पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२० कारिकावली पाडिधं प्रत्यक्षम् । नचेश्वरप्रत्यक्षस्याविभजनान्न्यूनत्वं जन्यप्रत्यक्षस्यैव निरूपणीयत्वादुक्त- सूखानुसारात् ।। ५२॥ घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः । तथा रसो रसज्ञायास्तथा शब्दोऽपि च श्रुतेः ॥ ५३ ।। गोचर इति ॥ ग्राह्य इत्यर्थः । गन्धत्वादिरित्यादिपदात्सुरभित्वादिपरिग्रहः । गन्धस्य प्रत्य- क्षत्वात् तद्वृत्तिजातिरपि प्रत्यक्षा गन्धाश्रयग्रहणे तु प्राणस्यासामर्थ्यमिति बोध्यम् ॥ तथा रस इति ॥ रसत्वादिसहित इत्यर्थः । तथा शब्दोऽपि शब्दत्वादिसहितः। गन्धो रसवोद्भूतो बोधः॥ ५३॥ प्रभा. त्॥निरूपणीयन्वादिति ॥ विभाज्यत्वेनाभिप्रेतवादित्यर्थः । तथात्वे प्रमाणमाह । उक्त सूत्रेति ॥ इन्द्रिया- थसन्निकोत्पन्नमित्याग्रुपदर्शितसूत्रानुमारादित्यर्थः । तथाच सूत्रप्रतिपाद्योत्पन्नवघटितप्राथमिकप्रत्यक्षप्रमा- लक्षणस्येश्वर प्रत्यक्ष अव्याप्तियारणाय सूत्रस्थप्रत्यक्षपदस्य जन्य प्रत्यक्षपरत्वावश्यकतया तस्यैवोक्तलक्षणलक्ष्य- स्खलाभेन तस्यैव पोढा विभजनान्न न्यूनता । एवंच प्रत्यक्षं द्विविधं नित्यमनित्यं चेति नित्यमेकमेवानित्यं षडिध. मित्यभिप्रायेण मूले प्राणजादिप्रभेदेनेत्युक्तमिति भावः । इदमुपलक्षणं सूत्रप्रतिपाद्यज्ञानाकरणकत्वघटितद्विती. यलक्षणस्येश्वरप्रत्यक्षे अव्याप्त्यभावेन प्रत्यक्षसामान्यस्यैव लक्ष्यत्वलाभात् तस्याविभजने न्यूनतापत्या तत्पक्षे नित्यघ्राणजादिभेदेन सप्तविध प्रत्यक्षमित्यपि बोध्यम् ॥ ५१॥ ५२ ।। इदानी व्यग्रहणासमर्थन्द्रिय ग्राह्याण्यादावाह ॥ मूले प्राणस्य गोचरो गन्ध इति ॥ ननु मूल- स्थमाचरपदस्य विषयत्वशक्तत्वात् घ्रामविषयत्वाप्रसिद्धिरतो गोचरपदलक्ष्याथमाह ॥ ग्राह्य इत्यर्थ इति ।। दिनकरीयम्. क्तिमादाय तद्वयक्तिवृत्तिप्रत्यक्षासमवेतजातिमत्त्वं निर्वाच्यमित्यर्थः । शब्दभेदनानुमित्यादीनां लक्षणकथन- मनुभवत्वज्ञात्यङ्गीकारेण तदनीकारे तद्यक्तिसमवेतस्मरणासमवेतधर्मसमवायित्वरूपस्य लक्षणचतुष्टयस्यैकश- ब्देन वक्तुं शक्यत्वादिति ध्येयम् ॥ उक्त सूत्रेति ॥ इन्द्रियार्थसन्निकर्पोत्पन्न मित्यायुपदर्शितसूत्रानु- सारादित्यर्थः ॥५१॥ ५२ ॥ घ्राणस्य निर्विषयकरवादाह ॥ ग्राह्य इति ॥ सुरभिवादात्यादिनाऽसुरभित्वपरिग्रहः ॥ सद तीति ॥ गन्धवृत्तीत्यर्थः ।। ५३ ॥ रामरुद्रीयम्. पदग्राह्यमुपमितित्वं शाब्दत्वं च निवति ॥ यत्किञ्चिदिति ॥ शब्दभेदेनति ॥ प्रत्यक्षलक्षणे अनुमित्या समवेतति तदितरलक्षणे प्रत्यक्षासमवेतेति शब्दविशेषणेत्यर्थः 1 प्रथमतो मूले अनुमितिलक्षणस्यैव जातिघटितस्योक्तत्वात्प्रत्यक्षादानामित्युपेक्ष्य अनुमित्यादीनामित्युक्त अनुभवत्वजात्य. गीकारणति ॥ विशेषणज्ञानादिजन्यतावच्छेदककोटौ स्मृत्यन्यत्वनिवेशे गौरवापत्या तज्जन्यतावच्छेदका कोटिप्रविष्टतयेवानुभवत्वजातिसिद्धेरिति भावः । एवं न सर्वलक्षणेषु मृत्यसमवेतेत्युक्तो अनुभवत्वमादा- व अनुमित्यादातिव्याप्त्यापत्त्या एकत्रानुमित्यसमवतत्वस्यान्यत्र प्रत्यक्षासमवे तत्वस्यैव निवेशनीयतया श. ब्दभेदन लक्षणाभिधानमावश्यकमेवेति बोध्यम् ॥ तद्वयक्तिसमवेतेति ॥ एकशेषेण प्रत्यक्षादिध्यक्ति- समवेतेत्यर्थः । ज्ञानत्वादिकमादाय अन्यत्रातिव्याप्तिवारणायान स्मरमासमवेतत्युक्तम् ॥ सूत्रानुसारादि- ति ॥ सूत्राननुसारेण प्रत्यक्षसामान्यस्य लक्षणप्रदर्शनपक्षे तु नित्यग्रत्यक्षत्यैकत्वेन तद्विभागासम्भवाज्जन्य- प्रत्यक्षस्यैव विभाग इति भावः ॥ ५१ ॥ ५२ ॥ ननु गोचरपदस्य विषयार्थकत्तया प्राणस्य गोचरो गन्ध इत्यसङ्ग तमित्याशङ्का निराकरोति ॥ प्राणस्येति ।

  1. 2