थः ।। परिणतिभेदः॥ विभिन्ना विलक्षणा परिणतिरित्यर्थः । कृभिहित इति न्यायात् तेन भिद्यतेऽनेनेति व्युत्पत्त्या भेदशब्दस्थ वैलक्षण्यार्थकत्वादयं घट इत्याद्याकारकप्रतीतिलाभः । तथाच बु- दौ घटाद्याकारिज्ञानपरिणामित्वमेव विषयसंवन्ध इति न पूर्वोक्तदोष इति भावः । अत्र ज्ञानस्य घटाद्या- कारित्वं च स्वाभिन्नस्वविषयघटादिकत्वरूपमेव ज्ञानरूपवुद्धिपरिणतेः बाह्यत्वेन सविषयकत्वस्वीकारेण च घटा- दिरूपविषयस्य ज्ञानाभिन्नत्वज्ञानविषयत्वोपपत्तिरिति बोध्यम् । विषयेण सह बुद्धेः परिणतिवि. शेषरूपसंवन्धस्य तात्त्विक वे दृष्टान्तभाह ॥ निश्वासाभिहतेत्यादि । फूत्कारजन्यवायुसंबन्धा- जायमानदर्पणनिष्ठमालिनिमेवेत्यर्थः ॥ कर्तव्यमिति व्यापारावेश इति ॥ विषयनिष्ठ कर्तव्य तया सह बु द्धेस्संबन्ध इत्यर्थः । अत्र कर्तव्यत्वेन सह वुद्धविषयविषयिभावस्य तादात्म्यस्य वा उक्तदोषेण वक्तमशक्य तया कर्तव्यत्वाकारिज्ञानपरिणामित्वमेव बुद्धौ कर्तव्यतासंबन्ध इति हृदयम् । ज्ञानस्य कर्तव्यताकारित्वं चो- तविषयाकारित्व बोध्यम् । अत्रापि दृष्टान्तः निश्वासाभिहत दर्पणरण गलिनिमेति हृदयम् ॥ तेनेति ॥ बुद्धेर्ममेदं कर्तव्यमित्याकारकत्वेनेत्यर्थः ॥ अंशत्रयवतीति ॥ पुरुषसंबन्धविषयसंबन्धव्यापारसंबन्धरूपांशलयवतीय- र्थः। एतावता युद्धेरंशत्रयवत्त्व मुंगपाद्य संप्रत्युपलब्धिस्वरूपं दर्शयति ॥ तत्परिणामेत्यादि । बुद्धिपरिणामेन ज्ञानेन पुरुषात्य यः अतात्त्विकस्संबन्धः चेतनोऽहं जानामि चेतनोऽहं करोमि इत्याकारकः पुरुष ज्ञानपरिणामि. बुद्धितादात्म्यभ्रमरूपः स एवोपलब्धिरिति योजिततादृशमन्धसमुदायार्थः नतु बुद्धिरेचोपलब्धिरिति भावः । तादृशज्ञानपुरुषयोनिरुतसंबन्धस्यातात्त्विकत्वे दृष्टान्तमाह ॥ दर्पणमलिनिम्नेव मुखस्येति ॥ संबन्ध इलनुवर्तते । तथाच दर्पणमुखयोरसंसर्गामहात् दर्पणनिष्टमालिन्यस्य यथा मुखे श्रमस्तथा बुद्धिपुरुषयोरसंस- बिहात बुद्धिनिष्टज्ञानपरिणामित्वस्यापि पुरुषे भ्रम इति भावः ॥ शान वत्सुखेत्यादि ॥ ज्ञानस्य वुद्धिपरि- दिनकरीयम्. दिज्ञानरूपः परिणाम एव विषयेण घटादिना बुद्धेः सम्बन्ध इत्यर्थः । तस्य पारमार्थिकत्वे निःश्वासाभिह- तदर्पणस्य मलिनिमा दृष्टान्तः ॥ कर्तव्यमितीति ।। पूर्वोक्त पुरुषोपरागविषयोपरागाभ्यां कर्तव्यस्य घटा देरवभासस्तेन कर्तव्यमित्यध्यवसायो व्यापारांश इत्यर्थः ॥ ज्ञानेन पुरुषस्यातात्त्विका सम्बन्ध इ- ति ॥ अत्र ज्ञानेन पुरुषस्य योऽतात्त्विका सम्बन्धः स उपलब्धिरित्युच्यत इत्यन्वयः । अतात्विके दृष्टा- न्तः दर्पणत्य मालनिम्नेव मुखत्य सम्बन्ध इति । तथा च ज्ञानेन सह चेतनोऽहमिदं जानामीत्याकारो बुद्धावा- रोपितस्य यः सम्बन्धोऽतात्त्विकः स उपलब्धिर्न तु बुद्धिरेवोपलब्धिरिति भावः ॥ कृतिसामानाधिक- रण्येनेति ॥ अष्टस्यातीन्द्रियत्वेऽपि धार्मिकोऽहं करोमीति तर्दशे उपनीतभानरूपं बोध्यम् ॥ परिणामि- रामरुद्रीयम्. उकाशयकल्पनागौरवमभिसन्धाय प्रकारान्तरेणैतबन्धमेवावतारयति । यद्वेति ॥ पुरुषोपरागाभ्यामि- ति ॥ विशेषणे तृतीया तदर्थस्य च बुद्धर्ज्ञानरूपपरिणामार्थकाध्यवसायपदार्थेऽन्वयः । कर्तव्य घटादेरिति ष- व्यर्थोऽपि तत्रैवान्वेति ॥ व्यापारांश इति ॥ व्यापारः कर्तव्यमित्यभिलप्यमानः अशः सम्बन्धो यस्य स तथेत्यर्थः । तथा च ममेदं कर्तव्यामिति बुद्धयभिलापकशब्दे ममेत्यनेन पुरुषसम्बन्धः इदमित्यनेन वि. षयसम्बन्धः कर्तव्यामति व्यापारसम्बन्धो बुद्धावभिलप्यत इति सम्बन्धनयवती बुद्धिरिति सिद्धमिति भा- वः ॥ तथाचेत्यादि ॥ चेतनोऽहं करोमीलाकारेण बुद्धाचारोपितस्व पुरुषस्य ज्ञानेन सहेदं ज्ञानमिति प्र. तीयमानोऽतात्विकसम्बन्धो यस्स उपलब्धिरित्ययों योजनया प्रतीयमान इत्यस्याध्याहारेण च बोभ्यः ।