पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावछी-प्रभा-दिनकरीय-रामभद्रीयसमन्विता । इति मतमपास्तम् । कृत्यदृष्टभोगानामिव चैतन्यस्यापि सामानाधिकरण्याप्रतीतेः तद्भिन्ने मा नाभावाच्च । चेतनोऽहं करोमीति प्रतातिः चैतन्यांशे भ्रम इति चेत् कृत्यंशेऽपि किं नेष्यते अन्य- था बुद्धेर्नित्यत्वे मोक्षाभावोऽनित्यत्वे तत्पूर्वमसंसारापत्तिः । नन्वचेतनायाः प्रकृतेः कार्यत्वा. प्रभा. णामत्वेन बुद्धिधर्मत्वस्यावश्यकतया तस्य दृष्टान्तत्वकथनं । बुद्धेरेवेति ॥ वुद्धिधर्मा एवेत्यर्थः ॥ कृ- तिसामानाधिकरण्येनेति ॥ कर्तुनिष्ठत्वेनानुभवासेद्धत्वादित्यर्थः । तेषां कृतिसाध्यत्वादिति भावः । ते. षो जीवनयोनियत्नसाध्यत्वादिति भाव इत्यपि केचित् । ननु बुद्धौ चैतन्यानुभवानुरोधेन चैतन्यवत्तया पुरु. षवल्पनमयुक्त बुद्धावेव चैतन्यस्वीकारेण बुद्धी तादृशज्ञानस्य प्रमाणत्वादित्याशको वुद्धौ चैतन्यनिराकरणेन परि- हरति ॥ नचति ॥ परिणामित्वादिति ॥ अनित्यत्वादित्यर्थः । अत्र घटादिष्टान्तो बोध्यः ॥ कृत्यदृष्टात ॥ अदृष्टादेः कृति सामानाधिकरण्यस्य साधितत्वत्तेषां दृष्टान्त त्वमङ्गीकृतं । सामानाधिकरण्येन प्रतीतेरि- ति ॥ कृतिसामानाधिकरण्येन अनुभवादित्यर्थः ॥ तदिन्ने मानाभावाच्चेति ॥ कती भन्न चेतने भानाभावाञ्चन्यर्थः । तथाच बैतन्यकृत्योः चतनोऽहं करोमोत्याकारक सामानाधिकरण्यावगाहनुभववि- रोधापत्त्या कर्तृचतनयोः भेदो नाङ्गोकर्तव्य इति भावः । चकारेण पूर्वोक्तदोपसमुच्चीयते । ननु प. रिणासित्वेन चैतन्य भावस्य साधितत्वात्तादृशप्रतीतश्चैतन्यांशे भ्रमत्वमङ्गीकामित्याक्षिपति ॥ चेत. नोऽहमिति ॥ कृत्यंशेऽपीति ॥ तथाच बुद्धिः कर्तृत्वाभाववती परिणामित्वादित्यनुमानेन कर्तत्वा- द्यभावस्यापि बुद्धौ साधयितुं शक्यतया तादृशप्रतीतेः कृत्यंशेऽपि भ्रमत्वमेवाङ्गीकर्तव्यामति तादृशभ्रमानुरोधेन पुरुषस्यैव कतत्वमङ्गीकर्तव्यं तदनुरोधेन च सुखादिकमपि तत्रैवाहीकर्तव्यामेति प्रमाणाभावात् बु. द्धिर्नाङ्गीकर्तव्येति भावः । बुद्धौ प्रमाणाभावमुक्ता वाधकमप्याह ॥ अन्यथेति ॥ अतिरिक्तबु. द्धिस्वीकार इत्यर्थः । बुद्धनित्यत्व इति ॥ तथाच बुद्धेस्सर्वदा सत्त्वेन तद्वंटितविषयसंबन्ध- दिनकरीयम्. स्वादिति ॥ अनित्यधर्माध्यत्वादित्यर्थः । कृत्यदृष्टभोगानामिति ॥ कृतिः स्वसमानाधिकरणमेवादृष्टं जनयत्ति तच्चादृष्टं स्वसमानाधिकरणमेव भोग जनयतीति कृत्यदृष्टभोगानो परम्परया सामानाधिकरण्यप्रमि. तिवचेतनोऽहं करोमीति सामानाधिकरण्यप्रमितिप्रतीरित्यर्थः ॥ तद्भिन्नति ॥ कर्तृभिन्ने मानाभाषादि- त्यस्य चेतन इत्यादिः । च : पूर्वोदूषणसमुच्चायकः कर्तृत्वाश्रयो न चेतनः जन्यधर्माश्रयत्वात् घट- वदिति बाधकसत्त्वाच्चेतनोऽहं करोमीति प्रतीतिश्चैतन्यांशे भ्रम इत्याशङ्कते ॥ चैतन्यांशे इति ॥ कृत्यं- शेऽपीति ॥ बुद्धिः कर्तृत्वाभाववती जन्यधर्माश्रयत्वात् इति बाधकस्य तत्रापि सत्त्वादिति भावः ॥ अ- न्यथेति ॥ कर्तृचेतनयो दाङ्गीकार इत्यर्थः ॥ वुद्धनित्यत्व इति ॥ कर्तृभिन्नस्य चेतनस्य स्वी. रामरदीयम्. ननु कृतिसामानाधिकरण्येन अदृष्टप्रतीतिः प्रात्यक्षिकी न सम्भवति तस्यातीन्द्रियत्वादत आह ॥ अदृष्ट- स्येति ॥ तदंशो अदृष्टांशः ॥ अनित्यधर्मत्वादिति ॥ यद्यपि धर्माश्रयत्वांशो व्यर्थः तथापि क्षणिकवि. ज्ञानवादिना अनित्यविज्ञाने व्यभिचारोद्भावनमाभिसन्धाय तदुक्तं क्षणिकविज्ञानस्य वृत्तिमत्त्वलक्षणधर्मत्व- विरहान्न तत्र व्यभिचार इति भावः । वृत्तिमत्त्वं च दैशिकसम्बन्धेन बोध्यम् । तेन कालिकेन क्षणिकविज्ञा. नस्य वृत्तिमत्त्वेऽपि न व्यभिचारतादवस्थ्यं बुद्धेस्तु प्रकृतिपरिणामत्वेन तद्वृत्तित्वान्न स्वरूपासिद्धिः । ननु त- द्भिन्ने मानाभावादित्यसङ्गतं कर्तृभिन्नानां प्रकृत्यादीनां सत्त्वादत आदि पूरयति । चेतन इत्यादिरिति । धुद्धिः कर्तृत्वाभाववती जन्यधर्मत्वादिति पाठः । जन्यधर्माश्रयत्वादिति प्रामादिकः । यद्ययं नैयायिकानां प्रयोगस्तदा तन्मते कर्तुर्जन्यधर्माश्रयत्वाद्वयभिचारित्वापत्तेः यदि च सालयमतप्रविष्टस्यैव तन्मतसिद्धपुरुष । स्यैव कर्तृत्वमस्तु न बुद्धरित्यभिप्रायेणायं प्रयोग इत्युच्यते तदा स्वमतव्याघातः कर्तृत्वस्यापि जन्यधर्मत- या पुरुषधर्मत्वासम्भवेन कर्तृत्वस्याधर्मत्वापत्तिवेति । यदि च तत्पाठप्रामाण्येऽप्याग्रहस्तदा जन्यधर्मः कः