पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामद्रीयसमन्विता । ४८९ व्याप्तिः सत्ताधिकरणे गुणादौ य: संयोगाभावस्तस्य प्रतियोग्यधिकरणद्रव्यवृत्तित्वादिति वाच्य हेत्वधिकरणे प्रतियोग्यनधिकरणवृत्तित्वविशिष्टस्य विवक्षितत्वात् । स्वप्रतियोग्य- नधिकरणीभूतहेत्वधिकरणवृश्यभाव इति निष्कर्षः । प्रतियोग्यनधिकरणत्वं प्रतियोगिताव- च्छेदकावच्छिन्नानाधिकरणत्वं वाच्यं । तेन विशिष्टसत्तावान जातेरित्यादी जात्यधिकरण- गुणादौ विशिष्टसत्ताभावप्रतियोगिसत्ताधिकरणत्वेऽपि न क्षतिः । अत्र साध्यतावच्छे- दकसम्बन्धेन प्रतियोग्यनधिकरणत्वं बोध्यं तेन ज्ञानवान् सवादित्यादी सत्ताधि- प्रभा. दिति भावः ॥ अतिव्याप्तिरिति ॥ ननु द्रव्ये संयोगसामानाधिकरण्यवत्यपि संयोगाभावे सत्ताथामिव गुः णे न संयोगसामानाधिकरण्यामिनि प्रतीत्या गुणावच्छेदेन संयोगसामानाधिकरण्याभावस्थापि सत्त्वेन तस्या- पि प्रतियोगिव्यधिकरणाभावतया कथमतिव्याप्तिः । नचैवं सति कपिसंयोगी एतद्वक्षत्वादित्यादौ कपिसं. योगाभावस्य गुणादौ प्रतियोगिसामानाधिकरण्याभावसत्त्वेन प्रतियोगिध्यधिकरणतया अव्याप्तिरिति वाच्यम् हेत्वधिकरणावच्छेदेन प्रतियोगिसामानाधिकरण्याभाववत्त्वस्यैव प्रतियोगिवैयधिकरण्यपदार्थत्वात् एतादृशप्र. तियोगिवैयाधिकरण्यलाभार्यय हेतु सामानाधिकरग्यविशेषणोपादानात् न तद्वैयमिति चेन्न। सत्ता न संयो. मिवृत्तित्वाभाववती संयोगिवृत्तित्वाभावो न सत्तावृत्तिरिति सकलजनसिद्धप्रतीतिबाधितत्वेन उप्रतीले स. तानिष्ठसंयोगसामानाधिकरण्यनिरूपकत्वाभावस्य गुणादिनिष्ठस्यावगाहित्यावश्यकतथा सामानाधिकरण्यस्या- व्याप्यवृत्तित्वे प्रमाणाभावात् प्रतियोग्यधिकरणवृत्तिभिन्नत्वरूपप्रतियोग्यधिकरणावृत्तित्वविवक्षणाद्वा उक्ताति - व्याप्त्यसकतेः ॥ त्वधिकरणे प्रतियोग्यनधिकरणत्वस्येति ॥ हेत्वधिकरणनिष्ठप्रतियोग्यनधिकर- णत्वस्येत्यर्थः ॥ विवक्षितत्वादिति ॥ प्रतियोग्यनधिकरणवृत्तित्वघटकप्रतियोग्यनधिकरणशब्देन विवक्षितत्वादित्यर्थः । नन्वैवं सति पृथक हेतुसामानाधिकरण्यविशेषणं व्यर्थ सद्धेतौ साध्याभावस्य एता. दशप्रतियोगियधिकरण्याभावेनैव चारणादित्यत आह ॥ स्वप्रतियोग्यनधिकरणति ॥ निष्कर्ष इ. ति ॥ तथाच हेतुसामानाधिकरण्यविशेषणवैयर्थे इष्टापत्तिः । निरुक्तप्रतियोगिवैयधिकरण्यलाभायैव तद्वि. शेषणदानादिति भावः । अस्मद्गुरुचरणास्तु अभावान्तनिष्कर्ष इनि अभावपदस्य उक्तार्थलाक्षाणिकत्वाद्वि- निगमनाविरहात इतरपदानां सर्वेषां च तात्पर्यग्राहकत्वाच न ताशेषणवैयर्थ्यमिति व्याचकः ॥ न क्षति. रिति ॥ तथाच विशिष्सत्ताभावस्य प्रतियोमितावच्छेदकटितनिरुक्त प्रतियोगिवैयधिकरण्यसत्त्वेन तस्यापि लक्षणघटकतया नातिव्याप्तिरिति भावः । ननु ज्ञानवान् सत्त्वादित्यादौ प्रतियोगितावच्छेदकसंबन्धेन प्रति- योग्यनधिकरणस्वघटितलक्षणकरणेऽप्यतिध्याप्तिवारणसंभवात् साध्यतावच्छेद कसंबन्धघटितलक्षणकरणं व्य- दिनकरीयम्. योग्यधिकरणवृत्तिभिन्नत्वम् ॥ विवक्षितत्वादिति । प्रतियोगिव्यधिकरणपदेन विवक्षितत्वादित्यर्थः । न- न्वेवं हेतुसमानाधिकरणेत्यस्य वैयर्थ्यं सत्तावान् जातेरित्यादौ सत्ताद्यभावस्य निरुक्कप्रतियोगिवैयधिकरण्या- भावाव्याप्तिविरहादत आह ॥ स्वप्रतियोग्यनधिकरणति ॥ निष्कर्ष इति । प्रतियोगिब्यधिकर- णहेतुसमानाधिकरणाभावान्त इति निष्कर्षः । तथा च हेतुसमानाधिकरणत्वाविशेषणवलादेव तादृशप्रतियो. गिवैयधिकरण्यलाभान्न तद्वैयर्थ्यमिति भावः ॥ सत्ताधिकरणत्वेऽपीति ॥ तथा च विशिष्ट सत्ताभाचो न प्रतियोगिव्यधिकरण: अभावान्तरप्रतियोगितायाश्चानवच्छेदकमेव विशिष्टसत्तात्वामित्यतिव्याप्तिः॥न क्ष- तिः नातिव्याप्तिः । एवमप्रेऽपि । ननु प्रतियोगितावच्छेदकसम्बन्धेनैव प्रतियोग्यनाधिकरणत्वमुच्यता रामरुद्रीयम् . इत्यत आह ॥ तदवस्थैवेति । तथा चेति ॥ वस्तुतः प्रतियोगिव्यधिकरणत्वं हेतावेव विशेषणम् । तब प्रतियोग्यनधिकरणवृत्तित्वं तद्विशिष्टविधिकरणवृत्तिवाभावविशेषणं तथा व लाघवात्प्रतियोग्यनधि. 62