पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । भावात्मकतया घटाभावस्य वलिपि प्रतियोगी सदधिकरणं च पर्वतादिरित्येवंक्रमण प्रतियोगिव्यधिकरणस्याप्रसिद्धत्वात् । यदि घटाभावादी वह्नयभावादिभिन्न इत्युच्यते त- दा धूमाभाववान् वह्नयभावादित्या दावव्याप्ति तत्र साध्यतावच्छेदकसम्बन्ध स्वरूपस- म्बन्धस्तेन सर्वस्यैवाभावस्य पूर्वक्षणवृत्तित्वविशिष्टस्वाभावात्मकप्रतियोग्यधिकरणत्वं हेत्वधि- प्रभा. तथार पूर्वक्षणवृत्तित्वविशिष्टघटाभावाभावस्य पूर्वक्षणवृतित्वविशिष्टययभावात्मकस्य केवलघटाभावानतिरि- ततया केवलघटाभाषीयप्रतियोगिताया अपि पूर्वक्षणवृत्तित्वविशिष्टघटाभावाभावे सत्त्वात्प्रतियोगिव्यधिक रणाभावाप्रसिद्धया असंभव इति भावः । अभावाधिकरणकाभावमात्रस्य अधिकरणरूपत्वमिति मतमाश्रित्य परिहति ॥ घटाभाव इति ॥ नन्वभावाधिकरणकाभावमानस्याभेदे अभावमानस्य भेदविलोपप्रसङ्गः । नचेष्टापत्तिः घटाधिकरणे पटाभावप्रत्ययवत् घराभावप्रत्ययापत्तेः अतः अभावाधिकरणकाभावमात्रस्याभेदा. स्वीकारे उक्ताप्रसिद्धयसंभवेनासंभवाभावात अभावसाध्यकसद्धेतुमात्रे अव्याप्तिमाह ॥ तदेति ॥ यद्यपि अभावमानस्य भेदाभावेऽपि क्षतिविरहः घटाभावत्वादीनां धर्माणां भेदस्वीकारेणैव घटाधिकरणे घटाभाव- स्वावच्छिन्ननिरूपिताधिकरणत्वानङ्गीकारेणैव घटाभावप्रत्ययवारणसंभवात् विशिष्टसत्तायाश्शुद्धसत्तायाश्चक्य- ऽपि गुणादौ विशिष्टसत्तात्वावच्छिन्ननिरूपिताधिकरणत्वानङ्गीकारेण गुणो विशिष्टसत्तावानिति प्रत्ययवारणवत् एवंच उक्ताप्रसिद्धिवारण नावश्यकमेव तथाप्येवंरीत्याभावमात्रस्यैक्यस्वीकारे पदार्थमात्रस्य भेदविलोपप्रसङ्गः घटपटयोरैक्येऽपि मन घटवद्भूतलमिति प्रत्ययः तत्रैव घटत्वावच्छिन्ननिरूपिताधिकरणत्वं नान्यत्रेत्येवरी त्यातिप्रसङ्गवारणसंभवात् । तथाचापसिद्धान्त इत्येव दूषणं सारम् । केचित्तु ध्वंसप्रागभावाभ्यामत्यन्ताभा- दिनकरीयम्. शिष्टस्य स्वस्य घटाभावादेयोऽभावस्तदात्मकेत्यर्थः । घटाभावाद्यधिकरणेऽपि पूर्वक्षणवृत्तित्वविशिष्टघटाभावा- देरभावस्योत्तरक्षणावच्छेदेन सत्वादिति भावः । न च पूर्वक्षणवृत्तित्वविशिष्टस्य घटाभावादेरभावः स्वाभाव. स्य प्रतियोगी न घटाभावादेरिति वाच्यम् । पूर्वक्षणवृत्तित्वविशिष्टस्य घटाभावादेर्योऽभावस्तदभावस्य पूर्व- क्षणवृत्तिःवविशिष्टघटाभावानतिरेकितया विशिष्टघटाभावप्रतियोगिनस्तस्य शुद्धघटाभावप्रतियोगित्यात् तथा च प्रतियोगिव्यधिकरणाभावाप्रसिद्धयाऽसम्भव इति भावः ॥ घटाभावात्मकतयेति ॥ अभावाधिकरण- काभावस्थाधिकरणानतिरिक्तत्वादिति भावः । इत्यादावित्यादिना अभावसाध्यकसद्धेतुमात्रपरिग्रहः ॥ स्व- रूपसम्बन्ध इति ॥ अभावीयविशेषणतेत्यर्थः ॥ पूर्वक्षणवृत्तित्वविशिष्टस्वाभावेति ॥ पूर्वक्ष. रामरुद्रीयम् . समवायेन तपसाध्यकसद्धतापगतेस्साध्यस्यैव तेन सम्बन्धेनाधिकरणाप्रसिद्धेरिति चेन्न । विशेषरूपेण सं. सगतानभ्युपगमात । तदभ्युपगमे तु साध्यतावच्छेदकसम्बन्धसामान्ये यदभावप्रतियोगितावच्छेदकावच्छि - नप्रतियोगिकत्वहेत्वधिकरणीभूतयत्किञ्चिद्वपक्त्यनुयोगिकत्वोभयाभावः तादृशाभाव एव हेत्वधिकरणे प्रतिया- गिव्यधिकरण इति निर्वचनीयम् । एवंच घटाभावादिरेव तादृशः प्रसिध्यति यत्किञ्चिद्धटादिसंयोगे बहित्वा- बच्छिन्नप्रतियोगिकत्वपर्वतायनुयोगिकत्वोभयाभावसत्वात् वहयभावस्यापि हेत्वधिकरणे प्रतियोगिव्यधिकर- गत्वापत्त्या वहिमान्धूमादित्यादावव्याप्तिरतसामान्यपदम् । व्यभिचारिणि साध्याभावस्य लक्षणघटकत्वो- पपत्तये यत्किश्चित्पदं तेनायोगोलक यत्किञ्चित्पदेनोपादायोभयाभावोपपत्तेलक्षणघटकता साध्याभावस्यापीति ध्येयम् । एवं विशेषरूपेण संसर्गताभ्युपगमे यत वल्लित्वप्रतियोगिकसमवायेन वहित्वस्य साध्यतावच्छेदकता सन हेतुसमानाधिकरणाभावीयप्रतियोगितावच्छेदकतायाः साध्यतावच्छेदकताघटकसम्बन्धात्रच्छिन्नाया अ. प्रसिद्धयाऽव्याप्तिरतः प्रतियोगितावच्छेदकतायां साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वं न निवेशनीय परन्तू काण्याप्तिवारणाय साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नावच्छेदकत्वीयस्वरूपसम्बन्धेन प्रतियोगि- लावच्छेदकत्वाभावो विवक्षणीय इति विभावनीयम् ॥ मूले भिन्न इत्युच्यत इति ॥ अन्यधा पछि