पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली योगादिकं तेनान्धकारादौ चक्षुरादिना तादृशं ज्ञानं न जन्यते ॥ ६४ ॥ विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः । ननु ज्ञानलक्षणा प्रत्यासात्तयदि ज्ञानरूपा सामान्य लक्षणाऽपि ज्ञानरूपा तदा तयोर्भदो न स्यादत आह । विपयोति ।। सामान्यरूपा प्रत्यासत्तिर्हि तदाश्रयस्य ज्ञानं जनयति । प्रभा. सत्यवाप्रसिदत्वादतः व्यापकधर्मावच्छिन्नोत्पादकसामथ्या अप्रसिद्धत्वान तादृशमानसे सामन्यन्तरापेक्षेत्यर्थ हदि निधाय चाक्षुपादाचेव तादृशसामध्या नियमेन सत्त्वमाविष्कृतं । नतु सामान्य लक्षणजन्यज्ञाने उक्तसामन्या अपि कारण त्वमभिप्रेतं अन्यथासिद्धत्वात् । अतः सामान्य लक्षणाया नेन्द्रियभेदेन कार्यकारणभावप्रसाक्ति रिति भावः ॥ ६४॥ भेदो न स्यादिति ।। सामान्यज्ञानत्वरूपप्रत्यासात्तितापच्छेदकस्य एकत्वादिति भावः ॥ सामान्यज्ञानरूपा प्रत्यासत्तिहीत्यादि ॥ स्वप्रकारीभूनसामान्यवत्वसंबन्धन प्रत्यक्ष प्रति स्वविषय- दिनकरीयम्. योगादिकमित्यादिना दोषाभाषपरिवहः ॥ न जन्यत इति । अयमाशयः यदा घटे चक्षुःसनिकपादिघ- टिला चाक्षुषादिसामग्री तदुत्तरक्षणे घट इति चाक्षुषं तदा सैर सामान्यलक्षणमा तदोत्तरक्षणे सकलघटविषयक ज्ञानं न जन्यत इति प्राचीनमते क्षणकावलम्बः कल्प्यते तत्र न पानामावः सदैव घट इति चाक्षुषमुत्पद्यते तदेव सनिकृष्टघटांश लौकिकमन्य घटांशेऽलौकिकमित्यभ्युपगमात्तथा च सामान्यलक्षणाजन्यघटत्वप्रकारकचा. क्षुषत्वस्य व्यापकं घटत्वप्रकारकलौकिकचाक्षुपत्वामात फलितम् । तथा च चक्षुःसन्निकर्षादिशून्यकाले व्या. पकधीवच्छिन्न जनकसारमा: सहकारिण्या विरहादेव न चाक्षुयं सामान्यलक्षणया ज्ञानमिति ॥ ६४ ॥ यदि शामरूपति ॥ अवत्यो यदिशब्दः सामान्यलक्षणाऽत्युित्तरं योज्यः। सामान्यलक्षणास्वीकारे रामरुद्रीयम्. णीभूनेति ॥ एतचापाततस्तथासति घटत्वसामान्यलक्षणादिजन्य प्रत्यक्षे निखिलघटा दिभाननियगानुप्रपत्तेः फित्वले कि कविषयलय कार्यतावच्छेदकसम्बन्धः सनिकृष्टधाशे च विषयताद्वय गुपगम्यते प्रयोजकसत्वादि. ति मन्तव्यम् । ननु सामान्यस्य प्रत्यासत्तित्वनये पूर्वोक्तरीत्या कार्यकारणभावे लायचसत्त्वेऽपि सामान्यल- क्षणप्रत्यासत्या तदिन्दियजन्यप्रत्यक्ष प्रति तदिन्द्रिय चन्यतद्धर्मप्रकारकलौकिकप्रत्यक्षस्य नानाकारणघटित. गुरुभूतसामन्याः तत्सहकारित्वं कल्पनीयमितीन्द्रियभेदेन सामान्य प्रश्यासत्तिजन्य प्रत्यक्षे गुरुतरसामग्रीकार' पाताकल्मनस्यावश्यकतया नैतन्मते लाघववार्तापि । न च प्राचीनमते पुरुषभेदेन अनन्तकार्यकारणभावः कल्पनीयः नवीनमते तदभावालाघवमिति वाच्यम् । एतन्मतेऽपि सामग्र्यातत्पुरुषीय चक्षुःसंयोगादिघटित- स्वेन लौकिकसम्बन्धन तत्पुरुषीय चाक्षुपं प्रति तेन सम्बन्धेन तत्पुरुषीय चक्षुःसंयोगाविघटितसामग्याः का- रणता कल्पनस्यावश्यकतया तादृशलाघवस्याप्यभावात् अन्यथा पुरुषान्तरीयचक्षुःसंयोगादिघटित सामग्रीतः पुरुषान्तरस्य निमीलितनयनस्यापि सामान्यज्ञानवतः सामान्य प्रत्यासत्तिजन्यचाक्षुषापत्तेरित्याशङ्कामाशयव- नग निराकरोति ॥ अयमाशय इति ॥ चानुपादिसामग्नीति ॥ विशिष्टचाक्षुषादिसामग्रीत्यर्थः । तेन निर्विकल्पकस्यापि लोपः अन्यथा तदुत्तरक्षणे घट इति विशिष्टचाक्षुषानुपपत्तेरिति ध्येयम् ॥ इत्यभ्यु- पगमादिति ॥ इदं च मानाभावे हेतुः ॥ व्यापकधर्मायच्छिन्नेति ॥ अयं भावः । व्याप्यधर्मावच्छि. नस्योत्पत्तौ व्यापकधर्मावच्छिन्नसामन्या: प्रयोजकत्वस्य क्लृप्ततया तत एव तत्पुरुषीयचक्षुः संयोगादिघ- टितसामग्रीविरहदशायां तत्पुरुपीयसामान्य प्रत्यासत्तिजन्य घटत्वादिप्रकारकचाक्षुषापादनं न सम्भवति नव्य- मते अतिरिक्तकार्यकारणभावस्य अकल्पनालाघवमक्षतमेवेति ॥ ६४ ॥ ज्ञानरूपा यदीत्यत्र यदिशब्दस्य पूर्वान्वयित्वं न सम्भवति ज्ञानलक्षणाया ज्ञानरूपतायाः सर्ववादि- सिद्धत्वादतस्तद्भमवारणायाह ॥ अत्रत्य इति ॥ वक्ष्यमाणस्य व्याख्येयग्रन्थार्थत्वाभावादाह ॥ अयम-