पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामहद्रीयसमन्विता । ४८१ मादित्यादौ साध्यो वह्निः साध्यवान् महान सादिस्तदन्यो जलहदादिस्तवृत्तित्वं धूमस्ये- ति लक्षणसमन्वयः । धूमवान वढेरित्यादौ साध्यवदन्यस्मिस्तप्ताय:पिण्डादौ वः सत्त्वान्ना- तिव्याप्तिः । अत्र येन सम्बन्धेन साध्यं तेनैव सम्बन्धेन साध्यवान् बोध्यः अन्यथा स. मवायसम्बन्धेन वह्निमान्वरवयवस्तदन्या महानसादिस्तत्र धूमस्य विद्यमानत्वादव्याप्तिप्र- सङ्गात् । साध्यवदन्यश्च साध्यवत्त्वावच्छिन्नप्रतियोगिताकभेदवान बोध्यः तेन यत्किञ्चि- द्वह्निमतो महानसादेर्भिन्ने पर्वतादौ धूमसत्त्वेऽपि न क्षतिः । येन सम्बन्धेन हेतुता तेनैव व्याप्त्याश्रय इति ॥ व्याप्यस्य पक्षवृत्तिवेत्यादिकारिकाघटकव्याप्यपदार्थ ः व्याप्त्याश्रय इत्यर्थः ॥ तत्र व्याप्तिरिति ॥ व्याप्स्याश्रयघटकीभूता व्याप्तिरित्यर्थः । येन संबन्धेन साध्यमिति ॥ अत्र साध्य- शब्दस्य भावप्रधाननिर्देशात यत्संवन्धावच्छिन्नसाध्यतेत्यर्थः । साध्यतावच्छेदको य संबन्ध इति यावत् ॥ ते- नैव संबन्धेनेति ॥साध्यतावच्छेदकसंबन्धेनेत्यर्थः । सभवायसंबन्धेनेति ॥ अव्याप्त्यभिधानमिदं यकि. ञ्चित्संबन्धेन साध्यवत्वनिवेशाभिप्रायेण यदिच संबन्धसामान्येन साध्यवत्वं विवक्ष्यते तदा नित्य गुणादेरेव सं. बन्धसामान्येन साध्यवदन्यतया तन्निरूपितहेतुतावच्छेदका भूतसंयोगसंबन्धावच्छिन्नवृत्तित्वाप्रसिद्धशा अव्या- प्तिः । धूभवान्वहितकारकश्रमाविशेष्यत्वादित्यादौ संबन्धसामान्येन साध्यादन्यनित्यगुणादिनिरूपितस्वरूपसं. बन्धावच्छिनप्रतियोगिताकवृत्तित्वामावसत्त्वादतिव्याप्तश्चेति बोध्यम् । केचित्तु यदि संबन्धसामान्येन साध्यव- त्वं विवक्ष्यते तदा धूभवान् वहात्मादायतिव्याप्तिर्योध्येत्याहुः तद सत् संयोगसंबन्धेन बाहिहेतुकस्थले संब- न्धसामान्येन साध्यवदन्यनित्यगुणादिनिरूपितहेतुतावच्छेदकीभूतसंयोगसंबन्धावच्छिन्नवृत्तित्वाप्रसिद्धया अ. तिव्याप्त्य प्रसक्केः ॥ साध्यवत्वावच्छिन्नेत्यादि । साध्यतावच्छेदकावच्छिन्नावच्छेदकताकप्रतियोगिता- कभेदयानित्यर्थः । अत्र साध्यवत्रिष्ठप्रतियोगिताकभेदनिवेशे साध्यनिष्टावच्छेदकताकप्रतियोगिताको- दनिवेशे च दोषमाह ॥ तेनेति ॥ यत्किंचिद्वह्निमतो महानसादभिन्न इति ॥ महानसादेः दिनकरीयम् . त्रेति ॥ घटकत्वं सप्तम्यर्थः । अव्याप्तिप्रसङ्गादिति !! अध्याप्त्यभिधानमिदं येनकेनचित्सम्बन्धेन साध्य- वत्वविवक्षणाभिप्रायेण । यदि च सम्बन्धसामान्येन साध्यवत्वं विवक्ष्यते तदा धूमवान् बहेरित्याद ।व- रामरुद्रीयम्. वः ॥ उपोद्धातमिति ॥ व्याप्यपक्षोभयवैशिष्ट्यावगादिज्ञानस्य व्याप्तिज्ञानसाध्यत्वेनोपोद्घातसङ्गत्या परा. मर्शनिरूपणानन्तरं व्याप्तिनिरूपणमिति भावः ॥ घटकत्वमिति । तदविषयकप्रतीत्यविषयत्वं तद्धटकत्वं व्याप्य घट कीभूता व्याप्तिः केत्यर्थः पर्यवसितः । साध्यवदन्यावृत्तित्वलक्षणे साध्यतावच्छेदकसम्बन्धेन सा. ध्यवत्त्वाविवक्षणे वह्निमान् धूमादित्यादी अध्याप्तिमूलोका न सङ्गच्छते साध्यवत्त्वावच्छिन्नभेदस्य संयोगेन साध्यपति पर्वतादावसम्मवादित्यतस्तद्न्थभावमाह ॥ येनकेनचिदिति ॥ यत्किञ्चित्सम्बन्धेनेति तदर्थः । तथा च समवायेन वहिमदन्यत्वस्य पर्वतादी सत्त्वान्नाच्या यसअतिरिति भावः । यद्यपि विषयितादिक्कृत- विशेषणतादियात्किञ्चित्सम्बन्धेन साध्यवदन्यस्मिन्हेतोवृत्त्या सर्वत्रासम्भव एवेत्यव्याप्त्यभिधानं मूलकृतोऽस . तं तथापि इदं घटभिन्न संयोगसंयुफसमवेतसविषयकान्यत्वविशिष्टतद्रूपवान् तद्धटभिन्नान्यत्वविशिष्टतद्रूप- वान्या तबसादित्यादी लक्षणसम्भवाव्याप्त्यभिधानामति बोध्यम् । ननु सम्बन्धसामान्येन साध्यवत्त्वं वि- वक्षणीयमतो नाव्याप्तिरित्यत आह ॥ यदि चेति ॥ अतिव्याप्तिरिति ॥ धूमशून्यायोगोलकादेरपि सम्बन्धसामान्यान्तर्गतकालिकादिना धूमवत्वेन धूमासमानकालीनपदार्थस्यैव धूमवदन्यत्वात् वयधिक रणस्य धूमासमान कालस्याप्रसिद्धरिति भावः । यदि च धूमासमानकालीनः प्रलयोत्पन्नपरमाणु कियादिरेव तत्र हेतुतावच्छेदकसंयोगेन वृत्त्यप्रसिद्धयैव नातिव्याप्तिरिति विभाव्यते तदा तदभिप्रायेणवादिपदेन वह्निः मत्वप्रकारकप्रमाविशेष्यत्वस्य स्वरूपसम्बन्धेन हेतोपसंग्रह इति मन्तव्यम् ॥ मूले साध्यवत्त्वा. 61