पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकाबली [अनुमानखण्ड -- करणस्येति । तृतीये तु कपिसंयोगाभाववानात्मत्वादित्यादावव्याप्तिः तवात्मवृत्तिः कपिसं- योगाभावाभावः कपिसंयोगस्तस्य गुणत्वात्तत्प्रतियोगितावच्छेदकं गुणसामान्याभावत्वम- पि तदवच्छिन्नानधिकरणत्वं हेत्वधिकरणस्यात्मन इति । मैवं यादृशप्रतियोगितावच्छे- दुकावच्छिन्नानधिकरणत्वं हेतुमतस्तादृशप्रतियोगितानवच्छेदकत्वस्य विवाक्षितत्वात् । ननु प्रभा. यस्य विरोधमनीकुर्वतां प्राचां मत द्रव्य संयोगसामान्याभावासंभवेनात्मत्वरूपहेती विरुद्धत्वमत आह कपी- त्यवतरणिकामाहुः तदसत् द्रव्ये संयोगसामान्याभावानजीकर्तृणां प्राचां मते आत्मनि कपिसंयोगसामान्या- भावाहीकार प्रमाणाभावादात्मनः कपिसंयोगध्वंसप्रागभावान्यतरवत्वेन ताभ्यां विरोधस्याप्यक्षतत्वात् । य. श्वोक्तमुत्पत्तिकालावच्छेदेन घटे गुणसामान्याभावसत्वात् घटत्वहेतावव्याप्त्यभावात् आत्मत्वपर्यन्तरानुधाव- नमिति तदपि न प्राचीनरुत्पत्तिकालावच्छेदेन घटे गुणसामान्याभानस्याप्यनीकृतत्वेन घटत्वहेतावव्याप्त्य. प्रसक्तयात्मत्वपर्यन्तानुधावनस्य उत्कवीजासंभवात् नवीनमत एव इदमनुमानमानीकर्तव्यमवश्यम् । यद्यप्ये- तन्मते आत्मनि प्रळयायवच्छेदेन संयोगसामान्याभावस्यापि सत्त्वात्तस्यैव साध्यत्वं संभवति तथापि खण्ड. प्रळयेऽपि आत्मनि बह्माण्डान्तरीय कपिसंयोग सत्त्वात् सकलब्रह्माण्डानामेकदा नाशे प्रमाणाभावात् महाप्रळ. ये मानाभावाचेत्याक्षेपे एकदा सकलब्रह्माण्डनाशं चा महाप्रळयं वा प्रसाध्यैव संयोगसामान्याभावसाधनसं- भवन प्रयासाधिक्यमिति तत्सौलभ्याय प्रतिज्ञावाक्ये कपिपदभुपात्तम् । तदपि कपिसंयोगत्वं न प्रतियोगिता- बच्छेदक अपितु संयोगनिष्ठतब्यक्तित्वमेवेति सूचनाय । तथाच यत्किंचित्संयोगवत्यपि तत्संयोगव्यकिनाश- काले तयक्तयत्यन्ताभावसत्वसंभवात् प्रयासाभाव इत्येव सारम् ॥ आत्मत्यादिति ॥ नवीनमते उत्पत्ति- कालावच्छेदेन घटे गुणसामान्याभावस्यापि संभवेन घटत्वहेतावघ्यायभावेन नात्मत्वपर्यन्तानुधावनमिति सदयं । समाधत्ते ॥ यादृशेति । यादृशप्रतियोगितेत्यन्वयः। तथाच कपिसयोगाभाववानात्मवादित्यादौ दिनकरीयम्. तित्वविशिष्टं यत्स्वं घटाभावादि तदभावात्मकेत्यर्थः । प्राचां मते द्रव्ये संयोगसामान्याभावानीकारादा- ४॥कपीति ॥ पटाभावीययत्किञ्चित्प्रतियोगितावच्छेदकघटत्वावच्छिन्नानधिकरणत्वस्य हेत्वभिकरणे स.. म्भवान्न प्रतियोगिव्यधिकरणाभावानसिद्धिनिबन्धनाव्याप्तिः सम्भवतीति भावः । घटत्वहेतुके यत्किश्चित्प्रति- योगितावच्छेदकगुणसामान्याभावत्वावच्छिन्नानधिकरणत्वं हेत्वधिकरणस्य घरादेर्न सम्भवति उत्पत्तिकाले घटे गुणसामान्याभावसत्त्वादत आत्मपर्यन्तानुधावनम् । तृतीयविवक्षानुसारेण समाधत्ते ॥ याहशेति ॥ यादृश्याः प्रतियोगिताया अवच्छेदकावच्छिन्नानधिकरणत्वं हेतुमतस्तादशप्रतियोगितावच्छेदकतानाश्रयत्व- मित्यर्थः । विवक्षितत्वात् ॥ अप्रतियोगिपदेन विवक्षितत्वात् । कपिसंयोगाभावानात्मवादित्यादौ गु- ५. सामान्याभावत्वावच्छिन्नप्रतियोगिताया एव यादृशप्रतियोगितापदेनोपादातुं शक्यतया तदनवच्छेदक- स्वस्य कपिसंयोगाभावत्वे सत्वान्नाव्याप्तिरिति भावः । अत्र च यद्धर्मविशिष्टानधिकरणत्वं हेत्वधिकरणस्य त , द्धर्मभिन्नसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यस्य लघलेनिर्दुष्टत्वसम्भवेऽपि यथा सन्निवेशे न ययमि- ति भावः । साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणत्वविवक्षणेऽव्याप्तिमाशयते ॥ नन्विति ॥ म- रामरुद्रीयम् - मति घटशून्यदेशे वहिनास्तीति घटवति वह्निशन्ये घटो नास्तीति प्रत्ययस्य चापत्तेरिति भावः ॥ तृतीयवि. वक्षति ॥ यत्किञ्चित्प्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वविवक्षानुसारेणेत्यर्थः । अप्रतियोगिपने- ति ॥ इदक्ष यथाश्रुतमूलाभिप्रायेणोक्तम् । वस्तुतसादृशप्रतियोगितानवच्छेद कत्वमेव साध्यतावच्छेदके वि- वक्षणीयम् । अन्यथा वह्निमान्धूमादित्यत्रैवाव्याप्तेः पूर्वमुपदर्शितत्वादिति बोध्यम् ॥ अत्र चेति ॥ साध्यतावच्छेदकसम्बन्धेन यद्धर्मावच्छिन्नवदन्यत्वं हेतुमतस्तदन्यसाध्यतावच्छेदकावच्छिन्न सामानाधिकरण्यं ध्याप्तिरियर्थः । न च प्रतियोगितानवच्छेदकानन्तधर्मभेदनिवेशे गौरवमिति वाच्यम् । गुरुधर्मस्वाभाव.