पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ज्ञानलक्षणाप्रत्यासत्तिस्तु यद्विपयकं ज्ञानं तस्यैव प्रत्यासत्तिः । अत्रायमर्थः । प्रत्यक्षे सन्नि- कप विना भानं न सम्भवति । तथा च सामान्यलक्षणां विना धूमत्वेन सकलधूमानां वहि- स्वेन सकलवह्नीनां च भानं कथं भवेत् तदर्थ सामान्यलक्षणा स्वीक्रियते । न च सकलक. ह्निधूमभानाभावे का क्षतिरिति वाच्यम् । प्रत्यक्षधूमे वह्निसम्बन्धस्य गृहीतत्वात् अन्यधमस्य चानुपस्थितत्वात् धूमो वह्निव्याप्यो नवेति संशयानुपपत्तेः । मन्मते तु सामान्यलक्षणया सकलधूमोपस्थितौ कालान्तरीयदेशान्तरीयधूमे वह्निव्याप्यत्वसन्देहः सम्भवति । न च सा- मान्यलक्षणास्वीकारे प्रमेयत्वेन सकेलप्रमेयज्ञाने जाते सार्वझ्यापत्तिरिति वाच्यम् । प्रमेयत्वेन सकलपमेयज्ञाने जातेऽपि विशिष्य सकलपदार्थानामज्ञातत्वेन सार्वयागावात् । एवं ज्ञानल- क्षगाया अस्वीकारे सुरभि चन्दनमिति ज्ञाने सौरभमानं कथं स्यात् । यद्यपि सामा- प्रभा. सामान्यवत्वेन सामान्यनत्यासत्तेहेतुत्वादिति भावः ।। यद्विषयकं ज्ञानमित्यादिः ॥ तथाच अलौकिक- विषयतासंबन्धेन प्रत्यक्ष प्रति विषयतासंवन्धेन ज्ञानप्रत्यासत्तेहेतुत्वादिति भावः एवंच उभयोः प्रत्यासत्योः ज्ञानस्वरूपत्वेऽपि फलवैचित्र्यात प्रत्यात्तितावच्छेदकसंवन्धभेदेन कार्यकारणभावद्वयं स्वीकार्यमिति निगूडा- भिप्रायः । अत्र एककार्यकारणभावेनापरकार्यकारणभावस्य चारितार्थ निराकर्तुमभिप्राय वर्णयति ॥ अते. ति ॥ सामान्यलक्षणाज्ञानलक्षणोभयत्वावच्छिन्न इत्यर्थः घटकत्वं सप्तम्यर्थः तस्य च सामान्य लक्षणा स्वी- क्रियत इत्यत्र सामान्य लक्षणायामन्वयः ।। अयमर्थ इति । अयं भाव इत्यर्थः ॥ प्रत्यक्षे सन्निकर्ष विनेति ॥ प्रत्यक्षनिरूपितविषयत्वं सन्निकर्ष विना स्थातुं नाहतीत्यर्थः । तथाच सनिकर्षस्य प्रत्यक्षनिरू. पितविष्यत्वव्यापकत्वेन व्यापकीभूतसन्निकर्षाभावे व्याप्यभूतविषयत्वस्यापि अभावप्रसङ्गादिति भावः । अ. श्रेष्टापति वारयितुमाह ॥ धूमन्वेनेत्यादि । अन्यथेत्यादिः ॥ अन्यथा सकलधूमवहिपु सत्रिकर्षाभावे कथं सर्वे धूमाः सर्वे वह्नय इत्याकारकसकलधूमविषयकं प्रत्यक्षं सकलधूमादिपु तद्विषयत्वं च अनुभवसिद्ध तत्कथं निर्वहतीत्यर्थः । तथाचानुभवविरोधान्नेष्टापत्तिर्वक्तुं शक्येति गावः । तादृशानुभवानीकारे दोष वक्तुं आक्षिपति । नच सकलेति ॥ प्रत्यक्षधूमे सन्निकर्षधूभे ॥ वह्निसंबन्धस्य वहिसामानाधिकरण्यस्य ।। गृहीतत्वादिति ॥ चक्षुरादिना निर्णीतत्वादित्यर्थः ॥ अन्यधूमस्थ असभिकर्षधूमस्य अवधारणार्थ क- श्वशब्दः अनुपस्थितत्वादित्युत्तर योज्यः । एतावता सामान्यलक्षणीयाः कारणत्वानीकारे दोपं प्रदय ज्ञानल क्षणाया: कारणत्वानीकारे दोपमाह ॥ एवमिति ॥ सौरमभानं कथं स्यादिति ॥ सौरभस्य चाक्षुषनिरू. दिनकरीयम्. बीजमाह ॥ अत्रेति ॥ अयमर्थः अयमभिप्रायः ॥ भानं विपयता॥न सम्भवतीति॥ प्रत्यक्षविषयता- याः सन्निकश्रियत्वव्याप्यत्वादिति भावः ॥ वहिसम्बन्धस्य गृहीतत्वादिति । तथा च प्रत्यक्षधूमे व्याप्तेनिर्णयान्न तद्विशेष्यको व्याप्यत्वसंशयः सम्भवतीति भावः ।। अनुपस्थितत्वादिति ॥ तथा च धार्मिज्ञानाभावान्न तद्विशेष्यकोऽपि व्याप्यत्वसंशयः सम्भवतीति भावः । ज्ञानलक्षणास्वीकारे बीजमाह ॥ ए. वमित्यादिना ॥ कथं स्यादिति ॥ चन्दनखण्डस्य चाक्षुषे जायमाने उपस्थितसौरभमानं न स्यात् सौ. रभांशे चक्षुःसन्निकर्षीभावादित्यर्थः । सौरभलप्रकारकलौकिकप्रत्यक्ष सामन्या: राहकारिण्या विरहेण सौरभ. रामरुद्वीयम् . भिप्राय इति ॥ सन्निकर्षाभावादिति ॥ योग्यवृत्तित्वविशिष्टसन्निकषीभावादित्यर्थः । तेन चन्दने च- क्षुःसंयोगदशायां सौरभेऽपि चक्षुस्संयुक्तसमवायस्य आवश्यकत्वेऽपि न क्षतिः । अथवा सुरामि चन्दनामिति भ्रमात्मकप्रत्यक्षाभिप्रायेण इदमुक्तमिति नासङ्गतिः । ननु सुरभि चन्दनमिति प्रत्यक्षे सौरभत्वप्रकारकज्ञान इव सामान्यलक्षणप्रत्यासत्त्यैव सौरभमानं सम्भवतीयाशङ्का निराकरोति ॥ सौरभवेति ॥ ननु मूले यद्य