पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ कारिकावली [ अनुमानखण्डम् समवादित्यादौ शुद्धसत्ताधिकरणगुणादिनिष्ठाभावप्रतियोगित्वेऽपि द्रव्यत्वस्य नाव्याप्तिः। हेतु- तावच्छेदकसम्बन्धन हेत्वधिकरणं बोध्यं तेन समवायेन धूमाधिकरणतद्वयवनिष्ठाभावप्रतियो- गित्वेऽपि वह्न व्याप्तिः । अभावश्च प्रतियोगिव्यधिकरणो बोध्यः तेन कपिसंयोगी एत- दृक्षत्वादित्यत्र मूलावच्छेदनैतद्वृक्षवृत्तिकापसंयोगाभावप्रतियोगित्वेऽपि कपिसंयोगस्य ना- व्याप्तिः । नच प्रतियोगिव्यधिकरणत्वं यदि प्रतियोग्यनधिकरणवृत्तित्वं तदा तथैवाव्या- प्तिः प्रतियोगिनः कपिसंयोगस्थानधिकरणे गुणादौ वर्तमानो योऽभावस्तस्यैव वृक्षे मू- लावच्छेदेन सत्त्वात् । यदि तु प्रतियोग्यधिकरणावृत्तित्वं तदा संयोगी सत्त्वादित्यादावति- प्रभा दकघटितत्वादिति भावः । अत्र पृथिवीत्वहेतुकस्थले जातिमद्वानित्यनुमित्यनजीकारे बाधकाभावेन प्रतियोगिता• वच्छेदकतानवच्छेदकत्वसाध्यतावच्छेदकतावच्छेदकत्वघटितलक्षणकमरण नुचितं गौरवात प्रयोजनाभावाचेत्य- स्वरखं हृदि निधाय वदन्तीत्युक्तमिति ध्येयम् ॥ नाव्याप्तिरिति ॥ नच विशिष्ट सत्तायाः समवायन हेतु- त्वे व्यभिचारित्वापत्त्या विशिष्टनिरूपिताधारतासंबन्धेनेष हेतु वं वाच्यम् एवंच शुद्धमत्ताया अपि तेन संब- धेन गुणादाववर्तमानतया अव्याप्त्यभायेन विशिष्टाधिकरणत्वनिवेशनमफलमिति वाच्यम् साध्याभाववन्नि धिकरण तानिरूपरतावच्छेदकहेतुतावच्छेदकत्वस्यैव व्यभिचारपदार्थत्वन केवलसमायस्य हेतुतावच्छेद- कसंवन्धत्वेऽपि विशिष्ट सत्तारूपहेतोः व्यभिचारित्वाभावेन प्रकृते विशिष्टाधिकरणताया: हेतुतावच्छेदकसंब- न्धतस्वीकारे प्रमाणाभावेनोक्ताव्याप्तवारणाय तन्निवेशस्यावश्यक वात् । अब हेतुतावच्छेदकविशिष्टाधिकर- गावं न विशिष्टनिष्टाधेयतानिरूपिताधारत्वमुकदोषतादवथ्यात् किन्तु हेतुतावच्छेदकावच्छिन्नाधे यतानिरू पिताधारत्वं लक्षणघटकमिति बोध्यम् || वृक्षे सत्त्वादिति । अभिकरणभेदेन अभावभेदे मानाभावा- दिनकरीयम्. द्धसत्ताधिकरणेति ॥ नच विशिष्टनिरूपिताधिकरणतायाः हेतुतावच्छेदकसम्यन्यत्वे कथं तेन सम्बन्धेन सत्ताधिकरणं गुणः समवायस्य तथात्वे तु द्रव्यत्वे साध्ये विशिष्टसत्ताया व्यभिचारित्वात्तत्राव्याप्त्यभिधान- मस तामिति वाच्यम् । साध्याभाववत्तितावच्छेदकहेतुतावच्छेदकस्यैव व्यभिचारपदार्थतया शुद्धसमवाय- सम्बन्धस्य हेतुतावच्छेदकसम्बन्धत्वेऽपि विशिष्ट सत्त्वस्य हेतोय॑भिचारित्वाभावात् नाव्याप्तिरिति । नच है. तुतावच्छेदकविशिष्टंमत्तात्वविशिष्ट सत्त्वस्य गुणे सत्त्वादेव विवक्षणेऽपि कथमव्याप्तिपरिहार इति वाच्यम् । हेतुतावच्छेदकावच्छिन्ननिरूपिताधिकरणत्वस्य विवक्षितत्याद्विशिष्टसत्तात्वस्य गुणनिष्टाधिकरणतानिरूपिताधे- यतानवच्छेदकतया तदनाच्छन्ननिरूपिताधिकरणत्वस्य गुणेऽभावादिति ॥ तथैव तवस्थैव ॥ तस्यैव वृक्ष इति ।। अधिकरणभेदेनाभावभेदानभ्युपगमादिति भावः ॥ प्रतियोग्याधिकरणावृत्तित्वं प्रति- .रामरुद्रीयम्. याः साध्याभाववति गुणे सत्त्वेन व्यभिचारितयाऽलक्ष्यत्वात् । यदि च विशिष्टसत्तात्वावच्छिन्नाधिकरणतैव हेतुतावच्छेदकसम्बन्धः तेन च गुणावृत्तित्वं तस्या इति लक्ष्यत्वम् । न चैवं तेन सम्बन्धेन सत्तामात्रस्यैव हेतुताऽस्तु तेन सम्बन्धेन विशिष्ट सत्त्वस्य हेतुत्वे व्यर्थविशेषणतापत्तिरिति वाच्यम् । शुद्धसत्ताप्रतियोगि- स्वस्य विशिष्ट सत्ताधिकरणतायामनीकारादित्युच्यते तदा हेतुतावच्छेदकसम्बन्धनिवेशेनैवाव्याप्तिपरिहारा. हेतुतावच्छेदकधर्मनिवेशो विफल इत्याशय समवाय एव हेतुतावच्छेदकसम्बन्धः तेन सम्बन्धन साध्या- भाववद्वृत्तित्वं नालक्ष्यताप्रयोजको व्यभिचारः किन्तु साध्याभाववनिरूपिततत्सम्बन्धावच्छिन्नाधेयतावच्छे दकहेतुतावच्छेदकव त्वमेव तथा । तथाच न व्यभिचारित्वं विशिष्टसत्त्वात्येति समाधत्ते ॥ नवेत्यादि । न च हेतुतावच्छेदकविशिष्टेति ॥ हेतुतावच्छेदकीभूतविशिष्टसत्तात्वविशिष्टा सत्तैव तदधिकरणं गु- णोऽपीति भावः । प्रदर्शिताव्याप्ती पूर्वोक्ताव्याप्तिभेदाभावेन तथैवेत्यस्य साहश्यार्थकता ने घटत