पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [ अनुमानखण्डम् ज्ञानात् पक्षे साध्यमित्याकारिका पक्षो व्याप्यवानिति ज्ञानान् पक्षः साध्यवानित्याका- रिका । द्विविधादपि परामर्शान पक्षः साध्यवानित्यवानुमितिरित्यन्ये । ननु वह्निव्याप्यधूम- प्रमा. निति ज्ञानव्यमिति भावः । ननु निरुक्तपरामर्शत्वावच्छिन्न कारणतानिरूपितानुमितिनिष्टकार्यतावच्छे- दो पक्षमा विशेष्यकानुमिति साधारणपर्वतायुद्देश्यकानुमितित्वमेव वाच्यं एकानुमितिमात्रवृत्तिधर्म- स्य कार्यतावच्छेदकत्वे अपरानुमित्य नापतेः । एवंच वहिव्याप्यवान यामिति परामर्शकाले घटादिविषयकप्र- त्यक्ष सामग्रीसत्त्व पर्यतविशेष्य कवह्नि प्रकारकानुमित्लन्यज्ञानं जायतामितीच्छाकाले पर्वतोद्देश्यकवहिविधेयका. नुमितित्वावच्छिन्नापत्तिः पर्वतविशेष्यकतादृशानुमितो उक्तेच्छायाः अनुपयोगित्वेऽपि घटादिप्रत्यक्ष इव पर्व तरकारकवहिविशेष्य कानुमिती उकेच्छायाः अनुकूलत्वात् । नचेष्टापत्तिः पक्षविशेष्यकोक्तपरामर्शात् पक्षण- कारक साध्याविशेष्य कानुमितिस्वीकारस्व कस्याप्यननुमतत्वादित्यत आह ।। अनुमितिस्त्विति ॥ सा.. ध्यवानित्याकारिकेति ॥ अन्न पर्वताद्देश्यकवहयादिविधेयकानुमितित्वव्याप्यधौ च पर्वतादिविशेष्य- कावा यादिप्रकारकानुमितिलपर्वतादिप्रकारकवदशादिविशेष्य कानुमितित्वे तत्र पर्वतादिप्रकारकवह्यादिविशे ८यकानुमितित्वावच्छिन्नं प्रति पर्वतादिप्रकारकवा यादिव्याप्यविशेष्यकनिश्चयत्वावच्छिन्नं कारणं पर्वतादिवि- शेध्य कवड्यादिप्रकार कानुमितित्वावच्छिन्ने प्रति पर्वतादिविशेप्य कवल यादिव्याप्यप्रकारकनिश्चयत्वावच्छिन्नं कारणमिति फलितम् । एवंच पर्वतविशेष्य कवाहिकारकानुमित्यन्यज्ञानं जायतामितीच्छाविशिष्टघटा- दिप्रत्यक्षसामग्रीसमवहित वहिव्यायधूमवान् पर्वत इति परामर्शस्थले न पर्वतो वहिमानित्यनुमितिस्संभवति उसेच्छाविशिष्टघटादिप्रत्यक्षसामग्याः प्रतिवन्धिकायाः सत्वात् । पर्वते वतिरित्याकारकानुमितो तूक्तसाम- व्याः अप्रतिबन्ध कत्येऽपि तादृशानुमितिकारणस्य बहिव्याप्यधूमः पर्वते इत्याकार कपरामर्शस्याभावेन ता- देशानुमितेरप्यसंभवः । तस्मात्परामर्शविशेषाभावेन प्रतिवन्धकाभावरूपकारणविशेषाभावेन चानुमितिवि- शेषानुत्पत्ती विशेपसामग्रीसमवहितसामान्य सामग्या एवं पर्वतोद्देश्य कवहिविधेयकानुमिति सामान्योत्पादक- खेन ताशप्रत्यक्षसामग्रीसमवहिततादृश परामर्शस्थले केवलसामान्यसामग्रीबलात् पर्वतोद्देश्यकवलिविधेयका- नुमितित्वावच्छिनापत्तिर्न संभवत्तीति विश्वनाथपञ्चानन भट्टाचार्यस्याभिप्राय इति हृदयम् । अन्येतु पर्वतो व- विभानित्याकारिक वानमितिः नतु पर्वते वहिरित्याकारिका कथकसंप्रदायविरुद्धत्वात् अत एव पर्वतो व. हिमानिलाकारक एवं न्यायघटकाभूतप्रतिज्ञाप्रयोग; नतु पर्वते वहिरिल्याकारकः । तथाच पर्वतविशेष्यकर- हिप्रकारकानुमितित्यावच्छिन्नं प्रत्येव व्यायपक्षोभयवैशिष्ट्यावसाहिनिश्चयत्वावच्छिन्नं हेतुरिति फलितम् । ए. वंच उक्तंच्छाविशिष्टघटादिप्रत्यक्ष सामग्रीकालीनपक्षविशेष्य कोक्तपरामर्शस्थले उक्तेच्छाविशिष्टघटादिप्रत्यक्ष, सामन्याः प्रतिबन्धकत्वेन तदभावरूपकारणामाचात् नानुभित्यापत्तिरिति यदन्ति तन्मतमुपन्यस्यति ॥ द्वि. विधादपीति ।। अत्र पक्षप्रकारकानुमितियथा अप्रामाणिकी तथा पक्षप्रकारकपरामर्शोऽप्यप्रामाणिकः क. दिनकरीयम्. नुरिती नियतमिति नवनिमतमाह ॥ द्विविधादपीति ॥ पक्षविशेष्यकव्याप्यविशेष्य कोमयपरामर्शादपी. त्यर्थः । कारणतावच्छेदवं च परामर्शद्वयसाधारण व्याप्यपक्षोभयवैशिष्टचावगाहिनिश्चयत्वमतो न व्यभिचार रामरुद्दीयम्. तेन पृथिवी तरत्याभावव्यापकाभावप्रतियोगिगन्धवती पृथिवीति व्यतिरेकियरामादप्रसिद्धसाध्यविशेष्यका- नुमित्युपगमेऽपि न क्षतिरिति मन्तव्यम् । नन्वेवं परस्परजन्यानुमिती व्यभिचारो दुर्वार इत्याशङ्कायामाह कारणतावच्छेदकं चेति ॥ व्याप्यपक्षोभयेति ॥ यद्यपि निश्चयत्वमुभयसाधारणमेकं दुर्वचं तद- भावाप्रकारकत्वे सति तत्प्रकारकत्वरूपनिश्चयत्वस्य प्रकारीमूतव्याप्ययक्षरूपधर्मविशेषघटितत्वात् तत्प्रकार- तावच्छेदकसम्बन्धाननुगमान सांसर्गिकविषयतायाः विशिध्यानिवेशे कालिकादिना व्याप्यपरामर्शादप्यनुमि- त्यापत्तेरनुगतेकरूपेण कारणत्वं दुर्धटें तथापि हेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयत्वसंवन्धावच्छिन्नप्रतियो- गिताकपक्षतावच्छेदकावच्छिन्नाभावप्रकारवानिरूपिता या हेतुतावच्छेदकसम्बन्धान्यसम्बन्धावच्छिन्ना