पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली विभुर्बुद्धयादिगुणवान बुद्धिस्तु द्विविधा मता। अनुभूतिः स्मृतिश्च स्यादनुभूतिश्चतुर्विधा । ५१ ॥ विभुरिति ॥ विभुत्वं परममहत्परिमाणवत्वम् । तच्च पूर्वमुक्तमपि स्पष्टार्थमुक्तम् ॥ बु. द्वयादिगुणवानिति ॥ बुद्धिसुखदुःखेच्छादयश्चतुर्दशगुणाः पूर्वमुक्ता वेदितव्याः । अत्रैव प्रसङ्गात्कतिपयं बुद्धेः प्रपञ्चं दर्शयति || बुद्धिस्त्विति ॥ द्वैविध्यं व्युत्पादयति ।। अनुभू- प्रभा. स्मृतस्य नन्वात्मनःप्रत्यक्षमनुपपन्न महत्त्वाभावादत आह॥ मूले विभुरिति ॥ ननु प्रत्यक्षे विभुत्वस्याहेतुतया आत्म. नो विभुत्वकथनं प्रकृतानुपयुक्तमत आह ॥ मुक्तावल्यां विभुत्वं परममहत्त्वमिति ॥ तथाच मूलस्थवि- भुशब्दः महत्वावच्छिन्नलाक्षणिक इति भावः । ननु कालखात्मदिशां सर्वगतत्वं परमं महदिति अन्धनात्म- नः परममहत्त्वस्य प्रतिपादितत्वात पौनरुक्त्यमत आह ॥ तच्चेति ॥ परममहत्त्वं चेत्यर्थः ॥ स्पष्टार्थ- मिति ॥ तथाचात्मनि परममहत्त्वोपस्थिति विनोकशङ्कायाः अपरिहारात् झटिति तदुपस्थित्यर्थं पुनरुक्ति- रिति भावः ॥ पूर्वमुक्ता इति ॥ साधम्र्य प्रकरणे बुद्धयादिषट्कं संख्यादिपञ्चकं भावना तथा इत्यादिना उक्ताश्चतुर्दश गुणा इत्यर्थः । वेदितव्या इति ॥ बुद्धयादिगुणवानित्यत्रादिशब्देन ग्राह्या इत्यर्थः ॥ इति प्रत्यक्षपारच्छेदे द्वितीयपरिच्छेदः समाप्तः । ननु आत्मनिरूपण्प्रस्तावे बुद्धद्वैविध्य करणमसातमित्याशङ्कां सातिप्रदर्शनेन परिहरति ॥ मुक्तावल्यामत्रैवेति ॥ आत्मनिरूपणप्रकरण एवेत्यर्थः ॥ प्रसङ्गादिति ॥ उपे. धानहत्वरूपप्रसङ्गसङ्गतिवशादित्यर्थः । अप्रमा च प्रमा चेति ज्ञानं द्विविधामध्यते इत्यनेन अप्रमाव- प्रमात्वाभ्यां बुद्धेविभागस्याग्रे करणीयत या सर्वधः प्रकृते बुद्धविभागाभावात् कतिपय इत्युक्तं । अत्र प्रपञ्चश. ब्दो धर्मपरः कतिपयशब्दश्च ईषत्परः तस्याभेदेन धर्मेऽन्वयः तस्य धात्वर्थेऽन्वयः। तथाव बुद्धिविशेष्य केषदभि- भावान्तरधर्मप्रकारकज्ञानजनकशब्दानुकूलकृतिमानिति बोध इति ध्येयम् । अनुभव विभजते ॥ मूले अनुभूति. दिनकरीयम्. कालखात्मदिशा सर्वगतत्व परमं महदित्यनेनात्मनि परममहत्त्वस्यो ते : पौनरुत्यमाशङ्कयाह ॥त बेति ॥ पूर्यमुक्ता इति ॥ बुद्धादिषट्कं संख्यादिपञ्चकं भावना तथा । धर्माधर्मों गुणा एते आत्मनः स्युश्चतुर्दश इत्यनेन साधर्म्यप्रकरणे कथिता इत्यर्थः ॥ इति श्रीभारद्वाजकुलोद्भवबालकृष्णभस्तनद्भवमहादेव. भट्टकृतौ मुकावलीप्रकाशे द्वितीयः परिच्छेदः ॥ मूले बुद्धिस्तु द्विविधा मता अनुभूतिः स्मृतिश्च तत्रानूभूतिः प्रत्यक्षात्मिकैवेति चार्वाकाः । अनु. मितिरपीति कणादसुगतौ । उपमितिरपीति केचिन्नैयायिकैकदेशिनः । अर्थापत्तिरपीति प्राभाकराः । अनुप- सन्धिरपीति भाटा वेदान्तिनश्च । सम्भवै तिह्यरूपे अपीति पौराणिकाः । तत्सर्वमयुक्तमिति सूचयितुमनुभू- तेश्चातुर्विष्यमाह ॥ अनुभूतिश्चतुर्विधेति ॥ अनुमिनोमि उपमिनोभि शाब्दयामीति प्रतीतिसिद्धानामनु- मित्यादीनां दुर्वारतया चार्वाकाद्युदितमयुक्तम् । अर्थापत्तेश्चानुमितावेवान्तर्भावो व्यतिरेकिंप्रन्थे व्यक्तीभवि. रामरुद्रीयम्. अर्थापत्तिरपीति ॥ पीनो देवदत्तो दिवा न भुङ्क्त इति ज्ञानानन्तरं पीनत्वान्यथानुपपत्त्या रात्रिभोजन कल्पयति इयमर्थापत्तिरित्यर्थः ।। अनुपलब्धिरपीति ॥ अभावे क्लप्ससन्निकर्षाभावेन प्रत्यक्षासम्भवात्त- रहार्य प्रतियोग्युपलम्भाभावस्य प्रमाणत्वं परिकल्प्य तज्जन्यवाभावप्रतीतिरिति भाटा वेदान्तिनश्चेत्यर्थः ॥ सम्भवैतिधरूपे अपीति ॥ शतमस्तीति ज्ञानानन्तरं शतं पञ्चाशद्धटितमिति ज्ञानात्पञ्चाशदस्तीति स- म्भवानुभव: इह वटे यक्षस्तिष्टतीत्यज्ञातमूलवक्नुकवाक्याज्जायमानोऽनुभव ऐतिह्यम् । नचायं शाब्दानुभवः भासोक्तत्वेन निश्चितशब्दस्यैव तत्करणत्वेन तदभावादिति भावः । नन्वनुभूतिश्चतुर्विधति बाङ्मात्रेण कथं न्यूनाषिकसङ्ग्यानिरास इत्याशय स्वयं युक्तिमाह ॥ अनुमिनामीत्यादि । अभाव एवान्तर्भाव