पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावला अत्राभावप्रत्यक्षे योग्यानुपलब्धेः कारणत्वं तथाहि भूतलादी घटादिज्ञाने जाते घटाभावादि- प्रभा. मेव हेतुरिति नियमः स्वीकार्य इति वैलिपिकनथ्योभयात्मकनवीनाभिप्रायः । प्राचस्तु संबन्धप्रत्यक्ष इत्यादि. नियमे मानाभावः यावदानय प्रत्यक्षं विनापि प्रमेयत्वादिना संबन्धप्रत्यक्षजननात नच संबन्धवेन प्रत्यक्ष तहेतुरिति वाच्यं सर्वसंबन्धसाधारणसंबन्धत्वस्थाभावात् संयोगसमवायाद्यन्यत्तमत्वरूप संबन्धत्वस्यानुगत. त्वेऽपि तेन रूपेण संयोगादिप्रत्यक्षे यावदाश्रय प्रत्यक्षस्य हेतुत्वे मानाभावात संयोगत्वेन संयोगप्रत्यक्षस्य कार्यतावच्छेद काक्रान्ततया यावदायप्रत्यक्षं विना तदापत्तेर्दुवारवाच । नच संसर्गतावच्छेदकरूपेण संस- प्रत्यक्षे तद्धेतुरिति वाच्यं संसर्गतावच्छेदकानां संयोगत्वसमवायत्वादीनां भिन्नतया तनिष्ठावच्छेदकताना-- मपि समवायस्वरूपादिरूपनानासंवन्धावच्छिन्नत्वेन भिन्नतया संसर्गतावच्छेदकधर्मावच्छिन्नविषयताशालि- प्रत्यक्षत्वस्याप्यननुगतत्वात् किन्नु संसतिावच्छेदकसयोगत्वादिकं विशिष्योपादाय तत्तद्धर्मावच्छिन्नलौकिक विषय ताशालिप्रत्यक्षावमनुगतं कार्यतावच्छेदकं वाच्यं तत्रापि संयोगवावच्छिन्नलौकिकविषयताशालिप्रत्य- क्ष प्रति तद्वविच्छिन्नाश्रययावत्प्रत्यक्षस्य हेतुत्वं न संभवति संयोगत्वावच्छिन्नाश्रययावद्दव्याणां प्रत्यक्षान- सिद्धमा कस्यापि संयोगस्य लौकिकप्रत्यक्षानुपपत्तेः । परन्तु संयोगत्वावच्छिन्नतत्तत्संयोगनिछलौकिकविषय. ताशालिप्रत्यक्ष प्रति तदाश्रययावयक्तिप्रत्यक्षस्य हेतुत्वामति रीत्या व्यक्ति विशेषमन्तर्भाव्येव कार्यकारणभा- वो वाच्यः । एवंच समवायत्वावच्छिन्न समवायनिष्ठलौकिकावपयताशालिप्रत्यक्ष प्रति समवायाश्रययावयक्ति- प्रत्यक्षस्य हेतुत्वानप्रकारेऽपि वाधकाभावात् तादृश कार्यकारणभावस्याप्रामाणिकतया समवायस्य लौकिक प्रत्यक्षस्वीकारे न किमपि वाधकमिति वदन्ति । मामांसकाम्नु अभावप्रत्यक्ष याद प्रमाणं स्यात् तदनुरोधेन विशेषणतापि सन्निकर्षस्यात् तस्यैवासिद्धत्वात् किन्तु अभावस्यानुपलब्धि प्रमाणजन्यानुपलम्भात्मकप्रमिति- विषयत्वमेव तैस्सम वायानङ्गीकारेणैव तत्प्रत्यक्षानुराधेनापि विशेषणता न स्वीकार्येति वदन्ति ॥ तन्मतं दूपयति ॥ मूले यदि स्यादिति ॥ तथाचानुपलब्धिसहकृतेनेन्द्रिोणवाभावप्रत्यक्षसंभवे अनुपलम्भन- मित्यन्तरं तत्करणत्वेनानुपलब्धिरूपनगाणं च न स्वीकार्य गौरवादिति भावः उक्तार्थमेव प्रकाशयति ॥ मुक्तावल्यां अमाघप्रत्यय इति || कारणत्वमिति ॥ कारणत्वमेवेत्यर्थः । न करणत्वमिति भावः ए-- तदेवोपपादयति । तथाहीत्यादिना ॥ घटादिज्ञान इति ॥ तदिन्द्रियजन्यसंयोगादिसंबन्धावच्छि- दिनकरीयम् . नामाक्षेपं दूपयितुं मूले यदि स्यादिति । तथा चेन्द्रियाणामभावप्रत्यक्षे जननी ये योग्यानुपलब्धेः सहकारिता. मानण निर्वाहेऽतिरिक्तप्रमाण कल्पनमनुचितमिति भावः । तत्र योग्यानुपलब्धेरभावप्रत्यक्षे हेतुत्वे युक्ति- माह ॥ तथा हीति ।। घटादिज्ञाने घटादिभ्रमे । न च घटादिन्नमहेतुदोष एव तत्प्रतिबन्धका अ- रामरुद्रीयम्. ते विशेषणतया तद्वदभावानां ग्रहो भवेदित्यनेन मूलेन लोक्तभमतनिराकरणं सम्भवति तत्र तादृशमतनिरासकयुक्तरस्फुरणादतस्तद्भावमाह ॥ तथाचेति ॥ निर्वाह इति ॥ विशेषणतासन्नि. कर्षेणाभावप्रत्यक्षोपगमे तया पिशाचादीनामप्यमांवप्रत्यक्षापत्तिरित्यनिर्वाहः योग्यानुपलब्धेरभावग्राह- करवे तु पिशाचस्यायोग्यतया योग्य प्रतियोग्युपलम्भाभावरूपकारणाभावेन न तत्प्रत्यक्षापत्तिरिति भा-- वः । इदानी तु अभावग्राहकसन्निकर्षसत्त्वेऽपि सहकारिणी योग्यानुपलम्भस्याभावादेव न पिशाचा- भावादिप्रत्यक्षापत्तिरिति भावः ॥ अनुचितमिति ॥ यद्यप्यनुपलब्धेः कारणत्वकल्पनं विशेषण- तासन्निकर्षकल्पनं चापेक्ष्य अनुपलब्धौ प्रमाणत्वकल्पनमेवोचितं सथापि अनुपलब्धव्यापाराभाचेन व्या- पारवत्कारणत्वघटितप्रमाणत्वासम्भवात् अभावज्ञानस्य अधिकरणाविषयकस्य अननुभवेन अनुपलब्धि अन्याभावज्ञाने अधिकरणभानानुपपत्तेचाभावज्ञानस्य प्रत्यक्षरूपताया एव स्वीकरणीयत्वात्तथासति या- भावाय विशेषणतयाधिकरणस्य च संयोगादिना एकस्मिन्नेव ज्ञाने भानसम्भवान्नानुपपत्तिरिति भा.. व: । ननु घटस्य प्रमारूपज्ञानदशायामभाव प्रत्यक्षमेव न सम्भवति परसत्व एव तत्प्रमासम्भ-