पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० कारिकावली -- धर्माधर्माश्रयोऽध्यक्षो विशेषगुणयोगतः ॥ ४९ ॥ इति सङ्गेपः॥धर्माधर्मेति॥आत्मेत्यनुषज्यते । शरीरस्य तदाश्रयत्वे देहान्तरकृतकर्मणां देहान्त. रेभोगानुपपत्तेः ॥ विशेषेति ।। योग्यविशेषगुणस्य ज्ञानसुखादेः सम्बन्धेनात्मन् : प्रत्यक्षत्वं सम्भवति न स्वन्यथाऽहं जानेऽहं करोमीत्यादि प्रतीतेः ॥ ४९ ।। प्रवृत्त्याघनुमेयोऽयं स्थगत्येव सारथिः । आत्मा परदेहादी प्रवृत्त्यादिनाऽनुमीयते । प्रवृत्तिरत्र चेष्टा ज्ञानेच्छाप्रयत्नादीनां देहे- ऽभावस्योक्तप्रायत्वात् चेष्टायाश्च प्रयत्नसाध्यत्वाचेष्टया प्रयत्नवानात्माऽनुमीयत इति भावः । ना स्वतन्त्रकर्तृत्वस्यैवात्मनो निषिद्धत्वादिति भावः । पुरुषस्यैव कर्तृत्वमस्तु नच कारणत्वाभादेन कर्तृत्वाभा वस्साधित इति वाच्यं स्वरूपासिद्धेः । नच कार्यकारणयोरभेदात् कार्यनाशे कार्यरूपतया तस्य नाशापत्त्या अकारणत्वमेवेति वाच्यं कार्यकारणयोरभेदस्यैवासिद्धत्वादित्यादियुक्तिसत्त्वे प्रन्यविस्तर भिया नोक्तमित्याशयेन संक्षेप इत्युक्तमिति ध्येयम् ॥ तदाश्रयत्व इति ॥ धर्माधर्माश्रयत्व इ. त्यर्थः ॥ देहान्तरकृतकर्मणामिति ॥ देहान्तरे कृतानि कर्माणि यैरिति व्युत्पत्त्या देहान्तरावच्छेद्यकर्म- विषयकसफलयत्नवतामित्यर्थः । देहान्तरावच्छेशोत्पत्त्याश्रयादृष्टवतामिति यावत् ।। देहान्तरेण देहान्तर!- घच्छेदेन ॥ भोगानुपपत्तेरिति ॥ सुखदुःखानुभयो ग स्यादित्यर्थः । कार्यकारणयोम्सामानाधिकरण्या- भावादिति भावः। अध्यक्षो विशेषगुणयोगत इति मूलेन विशेषगुणसंबन्धेनात्मनः प्रत्यक्षत्वमुक्तं तच्चायुक्त अ. रष्टसंबन्धनात्मप्रत्यक्षाभावादतः विशेषगुणपदं योग्यविशेषगुणपरतया व्याकरोति ॥ मुक्तावल्यां योग्य विशेषेति ॥ यथाश्रुतमूलार्थदूषणमाह ॥ नस्विति ॥ तदेवोपपादयति ॥ अहं सुखीत्यादि ॥ इत्या- दिप्रतीतेरिति । इत्याद्याकारकयोग्यविशेषगुणप्रकारेणैवात्मप्रत्यक्षस्यानुभवसिद्धत्वादित्यर्थः ॥ ४९ ।। परदेहादाविति ॥ आदिपदेन वीणादेः परिग्रहः ॥ प्रवृत्त्यादिनेति ॥ श्रादिपदेन पञ्चमादि- स्वरादेः परिप्रहः । प्रवृत्तिसाधने प्रवृत्तेलिंङ्गत्वासंभवात् प्रवृत्त्यनुमितेः पूर्व प्रवृत्तेरज्ञानाच्च प्रवृत्तिशब्दे- नात्र लक्षणया प्रवृत्तिजन्यचष्टेव प्राया । तथाच इदं परकी यशरीरं अवच्छेदकतासंबन्धेन यत्नवत् चे धावत्वान्मच्छरीरवत् इयं परक्रीयवीणातन्त्री स्वप्रयोज्याभिघाताख्य संयोगसंवन्धेन प्रयत्नवत् अव च्छेदकतासंबन्धेन पञ्चमादिस्वरवत्त्वादस्मदीयवाणातन्त्रीवत् अस्मदीयताल्वोष्टादिवचेत्यनुमानेन प्रयत्नसि- द्धौ तदाश्रयतया परात्मा सिध्यतीति भावः ॥ प्रवृत्तिरत्र चेष्ट्रेति ॥ एतद्वाक्य घटकप्रवृत्तिपदलक्ष्या. धश्वष्टेत्यर्थः ॥ उक्तप्रायत्वादिति ॥ शरीरस्य न चैतन्यमित्यनेन ज्ञानाभावस्य उक्तत्वादिच्छादीनामभा- वस्य कण्टतः अनुक्तेश्च प्रायपदं । पूर्वोक्तानुमाने अनुकूलतर्कमाह ॥ चेष्टायाश्चेति ॥ चशब्देन पूर्वो- दिनकरीयम्. भावेन कर्तृत्वाभाव एंव साधनीय इति वाच्यं स्वरूपासिद्धेः । कार्यकारणयोरभेदात् कार्यनाशे कार्यरूप. तया नाशः स्थादित्यकारणत्वं पुरुषस्येत्यपि न सत् कार्यकारणयोरभेदत्यवासिद्धत्वादित्यादि विस्तरभिया नोकमित्यभिप्रायवानाह ॥ संक्षेप इति ॥ तदाश्रयत्वं धर्माधर्माश्रयत्वे ॥ अन्यथा विशेषगुणसम्बन्धाहते ॥ इत्यादिप्रतीतेरिति ॥ इत्यादौ ज्ञानादिसम्बन्धप्रकारेण वात्मनः प्रत्यक्षस्यानुभवसिद्धत्वादित्यर्थः ॥ ४९ ॥ परकीयप्रवृत्यादेरतीन्द्रियत्वेन हेतुज्ञानासम्भचात् स्वरूपासिद्धेश्वाह । प्रवृत्तिरनेति । उक्तप्राय. स्वादिति ॥ शरीरस्य न चैतन्यमित्यनेनोक्तत्वादित्यर्थः । इच्छादीनामभावस्य कण्टरवेणानुक्केः प्रायप दम् । चेष्टायाः प्रवृत्तिज्ञापकत्वेऽनुकूलतर्कमाह ॥ चेष्टायाश्चेति ॥चेष्टयति ॥ शरीरे सभत्रायेन चेष्टानु- -मितस्यावच्छेदकतया प्रयत्नस्य समवायेनाश्रय आत्मैवेति भावः ! दृष्टान्तासिद्धिमाशय निराकरो- रामरुद्रीयम्. थम् ॥ स्वरूपासिद्धेरिति ॥ परकीयशरीरस्यैव पक्षतया तत्र प्रवृत्तिरूपहेतोरभावादिति भावः ॥ इष्टा-