पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली। मुक्तावली प्रभा दिनकरीब रामरुद्रीयसमान्यता । ॥ अनुमानखण्डम् ॥ व्यापारस्तु परामर्श करणं व्याप्तिधीर्भवेत् ॥ ६६ ।। अनुमायां ज्ञायमानं लिङ्गं तु करणं नहि ॥ अनागतादिलिङ्गेन न स्यादनुमितिस्तदा ।। ६७ ।। अथानुमिति व्युत्पादयति ।। व्यापारस्त्विति ।। अनुमितो व्याप्तिज्ञानं करणं परामों - व्यापारः । तथा हि । येन पुरुषेण महानसादौ धूमे वह्निव्याप्तिर्गृहीता पश्चात् स एव प्रभा. प्रत्यक्षनिरूपणानन्तरमनुमितिनिरूपणेऽवसरसङ्गति सूचयितुमाह ॥ अथेति ॥ प्रत्यक्षनिरूपणानन्तर- मित्यर्थः । तथाच प्रत्यक्षसध्यनुमितिरित्यादिविभागवाक्यात प्रथमतः प्रत्यक्षस्योपस्थितौ तत्वानुमितिनिरू- पणनतिवन्धिका किं प्रत्यक्षमित्याकारिका जिज्ञासा जायते अनन्तरं प्रत्यक्षनिरूपणेन तादृश जिज्ञासानिवृत्ती अनन्तरोपस्थितानुमितेरेव वक्तव्यतया अवसर सङ्कतित्वलाभादिति भावः । नच विभागवाक्ये अनुमितेरेव प्रथमनिर्देशः कुतो न कृत इति वाच्यं स्वतन्त्रेच्छेन मुनिना गौतमादिना प्रमाणविभागवाक्ये प्रथमत:प्र. त्यक्षस्यैव निर्देशात् तदनुसारेण मूलकृतापि विभाग वाक्ये प्रथमतः प्रत्यक्षनिर्देशस्य कृतत्वादिति । केचिनु उपजीव्योपजीवकभावसङ्गस्या प्रत्यक्षनिरूपणानन्तरमनुमिति गरूपणमित्याहुः तदसत अनुमितो प्रत्यक्षोपजी- चकत्यस्येव प्रत्यक्षेऽनुमित्युपजीवकत्वस्यापि सत्त्येन प्रकृते संध्यानन्तयाभिधाननियामकत्वासंभवात् । एतत्त- त्वं मधुरानाथकृतचिन्तामणिटिप्पण्यामनुसन्धेयम् । परमतनिराकरणपूर्वकस्वमतसिद्धान्तस्यैव कथक संप्रदा- यसिद्धतया नवीनमतसिद्धपरामर्शनिष्ठकरणत्वं स्वस्य नाभिमत मिति सूचयितुमादौ व्यापारमाह ॥ मूले व्यापारस्तु परामर्श इत्यादि । अत्र तुशब्दोऽवधारणार्थकः । तथाच परामर्शो व्यापार एवेत्यर्थः एवकारेण नवीनमतसिद्धपरामर्शनिष्ठकारणत्वव्यवच्छेदो लभ्यते तर्हि प्राचीनमते किं करणमित्याशङ्कायामा. ह ॥ करणं व्याप्तिधीरिति ॥ प्राचीनमतमेवोपन्यस्यति ॥ मुक्तावळ्यां व्याप्तिज्ञानं करणमि- त्यादि ॥ व्याप्तिज्ञानपरामर्शयोः करणत्वव्यापारत्वे उदाहरणद्वार। दर्शयति ॥ तथाहीत्यादिना ॥ येन पुरुषेण महानसादावित्यादि ॥ महान साद्यवच्छेदेन धूमनिष्ठवाहनिरूपिता व्याप्तिः यत्पुरुषीयवर्तमा- दिनकरीयम्. अनुमितिमिति ॥ सङ्गतिश्चात्र प्रत्यक्षेणोपजीव्योपजीवकभावो धोध्यः । करणे निर्दिष्ट एव व्या. पारे जिज्ञासोदयान्मूले पश्चानिर्दिष्टमपि करणं प्रथमं दर्शयति ॥ व्याप्तिज्ञानमिति ॥ परामर्शी व्या- पार इति ॥ ननु व्यापारत्वं तज्जन्यत्वे सति तज्जन्यजनकत्वं तच्च परामर्श नं सम्भवति वहिव्याप्यधूभवा- न् पर्वत इति परामर्श व्याप्तिज्ञानजन्यत्वस्याभावात् महानसीयवहिव्याप्तिज्ञानस्य तदानीमभावेन व्यभिचा- रामरुद्रीयम्. सङ्गतिश्चात्रेति ॥ प्रत्यक्षनिरूपणानन्तरमनुमाननिरूपणे सङ्गतिश्चेत्यर्थः । सप्तम्यर्थः प्रयोजकत्वम् । सङ्गतिपदार्थे तदन्वयो बोध्यः । अनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयस्मरणानुकूलसम्बन्धो निरू. पणीयनिष्ठा सङ्गतिः । तथाहि प्रत्यक्षनिरूपणानन्तरमनुमाननिरूपणे प्रयोजकाजज्ञासा अनुमानज्ञानं मे भवत्विं. त्याकारिका तजनकज्ञान मनुमानज्ञानं मदिष्टसाधनमित्याकारकं तद्विषयोऽनुमानं तस्मरणानुकूलसम्बन्धः अनु. -