पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावळी स्यात् तत्र धूमत्वेन सह इन्द्रियसम्बन्धाभावात् । मन्मते त्विन्द्रियसम्बद्धं धूलीपटलं तद्विशेष्यक धूम इति ज्ञानं तत्र प्रकारीभूतं धूमत्वं प्रत्यासत्तिः । इन्द्रियसम्बन्धश्च लौकिको ग्राह्यः । इदं मान्यस्य न प्रयासक्तित्वं गौरवादिति भावः ॥ यत्रेति ॥ यदेत्यर्थः । तत्रेति ॥ तदेत्यर्थः । तदुपपादयति ॥ तत्रेति ॥ तदेत्यर्थः ॥ इन्द्रियसंवन्धाभावादिति ॥ धूलीपटलस्यै- व इन्द्रियसंयुकत्वादिति भावः । तादृशप्रकारताविशिष्ट सामान्यस्य प्रत्यासत्तित्वे नोक्तदोष इत्याह ॥ मन्मते वित्यादि ॥ ननु सुरभि चन्दनमिति चन्दनांशे लौकिक सौरभांशेऽलौकिक चाक्षुषं यत्र जातं तन्त्र ज्ञानलक्षणात्मकचक्षुस्संबन्धविशिष्टसौरभाविशेष्यकतादृशज्ञानप्रकार[भूतसौरभत्वप्रत्यासत्या सकलसौर- भविशेष्यकचाक्षुषापत्तिः नचेष्टापत्तिः सामान्यप्रत्यासत्या बहिरिन्द्रियेण सर्वांशेऽलौकिकभानस्यानुभवविरुद्ध- स्यात् । नच इन्द्रियसंबद्धमुख्यविशेष्यकज्ञानप्रकारीभून सामान्यस्यैव प्रत्यासतित्वोपगमानोक्कापत्तिरिति वाच्यं । मुख्यविशेष्यतावटि (रूपेण प्रत्यासत्तित्वे प्रमाणामावादत एव घटचक्षुस्संयोगेनायं घट इति ज्ञानानन्तरं भूत- लभासकसामग्रीसत्त्वे घटवद्धृतलमिति ज्ञानं असत्त्वे पुनरयं घट इति ज्ञानमेव जायत इति । एवं विनश्यद. वस्थापन्नभूतलचक्षुस्संयोगाद्यन्न घटवद्भूतलमिति ज्ञानं जातं तदुत्तरक्षणे भूतलभासकसामन्यभावेन घटचक्षु- संयोगमात्रेणार्य घट इति ज्ञानमेव जायत इति च तत्र तत्रोतं सङ्गच्छत्ते । एवंच विनश्यदयस्थचक्षु. संयोगात्सुरभि चन्दनमिति चन्दनांश लौकिकचाक्षुषोत्तरं चन्दनांशे लौकिक्रप्रत्यक्षजनक सामन्यभावेन तादृश - सौरगत्वसामान्य प्रत्यासत्त्या सकलसौरभचाक्षुषःपत्तिारा । यदिच इन्द्रियसंवद्ध विशेष्यकेत्यत्र इन्द्रियसं. बद्धनिष्ठलौकिकविशेष्य तकित्यर्थकतया उक्तसौरभचाक्षुषस्य तादृशत्वाभावेन सकल सौरभविशेष्यकचाक्षुषत्वाप- त्तिनति विभाव्यते तदा विनश्यदवस्थचक्षुस्संयोगात् घटचाक्षुषोत्तर तादृशज्ञानरूपेन्द्रियसंबन्धविशिष्टलौकि- कविशेष्यताशालितादृशचाक्षुषज्ञानप्रकारीभूतघटत्वप्रत्यासत्या सकलघटविषयकचाक्षुत्रापत्तिदुचारवेत्यत आह ।। इन्द्रियसंबन्धश्चति । अल