पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । मान्यलक्षण इति ॥ सामान्य लक्षणं यस्येत्यर्थः । तत्र लक्षणपदेन यदि स्वरूपमुच्यते तदा सामान्यस्वरूपा प्रत्यासत्तिरित्यर्थों लभ्यते तश्चेन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतं बोध्यं तथा हि यतेन्द्रियसंयुक्तो धूमादिस्तद्विशेष्यकं धूम इति ज्ञानं यव जातं तत्र ज्ञाने धूमत्वं प्रकारस्तत्र धूमत्वेन सन्निकर्षेण धूमा इत्येवरूपं सकलधूमविषयकं ज्ञानं जायते | अब यदीन्द्रियसम्बद्धमित्येवोच्यते तदा धूलीपटले धूमनमानन्तरं सकलधूमविषयकं ज्ञानं न प्रभा. इन्द्रिय जन्यत्वेनैव विशिष्टस्यैव तजन्यत्वघटितव्यापारत्वसंभवेन कारिकास्थव्यापारशब्दस्य मुख्यार्थ. परत्वे वाधकाभावात् विश्वनाथपञ्चाननस्य व्यापारशब्दस्य मुख्यार्थपरित्यागस्वीकारे उक्तबीजासंभवात् । वस्तुतस्तु स्मृतिनिर्विकल्पकसाधारणसामान्यविषयकज्ञानमात्रस्यैव नवीनमते सामान्यलक्षणापदार्थतया यन घटत्वस्मरणेन सकलघटविषयकं चाक्षुषं तत्र तादृशस्मृतेर्व्यापारत्वासंभवादित्यत आह । मुक्तावल्यां स. निकर्ष इति ॥ विषयेन्द्रियसंबन्ध इत्यर्थः । नच स्मरणस्य इन्द्रियसंबन्धत्वाभावात्कथं चक्षुरादिसंबन्ध - स्वमिति वाच्यं । तन्मते इन्द्रियजन्यबोधसामग्रीसमवहितस्यैव स्मरणस्य फलोपधायकतया स्वीयलौकिक- संबन्धघटितसामग्रीसमवधान कालीनत्वरूपचक्षुरादिसंवन्धयत्त्वेन स्मरणस्य चक्षुरादिसंबन्धत्वान पायाभोकदो- ष इति प्रतिभाति । ननु मूले सामान्यलक्षण इत्यत्र कर्मधारय समासे लक्षणशब्दस्य नित्यनपुंसकत्वेन पु- लिकत्वानुपपत्तिः नवीनमते सामान्य ज्ञानस्यैव प्रत्यासत्तित्वेन तस्य सामान्यस्वरूपत्वाभावाचेत्याशका बहुत्री- हिसमासाश्रयणेन परिहरति । सामान्यमित्यादि ॥ तत्रेति ॥ बहुव्रीहिसमास इत्यर्थः सप्तम्यर्थो धद- कत्वं तस्य लक्षणपदार्थे अन्वयः अत्र लक्षणपदस्य स्वरूपार्थकत्वपक्षे दोषस्य वक्ष्यमाणत्वात् यदि स्वरूपमि. त्युक्तं । केचितु यद्यपि धूमत्वादेरिन्द्रियप्रतियोगिकत्वाभावात्सन्निकर्षवमयुक्त तथापि संयोगत्येन्द्रिय प्रतियो. गिकत्वात्तद्धटितेन्द्रियसंयुक्तविशेष्यकज्ञानप्रकारीभूनधूमत्वादेः प्रत्यासतितानिर्वाह इत्याहुः तदसत् संयोगस्थे- न्द्रिय प्रतियोगिकत्वेन तद्भटितप्रकारताविशिष्टधूमत्वादेः प्रत्यासत्तितानिर्वाहेऽपि श्रोत्रसमवायस्य श्रोत्रप्रति- योगिकवाभावेन तद्धटितप्रकारताविशिष्टशब्दत्वादेः प्रत्यासत्तित्वासंभवात् । ननु धूमत्वरूपसामान्यलक्षणा- या: नित्यत्वेन सर्वदा विद्यमानतया सर्वदा सकलधूमविषयक प्रत्यक्षापत्तिरत आह॥ तश्चेत्यादि । तथाच केव- लसामान्यं न प्रत्यासत्तिः कित्वीदृशप्रकारताविशिष्टसामान्यमेवेति भावः । ईदृससामान्यस्य प्रत्यासत्तित्वस्वी- कारे नोक्तदोष इत्याह ॥ तथाहीति || यत्नेति ॥ यदेत्यर्थः तस्य प्रकारपदार्थेन सहान्वयः ॥ तत्र ताद- शज्ञाने निरूपितत्वं सप्तम्यर्थः तस्य प्रकारपदाथै कशदेशप्रकारत्वेऽन्वयः । तथाच धूमत्वं इन्द्रि- यसंबद्धधूमादिविशेष्यकधूमवप्रकारकज्ञाननिरूपितप्रकारता विशिष्टं यदा भवतीति विशिष्टवाक्यार्थः ॥ तत्रे- ति ॥ तदैवेत्यर्थः । तस्य जायत इति परेणान्वयः ॥ धूमत्वेनेति ॥निरुतप्रकारताविशिधूमत्वेनेत्यर्थः। त. थाच न सर्वदा सकलधूमविषयकप्रत्यक्षापत्तिरिति भावः ॥ अत्रेति ॥ लाघवादित्यादिः निरुक्तप्रत्यासत्तावि. त्यर्थः घटकरवं सप्तम्यर्थः तस्येन्द्रियसंषद्धमित्यनेनान्वयः तथाच निरुक्तप्रत्यासत्तिघटकेन्द्रिय संबद्ध सा- मान्यस्य प्रत्यासत्तित्वस्वीकारेणैव सर्वदा सकलधूमविषयकप्रत्यक्षापत्तेवारणे ताडशप्रकारताविशिष्टसा- दिनकरीयम् . प्रतियोगिकरवात तद्वस्तिस्येन्द्रियसंयुक्तविशेष्यकज्ञानप्रकारीभूतधूमत्वादेः प्रत्यासत्तितानिर्वाहः ॥ तच सा- मान्यस्वरूपं च ॥ अत्र यदीति ॥ इन्द्रियसम्बद्धसामान्यं प्रत्यासत्तिरित्युच्यते तदेत्यर्थः । ननु यन्त्र चक्षु:- रामरुद्रीयम्. दुरुपपादमवेत्याशङ्कय समाधत्ते ॥ यद्यपीति ॥ प्रत्यासत्तितानिर्वाह इति ॥ यद्यप्येवमपि ज्ञानलक्ष- णयोगजधर्मयोरिन्द्रिय प्रतियोगिकत्वानुपपत्तिस्तवस्थैव तथापि कालिकेन स्वाश्मयत्वविशिष्टयोस्तयोः सन्नि- कर्षत्वाभ्युपगमादानयत्वस्य स्वप्रतियोगिकरवादेनेनियप्रतियोगिकत्वस्य ज्ञानस्य विषयतया विषयवृत्तितया धर्मस्य स्वजन्यज्ञानविषयतावच्छेदकत्वोपलक्षितधर्मसम्बन्धेन विषयवृत्तितया च तदनुयोगिकत्वस्थाप्युपप-