पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ कारिकावली [अनुमानखण्डमें घटादिवृत्त्यभावप्रतियोगितावच्छेदकत्वमस्तीत्यव्याप्तिरिति चेन्न । तत्र परम्परया रूपत्वव्या- प्रभा. गुणवान् दव्यत्वादित्यादौ नानाव्यक्ति साध्यकसद्धेतुमात्रे अव्याप्तिः महानसीयधूमस्यापि पर्वतीयचह्निनिरू- पितत्र्याप्यत्वस्य वक्तव्यतया पर्वतीयवहे: धूमाधिकरणमहानसनिष्ठामावप्रतियोगित्वेना प्रतियोगितद्वाहसा- मानाधिकरण्यस्य महानसीयधूमेऽभावेन एवंरीत्या चालिनीन्यायेन सर्वेषां वह्नींनां धूमरवावच्छिन्नसमानाधि- करणाभावप्रतियोगित्वेना प्रतियोगिसाध्याप्रसिद्ध्या तत्सामानाधिकरण्यं न कस्मिश्चिम इत्यव्याप्तिः तद्वारण मेवानवच्छेदकत्वगर्भलक्षणकरणे मूलमिति प्रतिभाति । नच तथापि वह्निमान् धूमादित्यादौ अव्याप्तिः है- तुसमानाधिकरणाभावीयमहानसीयवाहत्वावच्छिन्नप्रतियोगितायां महानसीयत्वविशिष्टवहित्वस्यावच्छेदकत्वे. न केवलवाहित्वस्यावच्छेदकत्वात् विशिष्टवाहित्वस्य शुद्धवहित्वानतिरिक्तत्वादिति वाच्यम् अनवच्छेदकत्वश- देनावच्छेदकत्त्वपर्याप्त्यनाधिकरणत्वविवक्षणात् उक्ताभावप्रतियोगितावच्छेदकतायाः महानसीयत्वाद्यन्त - वेन पर्याप्ततया केवल वह्नित्वस्य तत्पर्याप्त्यनधिकरणत्वानोकाव्याप्तिः । अन्ये तु तादृशप्रतियोगितायाः सा- ध्यतावच्छेदकतदितरोभयानवच्छिन्नत्वेन विशेषणीयत्वात् महानसीयवहयभावीय प्रतियोगितायाश्च हित्व- महानसीयत्वोभयावच्छिन्नत्वेन लक्षणाघटकतया घटायभावीय प्रतियोगिताया एव तादृशत्वेन तदनचच्छेद- कत्वस्य वहिले सत्यानाव्याप्तिरित्याहुः । परम्परयति ॥ स्वाश्यप्रतियोगिकसमवायानुयोगित्वसंबन्ध- दिनकरीयम्. णत्वस्य द्रव्यत्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकत्वान्नाव्याप्तिरिति भावः ॥ परम्परया स्वा. रामरुद्रीयम्. प्त्यिननच्छेदकसाध्यतावच्छेदकतापर्याप्त्यपच्छेदकामित्यस्य विवक्षितत्वात् वह्निमान्धूमादित्यादौ वह्नित्वादे- निरवच्छिन्नव यद्यपि साध्यतारच्छेदकता तथापि साध्यतावच्छेदकतापर्याप्त्यवच्छेदक वह्नित्वनिष्ठं तब्यक्ति स्वं तच्च न महानीयवह्नयभावप्रतियोगितावच्छेदकतापर्याप्लवच्छेदकं व्यासज्यवृत्तिधर्मपर्याप्हरेकमात्रवृत्ति धर्मस्यानवच्छेदकत्वात् अन्यथाकाशाविति प्रयोगात्तेः । न चैवं घटपटावित्यादी घटमात्रवृत्तिधर्मस्य कथ घटपटगतद्वित्वपर्याप्त्यवच्छेदकरवेन मानमिति वाच्यम् । एकमात्रवृत्युद्देश्यतावच्छेदकताकस्थल एव द्वित्व- पर्याप्त्यनवच्छेदकत्वस्योद्देश्यतावच्छेदके भानोपगमात् अत्र तु महानसीयत्वहित्योभयत्वमेवेति नाव्याप्तिः । न वा महानसीयवह्नि साध्यकव्यभिचारिण्यतिव्याप्तिरिति परमरहस्यमनुसन्धेयम् । परे तु हेतुसमानाधिकरणा- भावप्रतियोगितायां साध्यतावच्छेदकतदितरोभयानवच्छिन्नत्वं विशेषणमुपादायोकाव्याप्तिारणीया महान सीयवहयभाषादिप्रतियोगिताया वहिवतद्भिन्नमहानसीयत्वाभ्यामवच्छिनतया लक्षणाघटकतया घटाद्यभा वीयप्रतियोगिताया एव लक्षणघटकत्वाद्वयभिचारिणि साध्याभावस्य लक्षणघटकत्वोपपत्तये तदितरेति । सद्धेतौ तथाविधप्रतियोगिताप्रसिद्धये च साध्यतावच्छेदकेसि । न चैवमपि तद्वहिवृत्तित्वविशिष्टवह्नित्ववाना. स्वीति प्रतीतिविषयाभावधारणमशक्यमेव यदि च प्रतियोगितावच्छेदकतायां निरवच्छिन्नत्वविशेषणमुपा- दीयते तदा तद्वह्नित्वत्वेन वह्नित्वस्य साध्यतावच्छेदकतायां व्यभिचारिण्यतिव्याप्तिरिति वाच्यम् । साध्यता- बच्छेदकतादिभेदेन व्याप्तेमिन्नतया निरवच्छिन्नसाध्यतावच्छेदकताकस्थलीयलक्षण एवं प्रतियोगितावच्छे. दकतायां निरवैच्छिन्नत्वविशेषणस्योपादयत्वात् । न चैवमपि वहित्वावच्छिन्नसाध्यतावच्छेदकताकस्थ. लीयसद्धेतौ तद्वह्निवीतत्वविशिष्टवीहत्ववानास्तीति प्रतीतिविषयाभावमादायाव्याप्तिरिति वाच्यम् । खा. वच्छिन्नसाध्यतावच्छेदककस्थलीयलक्षणे प्रतियोगितावच्छेदकतायां साध्यतावच्छेदकतावच्छेदकतादेतरोभया नवन्छिन्नस्वविशेषणस्याप्युपादेयत्वात् । अथैवमपि यत्र प्रमेयस्यैव साध्यतावच्छेदकता ताहशसद्धेतुस्थले प्रमे. यरूपसाध्यतावच्छेदके तदितराप्रसिद्धोक्तविशेषणोपादानासम्भवः ताशस्थले तद्विशेषणानुपादाने च प्रमेयव- बटावभावमाछायाव्याप्तिर्वारेति चेन्न । दण्डयादिसायके परम्परया दण्डत्दस्येवात्रापि परम्परया प्रमेयत्वस्यैव साध्यतावच्छेदकत्वोपगमादिति वदन्ति । ननु परम्परया रूपत्वन्यूनवृत्तिजातित्वस्य साध्यतावच्छेदकत्वेऽपि साक्षासम्बन्धेन तादृशजातिस्वविशिष्टस्य पृथिव्यामभावसत्त्वेन साध्यतावच्छदकं न तादृशाभावप्रतियोगि..