पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली भनुमानखण्डम् विशिष्टज्ञानं कल्पनीयं फलमुखगौरवस्यादोपत्वान् ।। व्याप्तिः साध्यवदन्यस्मिन्नसम्बन्ध उदाहतः ॥ ६८ ।। व्याप्यो नाम व्याप्त्याश्रयः तत्र च्याप्तिः केल्यत आह ॥ व्याप्तिरिति । वद्धिमान् धू. प्रभा. क्षण एवानुमितिः स्वीक्रियते तदा तुल्ययुक्त्या अवयवसंयोगासमवाायिकारणावयवाक्रियया अवयवसंयोगोत्प. त्तिक्षण एक द्रव्योत्पत्त्यापत्तेः । नचैवं सति तादृशद्रव्यं प्रति अवयक्रियाया एव असमवायिकारणतया तन्ना- शादवयविनाशापसिरिति वाच्यं सर्वत्र द्रव्यनाशं प्रति असमायिकारणनाशस्य हेतुत्वे मानाभावात् संयोगा- दिनाशे असमवायिकारणकियानाशस्य व्यभिचारात् यथा हेतुत्वाभावः परंतु कचिद्विभागात् काचेदाभयनाशा- देव तथा द्रव्यनाशोऽपि क्वचिद्विभागात कचिदाश्रयनाशादेवेति वक्तुं शक्यत्वात् तस्मादतुभवान्यथानुपपत्त्या अवयवसंयोगोत्पत्तिक्षणे द्रव्योत्पत्तिमनजीकृत्य तद्वितीयक्षण एवं क्षणेकविलम्बेन द्रव्योत्पत्तिस्वीकारवत् ज्ञान द्वयस्थलेऽपि विशिष्टज्ञानोत्पत्तिसमये अनुमितिमनहीकृत्य तादृशानुभवान्यधानुपपन्या क्षणैकबिलम्बेन विशि. ज्ञानोत्पत्तिद्वितीयक्षण एवानुमितिः स्वीकार्येति विशिष्टज्ञानत्वेन हेतुत्वमावश्यकमित्यनुभवविरोध एव मीमां- सकमते दोप इति प्रतिभाति । इत्थं चेति ॥ लाधवादिना विशिष्टज्ञानत्वेन हेतुतासिद्धौ चेत्यर्थः ॥ फल मुखगौरवस्येति ॥ फलं गौरवज्ञानप्रतिवश्यं विशिष्टज्ञानत्वेन कारणताज्ञानं तन्मुखं तत्प्रयोज्यं गौरव गौर- वज्ञानं तस्येत्यर्थः ॥ अदोषत्वादिति ॥ प्रतिवन्धवावासम्भवादित्यर्थः । अत्र विशिष्टज्ञानत्वेन रूपेण का. रणताग्रहं प्रति विशिष्टज्ञानत्वर्मिकगौरवज्ञानं प्रतिवन्ध कामति वाच्यम् । विशिष्टज्ञानत्वनिष्ठगौरवं यत्किंचि. दनुमित्यव्यवहितपूर्वकालावच्छेदेनावश्यकल्पनीयस्वाश्रयकत्वरूपादन्यदुर्वचं तथाच विशिष्टज्ञानत्वेन कारणत्वे निर्णीते निीतकारणत्वान्यथानुपपत्त्या ज्ञानद्वयोत्तरकालीनानुमितिव्यक्तिपूर्वमपि विशिष्टज्ञानं कल्पनीयं नतु तेन रूपेण कारणत्वनिर्णयाभाव इत्यन्वयव्यतिरेकाभ्यां विशिष्टज्ञानत्वधर्मिकनिरुतगौरवज्ञानस्य विशिष्ट- ज्ञानस्वेन कारणताग्रहप्रयोज्यत्वलाभेन तेन रूपेण कारणत्वनिर्णयात् पूर्व निरुक्तगौरवज्ञानासंभवेन उत्तरका- लीनगौरवज्ञानस्य पूर्वोत्पन्न कारणत्वप्रहप्रतिबन्धकत्वासंभवादित्याशयः ॥ मूले परामर्शनिरूपणानन्तरं व्याप्तिनिरूपणे प्रकृतघट कत्वरूपोपोद्वातसञ्जतिमाह ॥ व्याप्यो नाम दिनकरीयम्. न्यायमते दूरणं भविष्यतीत्यत आह ॥ इत्थं चेति ॥ फलमुखगौरवस्यादोपत्वादिति ॥ फलं का- र्यकारणभावग्रहस्तन्मुखं तदधीनं गौरवं गौरवज्ञानमित्यर्थः । विशिष्टज्ञानत्वावच्छेदेन कारणत्वग्रहे विशिष्ट ज्ञानत्वर्मिकगौरवनिश्चयो विरोधी वाच्यः तच्च गौरवं प्रमाणान्तरासिद्धतत्तदनुमित्यव्यवहितपूर्ववर्तिस्वाश्रयक- त्वमेव तादृशगौरवनिश्चयो विशिष्ट ज्ञानत्वेन कारणत्वनिश्चयाधीनः स्वघटकीभूत तत्तदनुमित्यव्यवहितपूर्ववर्तिखा. यनिर्णय पिना न सम्भवतीति कार्यकारणभावनिर्णयात पूर्व गौरवनिर्णयाभावान्न तादशगौरवं दोष इति भावः ॥ मूले परामर्शलक्षणानन्तरं व्याप्तिनिरूपणे सातिमुपोद्घातं निरूपयन्नाह ॥ व्याप्यो नामेति । त. रामरुद्रीयम्. तानिरूपितहेतुप्रकारतेति ॥ इदं च प्रकारताविशेष्यतयोरभेदवादिमताभिप्रायेण । भट्टाचार्यमतेतु व्या- प्तिप्रकारतानिरूपित्तविशेष्यतावच्छिन्नप्रकारतानिरूपितपक्षविशेष्यताशालित्वेन वक्तव्यं एकनिष्ठप्रकारताविशेष्य तयोरबच्छेद्यावच्छेदकभावस्वीकारात् विशेष्यताप्रकारतयोरभेदस्वीकारे रक्तदण्डवानिति बुद्धौ रक्तरूपविशेष्यक दण्डाभावनिश्चय प्रतिवध्यत्वापत्तेः दण्डप्रकारतानिरूपितरक्तरूपनिष्टावशेष्यताशालित्वात्तादृशबुद्धेरिति ध्येयम् । वश्यमाणगौरवस्य कारणतानिश्चयानधीनत्वादाह ॥ गौरवज्ञानमिति ॥ प्रमाणान्तरेति ॥ कालिका. नुमानातिरिक्तप्रमाणेत्यर्थः । स्वाश्रयकत्वं स्वाश्रयत्तित्वम् ॥ निश्चयाधीन इति ॥ तादृशकारणतानिश्चये सत्लेव कालिजैन तत्तदनुमित्यव्यवहितपूर्ववृत्तित्वविशिष्टपरामर्शस्य निर्णयसम्भवादिति भावः ॥ स्वघटकी- भूतेति ॥ गौरवघटकीभूतेत्यर्थः ॥ न तादृशेति ॥ स्वोत्तरोत्पन्नगौरवज्ञानस्य स्वप्रतिबन्धकखासम्भव इति भा- -