पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली नुष्णत्वाभावः श्रोचे शब्दाभावः आत्मनि सुखाद्यभावः एवमादयस्तत्तदिन्द्रियैर्गृह्यन्ते त- त्तत्प्रत्यक्षस्यापादयितुं शक्यत्वात् संसाभावप्रत्यक्षे प्रतियोगिनो योग्यता तन्त्रं अन्योन्याभाव- प्रभा. तत्कारणत्वावश्यकत्वात वायाबुद्धृतरूपाभावचाक्षुषं भवतीति भावः ॥ सौरभाभाव इति ॥ उद्भूतसौ- भाभाव इत्यर्थः ॥ तिक्ताभाव इति ॥ उद्भूततिक्ताभाव इत्यर्थः । आदिपदात्प्रभादावुद्भूतस्पर्शा- भावपरिप्रदः । ननु पिशाचत्वप्रकारतानिरूपितलौकिक प्रत्यक्षाप्रसिद्धथा तदभावरूपयोग्यानुपलम्भविरहात् स्तम्भादौ पिशाचत्वाभाव प्रत्यक्षानुपपत्तिरत आह् ॥ संसर्गाभावेति ॥ प्रतियोगियोग्यत्वमिति ॥ योग्यमात्रप्रतियोगिकत्वमित्यर्थः । अयोग्याप्रतियोगिकत्वे सति योग्यधर्मावच्छिन्न प्रतियोगिताकत्वामिति फलितोऽर्थः । अत्र पृथिवीत्वसामान्याभावप्रत्यक्षवारणाय सत्यन्तं घटादिनिष्टगुरुत्वव्यक्तिनिष्टतध्यक्तित्वावर च्छिन्नादच्छेदकताकप्रतियोगिताकाभावात्मकतद्वयक्तिमदत्यन्ताभाव प्रत्यक्षवारणाय विशेष्यदळम् ॥ तन्त्र- मिति ॥ निरुक्तानुपलब्धिकार्यतावच्छेदककोटिप्रविष्टाभावांशे उपलक्षणमित्यर्थः । तथाच पिशाच- स्वायभावस्य तदुपलक्षितत्वाभावात्तादृशाभाव प्रत्यक्षस्व तदुप लक्षितत्वाभावनिप्ठलौकिकविषयताशालिवा. शुषत्वादिरूपकार्यतावच्छेदकानाक्रान्ततया तत्र निरुक्तयोग्यानुपलम्भविग्हेऽपि न क्षतिः तत्र पिशाचत्वा- दिरूपायोग्य जातिप्रतियोगिकत्वोपलक्षिताभावनिष्टलौकिकविषय ताशालिचाशुपं प्रत्येव केवलप्रतियोग्यनु- पलम्भसहितमहत्त्वाचवच्छिन्नचक्षुसंयुक्तावशेषणताया हेतुतया गुरुत्वाद्यभावानां तादृशजातिप्रतियो- गिकत्वाभावेन तत्प्रत्यक्षस्य तदुपलक्षिताभावनिटलौकिकविषयताशालिचाक्षुषत्वरूपकार्यतावच्छेद - कानाकान्ततथा केवलनतियोग्य नुपलम्भसहितनिरुक्तविशेषणतासन्निकर्षवलान्न गुरुत्वाभावचाक्षुषापत्तिरिति बोध्यम् । अन्येतु अतीन्द्रिय प्रतियोगिकाभावनिष्ठलौकिकविपयताशालि प्रत्यक्षे केवलप्रतियोग्य नुपलम्भसहित- निरुक्तविशेषणतासन्निकर्षों हेतु: लौकिकविषयतासंबन्धेन प्रत्यक्ष जातिभिन्नातीन्द्रिय प्रतियोगिकात्यन्ताभावस्य तादात्म्यसंबन्धेन प्रतिवन्धकत्वमिति प्रतिबन्धकसत्वान गुरु वाद्यभावप्रत्यक्षापात्तरित्याहुः । ननु अन्यो- न्याभाव प्रत्यक्षेऽपि निरुक्तयोफ्यानुपलब्धेहेतुत्वे स्तम्भे पिशाचान्योन्याभावप्रत्यक्षानुपपत्तिः समवायेन पिशा- चत्वनिष्टप्रकारतानिरूपितलौकिकविशष्यताया इव तादात्म्येन पिशाचनिष्ठप्रकारतानिरूपितलौकिकविशेष्य- दिनकरीयम्. गिकत्वेन प्रत्यक्षासम्भबादुद्भूतेति । एवमादय इत्यादिना प्रभाया उद्भूतस्पर्शाभावपरिप्रहः । प्रत्यक्षे विषय. स्वेन कारणत्वस्य कलुप्तत्वातनैव गुरुत्वाद्यतीन्द्रियाभाव प्रत्यक्षवारणे तदनुरोधेन तदधिकरणीयत्वत्यादिद्विती- ययोग्यानुपलम्भस्य हेतुता न स्वीकार्यत्यभिप्रायवान, संसगीभावे योग्यत्वमाह ॥ संसर्गति प्रतियो. रामरुन्द्रीयम्. ग्यतया तद्वृत्तित्वस्योपलम्भाव्याप्यत्वादिति भावः ॥ प्रत्यक्ष इति ॥ विषयतया लौकिकप्रत्यक्षं प्रतीत्य- र्थः ॥ विषयत्वेनेति ॥ लौकिकप्रत्यक्षविषयतोपलक्षितत्वेनेत्यर्थः ॥क्लप्तत्वादिति ॥ विषयासत्त्वदशा. यां तद्विषयकलौकिक प्रत्यक्षवारणाय तत्तलौकिक प्रत्यक्षे तत्तयक्तित्वेन तादात्म्येन कारणताया आवश्यकत. या यद्विशेषयोरिति न्यायेन सामान्यतः कार्यकारणभावस्याप्यावश्यकत्वादिति भावः ।। गुरुत्वाद्यभाव. वारणेति ॥ तेषु प्रत्यक्षवारणसम्भव इत्यर्थः । तेषां लौकिकप्रत्यक्षविषयत्वोपलक्षितत्वाभावेनैव तेषु लो- किकविषयतासम्बन्धेन प्रत्यक्षापत्तेरयोगादिति भावः ॥ तदनुरोधेन ॥ तेषां प्रत्यक्षापत्तिवारणानुरोधेन । न च पिशाचत्वाभाव प्रत्यक्षार्थमेव द्वितीचयोग्यानुपलब्धिस्वीकार इति पूर्वमुक्ततया तदभावे प्रथमयोग्यानु- पलब्धेस्तत्रासम्भवात्पिशाचत्वाभावप्रत्यक्षं न स्यादिति वाच्यम् । योग्यप्रतियोगिकाभावप्रत्यक्ष एवं प्रथम- योग्यानुपलब्धिकारणतायाः पूर्वमुक्तत्वेन तदभावे पिशाचत्वाभावप्रत्यक्षे बाधकाभावात् । न चैवमयोग्यप्र- तियोगिकाभावप्रत्यक्षे योग्यानुपलब्धेरकारणत्वापत्तिरिति वाच्यं इष्टत्वात् । पूर्वमयोग्यस्याभाव प्रत्यक्षे योग्या- नुपलब्धेः कारणत्वाभावे गुरुत्वायभावस्यापि प्रत्यक्षं स्यादित्यापत्तिवारणार्थमेव अयोग्याभावप्रत्यक्षे त तुतास्वी- कारादिति भावः॥ वग्रह इत्यादि । यद्यप्येतादृशामिप्रागे संसर्गाभावे योग्यताप्रदर्शनमफल-