पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रमा-दिनकरीय-रामरुद्रीयसमन्विता । महत्त्वं पड्दिधे हेतुः इन्द्रियं करणं मतम् ॥ ५८ ॥ महत्त्वमिति ।। द्रव्यप्रत्यक्षे महत्त्वं समवायसम्बन्धेन कारणम् । द्रव्यसमवेतानां गुणकर्म- सामान्यानां प्रत्यक्षे स्वाश्रयसमवायसम्बन्धेन द्रव्यसमवेतसमवेतानां गुणत्वकर्मत्वादीनां प्रत्यक्षे स्वाश्रयसमवेतसमवायसम्बन्धेन कारणमिति ।। इन्द्रियमिति ॥ अवापि पड़िध इत्यनुष- प्रभा. विकल्पकत्वापत्तेः घटवद्भूतलमित्यादिप्रतीतेरपि स्वरूपतो घटप्रकारकत्वसंभवेन तस्या विशिष्टवैशिष्ट्यावमाहि- स्वानुपपत्तेश्च । नचेष्टापत्तिः अनुभवविरोधापत्तेः सिद्धान्तविरोधापत्तश्चेति दिक् । प्राञ्चस्तु किंचिन्निष्ठप्रकारताशा- लिप्रत्यक्षसामान्य एव विशेषणज्ञानस्य विशिष्टवैशिष्टयावाप्रित्यक्षसामान्य एव विशेषणतावच्छेदकप्रका- रकनिर्णयस्य हेतुत्वं लाघवात् कार्यतावच्छेदके ज्ञानाद्यतिरिक्तनिवेशे गौरवात् । नचैवं घटादिप्रकार कज्ञानो- त्तर धर्ट जानामीत्याकारकं ज्ञानप्रकारकं घटादिविशिष्टज्ञानवैशिष्ट्यावगाहि च प्रत्यक्षं न स्यात् ज्ञा. नरूपविशेषणस्य ज्ञानाभावात् घटादिप्रकारकज्ञानविशेष्य कनिर्णयरूपकारणाभावाचेति वाच्यं । वट इति ज्ञानोत्तरं प्रथमतो ज्ञानस्वादिनिर्विकल्पकं तदुत्तर घटज्ञानमित्याकारकघटविषयकज्ञानत्वप्रकारकज्ञानविशेष्यक- निर्णयः तदुत्तरमेव घटादिविशिष्टज्ञानवैशिष्ट्यावगाह्यनुव्यवसायस्वीकारात क्षणविळम्बस्य शपथनिर्णेयत्वात् । न चैवं निर्विकल्पके घटत्वाप्रकारकत्ववत् घटाप्रकारकत्वस्याप्यावश्यकत्वेन मुक्तावळ्यां तेन घटादि- विशिष्टवैशिष्टयभानमात्मनि न संभवतीति अनुक्तु। तेन घटत्वादिविशिष्टवैशिष्टयभानं ज्ञाने न संभवतीत्युक्तों बीजाभाव इति वाच्यम् । घटविशिष्टवैशिष्टचावगाहित्वस्य घटत्वविशिष्टवैशिष्टयावगाहित्वव्याप्यतया नि- विकल्पकस्य घटत्वप्रकारकनिर्णयानात्मकतया कारणाभावेन घटत्वविशिष्टचैशिष्टयावगाहित्वरूपव्यापकध- विच्छिन्नानुत्पत्ती व्यापकधर्मावच्छिन्नाभावे सुतरां व्याप्यधर्मावच्छिन्नाभाव इति न्यायेन घटविशिष्ट- ज्ञानवैशिष्ट्यावगाहित्वावच्छिन्नाभावस्यापि सुवचत्वादित्याशयेन घटविशिष्टवैशिष्ट्यावगाहित्वमात्मनि न संभवतीत्यनुक्ता घटत्वविशिष्टवैशिष्टयावगाहित्वं ज्ञाने न संभवतीत्युक्तम् । अत एव घटत्वाद्यप्रका- रकं चेत्यादिना उक्तव्याप्यव्यापकभावासंभवमाशय जात्यतिरिकपदार्थज्ञानस्येत्त्युत्तरग्रन्थेन तत्समर्थन च सङ्गच्छते इत्याहुः ॥ मूले महत्त्वं पड्डिधे हेतुरिति ॥ लौकिकविषयतासंबन्धेन जन्या. त्यक्षसामान्य प्रति महत्त्वं नियतपूर्ववृत्तीत्यर्थः । न त्वनन्यथासिद्धत्वघटितकारणताश्रयं श्रावणादो तस्य कारणत्वे मानाभावात् किंतु श्रावणत्वमानसत्वान्य प्रत्यक्षमितिविभाजकोपाधिभेदेन कार्यकारणभावच-- तुष्टय बोध्यम् । ननु चाक्षुषत्वाद्यवच्छिन्नं प्रत्यपि महत्त्वस्य न समवायादिसंबन्धेन हेतुत्वं रूपादौ चाक्षुषात्पत्त्या तत्र समवायेन महत्त्वाभावादित्याशका विशिष्य कार्यकारणभावं प्रदर्श्य परिहरति । द्रव्यप्रत्यक्ष इति । द्रव्यवृत्तिलौकिकविषयतासंवन्धेन चाक्षुषं प्रति स्पार्शनं प्रति चेत्यर्थः ॥ समवायेति ॥ समवायसंवन्धावच्छिन्नकारणताश्रयमित्यर्थः ॥ गुणकर्मसामान्यानामिति ॥ इदं च स्वरूपकीर्तनं नतु कार्यतावच्छेदकप्रविष्ट गौरवात् प्रयोजनाभावाच । एवंच द्रज्यसभवेतवृ. त्तिलौकिकविषयतासंबन्धेन श्रावणत्वमानसत्वान्यचाक्षुषत्वादिप्रत्येकधर्मावच्छिन्नं प्रतीत्यर्थः ॥ स्वा- अयसमवायेति ॥ समवायघटितसामानाधिकरण्यसंवन्धावच्छिन्न कारंणताश्रयमित्यर्थः ॥ द्रव्यस- मवेतसमवेतेति ॥ द्रव्यसमवेतसमवेत तिलौतिकविषयतासंबन्धेन निक्कचाक्षुषत्वादिप्रत्येकवर्भाव- च्छिन्नं प्रतीत्यर्थः । स्वाश्रयेति ॥ स्वसमवायिघटितसामानाधिकरण्यसंबन्धावच्छिन्न कारणताश्रय- मित्यर्थः ॥ मूले इन्द्रियमिति ॥ इन्द्रियविभाजकचक्षुस्त्वाचवच्छिन्नमित्यर्थः । कार्याप्रदर्शनप्रयुक्तन्यूनता प. रिहरति ॥ मुक्कावळ्यामनापीति ॥ अनुषज्यत इति ॥ महत्त्वं पडिधे हेतुरिति कारि. दिनकरीयम्. महत्त्वं षधि इति ॥ यद्यपि श्रावणादौ महत्त्वस्य हेतुत्वे प्रयोजनाभावः तथापि द्रव्यसम- बेतप्रत्यक्षवादेतजन्यतावच्छेदकस्य श्रावणादिसाधारण्यात् श्रावणाचन्यत्वनिवेशे गौरवात् प्रयोजनाभावाच