पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाच्य कारिकावली [अनुमानखण्डम् सिषाधयिषया शून्या सिद्धिर्यत्र न तिष्ठति । स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिभवेत् ॥ ७० ॥ पक्षवृत्तित्वामित्यत्र पक्षत्वं किं तदाह । सिपाधयिपयेति ॥ सिषाधयिषाविरह- प्रभा. तथाच गुरुधर्मस्य स्वरूपसंयन्धरूपावच्छेदकत्वाभावेऽपि हेतुसमानाधिकरणाभावप्रतियोगिताव. च्छदकं यत् घटत्वं तदनतिरिक्तवृत्तित्वरूपारिभाषिकावच्छेदकत्वस्य कम्युग्रोवादिमत्त्वे सत्त्वेन तद्रोत्या प्र. मेयवहित्वस्यापि पारिभाषिकावच्छेदकत्वसिद्धया तदवच्छिन्नत्वघटितोभयाभावस्यापि सत्वेन प्रमेयवाह्नमान् धूमादित्यादी नाव्याप्तिरिति दिक् ।। इति व्याप्तिवादः ॥ ६९ ॥ मूलेऽनुमितिलक्षणेककार्यकारित्वसमस्या व्याप्तिनिरूपणानन्तरं पक्षधर्मता निरूपणीया तामुपेक्ष्य आदी पक्षता. निरूपणे प्रकृतघटकत्वरूपोपोद्धातसङ्गतिमाह ॥ मुक्तावळ्यां पक्षवृत्तित्वमित्यत्रेति ॥ तथाच पक्षतायाः दिनकरीयम्. मूले पक्षतानिरूपणे सरतेरप्रदर्शनात् तां प्रदर्शयति ॥ पक्षवृत्तित्वामित्यनेति । तथा च प्रकृतस्य रामरूद्रीयम्. खापत्तिः । घटवनिष्ठाभावप्रतियोगितावच्छेदकस्य कम्बुप्रीवादिमत्त्वावच्छिन्नव्यापकतानवच्छेदकत्वादिति । न च कम्बुप्रोवादिमत्त्वावच्छिन्नव्यापकतावच्छेदकत्वं तदवच्छिन्नसमानाधिकरणाभावप्रतियोगितानवच्छेदक त्वमेव तथाचाप्रसिद्धितादवस्थ्य घटसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वत्वापेक्षया कम्युपोवादिमत्त्वावच्छिन्नवन्निष्टाभावप्रतियोगितावच्छेदकत्वत्वस्य गुरुत्वेन तदवच्छिन्नाभावाप्रसिद्धया तद्धः टितोकापच्छेदकताया असम्भव इति वाच्यम् । कम्युग्रीवादिमसमानाधिकरणाभावप्रतियोगितावच्छेदक यद्यत्तत्तद्भेदकूटस्यैव व्यापकतावच्छेदकत्वेनोपगन्तव्यत्वात्तस्य च प्रसिद्धत्वादिति चन्मेवम् । घटो नास्तीति प्रतीत्या हि घटत्वादेः स्वरूपसम्बन्धरूपमवच्छेदकत्वं सिध्यतीति वकव्यम् । तत्र च ननर्धाभावे घटस्य घटत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वयात्ताशप्रतीत्या घटत्वादेरवच्छेदकत्वावगाहनाद्यधा तादृशप्र. तीतिः घटत्वादेरवच्छेदकत्वे मानं तथा कम्बुप्रीवादिमानास्तीति प्रतीत्या कम्युप्रीवादिमत्त्वे निरुकावच्छे- दकत्वानवगाहनात्कथन्तस्य तादृशावच्छेदकत्वं तत्प्रतीतिगोचर इति घटोनास्तीतिवदियमपि स्वरूपसंबन्ध. रूपमेवावच्छेदकत्वं कम्बुग्रीवादिमत्त्वेऽवगाहत इति तद्बलाद्गुरुरपि भवत्यवच्छेदकः प्रतियोगिताया इति अन्धकृत्तात्पर्यात् । न च गुरुधर्म स्वरूप सम्वन्धरूपावच्छेदकत्वस्य बाधादुकप्रतीतो च्छिन्नव्यापकतावच्छेदकावच्छिन्न प्रतियोगितासम्बन्धेनैव प्रतियोगिनोभावे अन्वयोऽभ्युपेयते घटो ना- स्तीत्यादौ तु लाघवाद्धटत्वावच्छिन्नप्रतियोगितासम्बन्धेनैव घटादेरन्वयोऽभ्युपगन्तुमुचित इति वाच्य- म् । समानाकारकप्रतीत्योरेका प्रतियोग्यशे प्रकारीभूतधर्मावच्छिन्नप्रतियोगितासंसर्गावगाहित्वमपरत्र तादृशधर्मावच्छिन्नव्यापकतावच्छेदकधर्मावच्छिन्न प्रतियोगितासंसर्गावगाहित्वमिति कल्पनस्यानुचितत्वेन लाघवादुभयत्रैव प्रतियोगिविशेषणीभूतधर्मावच्छिन्न प्रतियोगितासंसर्गावगाहिताकल्पनस्यैव उचितत्वेन गुधर्मस्य नावच्छेदकत्वमित्यत्रैव प्रमाणदौलभ्यं प्रतीत्यनुरोधेनैव अवच्छेदकतासिद्धरुपगन्तव्यत्वा. दिति ध्येयम् । ननु प्रायोगिताधर्मिकोभयाभावघाटतलक्षणे गुरुधर्मावच्छिन्नसाध्यकाव्याप्त्याश- देव न सम्भवति गुरुधर्मस्य साध्यतावच्छेदकताया असम्भवादिति कथमेतदिति चेन्न । स्वरूपसम्बन्धरूपा. वल्छेदकताया एव गुरुधर्मे प्राचीनैरङ्गीकारात साध्यतावच्छेदकताया विषयताविशेषरूपत्वेन गुरुधर्मस्यापि तत्सम्भवादिति हृदयम् ॥ ६९। पक्षवृत्तित्वमित्यनेतीति मूले किमित्युत्तरमितीति पूरणीयम् । तथा च पक्षवृत्तित्वघटकं पक्षत्वं म. जिज्ञासाविषय इति हेतोस्तस्पक्षत्वमाहेत्यर्थः । नन्वेतावता का सन्नतिः प्रदर्शितेत्याशङ्कायामाह ॥ तथा चेति ॥ ननु परामर्शनिरूपणानन्तरं पक्षतानिरूपणे भवरूपोद्धातसातिः व्याप्तिनिरूपणाव्यवाहितोत्तरं पक्ष- 1 स्वाव -