इन्द्रियसंवन्धत्व नेन्द्रियप्रतियोगिकलौकिकसंवन्धत्वं शब्दनिष्ठाकाशरूपी- समवायस्याकाशप्रतियोमिकत्वाभावात् किन्तु प्रतियोगिताकत्वानुयोगिकत्वान्यतरसंबन्धेन इन्द्रियसंबन्ध एवेन्द्रिय संवन्धत्वं इन्द्रिय प्रतियोगिकत्वेन्द्रियानुयोगिकत्वान्यतरविशिष्टो यः लौकिकसंबन्धः तद्वत्त्वं । एवंच दिनकरीयम् . सन्निकर्षण धूम इति ज्ञान जभितं तत्र चक्षुःसंयोग विनापि तादृशज्ञानमादायेन्द्रियसम्बद्धविशेष्यकज्ञानप्रका- रस्य धूमत्वादधूमान्तरे सत्त्वाद्धमान्तराणां सामान्यलक्षणया ज्ञानापत्तिः । न च तदा धूगो नेन्द्रियसम्बद्ध ज्ञानलक्षणात्मकसन्निकर्पस्य धूमे सत्त्वात् । न च तत्रैकक्षणे सामान्यलक्षणाजन्य ज्ञानस्वीकारे क्षतिविरह इति रामरुद्रीयम् । स्या नानुपपत्तिः । नन्ववं व्यापारविरहेणालौकिक प्रत्यक्षे इन्द्रियस्य करणत्वं कथमुपपादनीयमिति चेत् सं- योगस्यैव व्यापारत्योपगमेनति गृहाण । कथमन्यथा स्मरणाद्यात्मकज्ञानलक्षणप्रत्यारात्तेः करणीभूतेन्द्रियाज. न्यत्वात्तस्या व्यापारत्वासम्भवेन इन्द्रियस्य करणत्वमिति भावः । चक्षुःसन्निकर्षणेत्यस्य विनश्यदयस्थापन्ने- त्यादिः । तेन चक्षुःसंयोग विनापीत्यस्य नासङ्गतिः ॥ धूमान्तर इति ॥ प्रत्यक्षभूतधूमभिनधूम इत्यर्थः । प्रत्यक्षघूमव्यक्तद्धितीयक्षणे तज्ज्ञानरूपज्ञानलक्षणप्रत्यासत्त्या अलौकिकप्रत्यक्षं इष्टमेवेत्यत अन्तरपदम् ॥ शा. नापत्तिरिति ॥ पूर्व धूमान्तर एवं सन्निकर्षस्योपपादिततया तस्यैव ज्ञानापादनं लभ्यत इति नेष्टापत्तिसम्भ. वः ॥ सम्बद्ध इति ॥ इन्द्रियसम्बन्धस्य विशेषणतया सन्निकर्षघटकलोपगमान्नो कापत्तिरिति भावः ॥ए- कक्षण इति । एवरपूर्वं चक्षुःसंयोगसत्त्वेन सामान्यलक्षणया ज्ञानोत्पत्ताविष्टापत्तेः ज्ञाननाशानन्तरं च ज्ञान- प्रकारत्वविरहादेव आपत्त्यसम्भवादिति भावः । न चैवमपि ज्ञानद्वितीयतृतीयक्षणयोरापत्तिसम्भवादेकक्षण इत्यराङ्गतमिति वाच्यम् । यत्र तत्पूर्वक्षणे घटत्व प्रकारकज्ञानमासीत्तत्र जायमान ज्ञानस्यैव सामान्यलक्षणया सक- लधूमविषय कतया क्षणद्वयेऽपि तादशज्ञानस्य सर्ववादिसिद्धतया तृतीयक्षण एव तदापत्तिः कर्तव्येत्यभिप्रायेणैक- क्षणाभिधानात् ॥ क्षतिविरह इति ॥क्षणस्यातिसूक्ष्मत्वेन तत्क्षणे तादृशज्ञानानुत्पादस्य प्रमाणेन निश्चेतुमश-