पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५८ कारिकावली लौकिकालौकिकभेदेन द्विविधं तत्र लौकिकप्रत्यक्षे पोढा सन्निकर्षा वर्णिताः ॥ ५९॥--|| ६२ ॥ अलौकिकस्तु व्यापारस्त्रिविधः परिकीर्तितः । सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा ॥ ६३ ।। अलौकिकसभिकर्षस्त्विदानीमुच्यते । अलौकिकस्त्विति ॥ व्यापारः सन्निकर्षः ॥ सा. प्रभा. स्थान्यतरवत्वोपलाक्षतान्यान्याभावनिष्टलौकिकावषयताशालिचाक्षुषत्वाधवांच्छन्न इत्यर्थः ॥ अधिकरण- योग्यत्वमिति ॥ तन्त्रामत्यनुपरेणान्वयः केवलप्रतियोग्यनुपलम्भसाहितालोकसंयोगावच्छिन्नचक्षुस्संयु- कावशेषणता हेतुरित्यर्थः । अधिकरणस्य योग्यत्वोत्या तन्निध्यक्षुस्संयोगस्यालोकसंयोगाद्यबाच्छन्नत्वलाभा. दिति भावः । एवंच पिशाचवदन्योन्याभावस्य निरुक्तान्यतरवत्त्वरूप योग्यताविरहेण तत्प्रत्यक्षस्य कार्यताव- छेदकानाकान्ततया न तदापत्तिरिति । पिशाचान्योन्याभावतद्धटान्योन्याभावयोस्तु तादृशान्यतरवत्त्वरूपयो- ग्यतावत्वेन निरुक्तकारणवलास्तम्भादौ पिशाचभेदतटव्यक्तिभेदयोः प्रत्यक्षसंभव इति भावः । अधान्यो। भ्याभावनिष्टलौकिकविषयत्ताशालि प्रत्यक्षे केवलप्रतियोग्यनुपलम्भसाइतनिरुकावशेषणता तुः तादृशप्रत्यक्ष प्रति निरुक्तान्यतरवत्वरूपयोग्यत्वाभावविशिष्टस्य तादात्म्य संबन्धेन प्रातवन्धकत्वं स्वाक्रियत इति प्रतिवन्धका सत्वात्स्तम्भादौ न पिशाचवदन्योन्याभावादेः प्रत्यक्षं इति काश्चत् इत्यास्तां विस्तरः ॥ ५९ ।। ६० ॥६१ ॥ ६२॥ मूले अलौकिकस्तु व्यापार इत्यादि ॥ अनावधारणार्थकतुशब्दः त्रिविध इत्युत्तरं याज्यः। केचित्तु धमत्व सामान्य लक्षणाया इन्द्रियजन्यवाभावाद्वघापारत्वमसङ्गतं अत आह व्यापारस्सन्निकर्ष इत्यवतर- णिकामाहुः तदसत् । धूमत्वादरिन्द्रियाजन्यत्ववत् इन्द्रियासम्वद्धत्वात्तत्संवन्धत्वस्यापि अनुपपत्तेः तदसं. बद्धस्य तत्संबन्धत्व प्रमाणाभावात् नच इन्द्रियसंवद्धविशेष्य कज्ञानप्रकारताविशिष्टधूमत्वादरेव प्रत्यास- तित्वस्य वक्ष्यमाणतया तटकेन्द्रियसंयोगादेस्संबन्धरवेन विशिष्टस्यापि तत्संबद्धतया विशिष्टत्यापे तत्संबन्धत्वे बाधकामाव इति वाच्यं । तथा सति इन्द्रियसंयोगस्य इन्द्रियसंवद्धविशष्यकज्ञानस्य वा दिनकरीयम्. दं चाभावप्राहकयोग्यसनिकपप्रदर्शनार्थ तेन स्तम्भ इव वायवादी न पिशाचान्योन्याभाव प्रत्यक्षा मति भा कः । अन्योन्याभावे योग्यता तु जात्यवच्छिन्न प्रतियोगिताकत्व जात्यतिरिक्तयोग्यधर्मावच्छिन्नप्रतियोगिताक - स्वान्यतरदेव तेन स्तम्भे पिशाचान्योन्याभावपिशाचवदन्योन्याभावयोः प्रत्यक्षत्वाप्रत्यक्षत्वोपपत्तिरित्यन्यत्र विस्तर ॥ ५९।।।। ६० ॥ ॥ ६॥॥६२ ॥ धूमत्वादिसामान्य लक्षणाया इन्द्रियजन्यस्वाभावात् व्यापारतकथनमसङ्गत्तमत आह ॥ व्यापारास निकर्ष इति ॥ यद्यपि धूमत्वादेरिन्द्रियप्रतियोगिकत्वाभावात् सन्निकर्षत्वमयुक्तं तथापि संयोगस्येन्द्रिय- रामरुद्रीयम्. योग्यसनिकपैति ॥ इन्द्रियसंयुक्तयोग्यविशेषणतारूपाभावग्राहकसन्निकर्षप्रदर्शनपरमेवेदं नत्वन्योन्याभा. वयोग्यताप्रदर्शनपरमिति भावः ॥ तेनेति ॥ एतादृशसन्निकर्षस्यैवाभावप्राहकत्वेनेत्यर्थः । अन्योन्याभाव- योग्यताया मूलेऽनुक्तत्वात्तामेवाह ॥ अन्योन्येति ॥ नन्वेतादृशयोग्यतायाः किमित्यन्योन्याभावप्रत्यक्षप्र. योजकता कल्पनीयेत्याशङ्कायामाह ॥ तेनेति ॥ पिशाचभेदप्रत्यक्षोपपत्तये जात्यवच्छिन्न प्रतियोगिताकत्वो- पादानं घटवदन्योन्याभावादेः प्रत्यक्षोपपत्तये जात्यतिरिकेत्यादि उपात्तमिति बोध्यम् । नन्विन्द्रियसन्निक- योग्यविशेषणता अभावग्राहकसन्निकर्ष इत्युक्तं तन्न योग्यत्वं महत्त्वोद्भूतरूपावच्छिन्नत्वमेवान्यस्य दुर्वचत्वा- तथा च परमाणौ महत्त्वाभावस्य वायायुद्भूतरूपाभावस्य च प्रत्यक्षं न स्यादित्यत आह ॥ अन्यत्र विस्तर इति ॥ अयं भावः महत्त्वाभावप्रत्यक्षे इन्द्रियसंयुक्तोद्भूतरूपवद्विशेषणता सन्निकर्भ उद्भूतरूपाभावप्रत्यक्षे चेन्द्रियसंयुक्तमहाद्विशेषणतैव सन्निकर्षः कारणमतो नानुपपत्तिरिति ॥ ५९ ॥ ६० ॥ ६॥ ६२ ॥ सन्निकर्ष इतीति ॥ ननु सन्निकर्षत्वमिन्द्रियसम्बन्धत्वमेव तदपि सामान्यस्यन्द्रियप्रतियोगिकत्वाभावेन