पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय रामरूद्रीयसमन्विता । विशिष्ठसिद्धथभाषः पक्षता तद्वान् पक्ष इत्यर्थः । सिपाधयिषामा न पक्षता विनापि सिषा- धयिषां धनगजितेन मेघानुमानात् । अत एव साध्यसन्देहोऽपि न पक्षता विनापि साध्यसन्देहं सदनुमानात् । सिद्धौ सत्यामपि सिषाधयिषासत्त्वेऽनुमितिर्भवत्येव अतः सिषाधयिषाविरह- प्रभा. अनिरूपणे तदाधयत्तित्वरूपपक्षधर्मतानिरूपणं न संभवतीति प्रथमतस्तदेव निरूपितमिति भावः ॥ सिसायि. षामात्रस्य पक्षताववादिनां मतमुपन्यस्य दूषयति ॥ सिसाधयिपामात्रमिति॥घनगर्जितेनेति ॥ मेघा- नां विजातीयशब्देनेत्यर्थः ॥ मेघानुमानात् उपरिदेशे मेघानुमितेः। तथाचोपरिदेशो मेघवान् अवच्छेदकता- संबन्धेन विजातीयशब्दवश्वात् इत्यनुमानात् सिसाधयिषां विनापि मेघानुमितेरिति भावः ॥ साध्यसन्दे- होऽपीसि ॥ अत्र साध्यसन्देह न साध्यप्रकारकसन्देहः पर्वते वहिर्न वेति संशयस्य पक्षतात्वानुपपत्तेः नापि पक्षसाध्यान्यतरकोटिकः वह्निः पर्वतनिष्टाभावप्रतियोगी न वेति संशयस्य पक्षतावानुपपत्तेः किंतु प्राचीनः समानविषयकत्वेन प्रतिबन्धकत्वस्वीकारेण साध्यप्रकारकपक्षविशेष्य कनिश्चयत्वावच्छिन्न प्रतिबन्ध- कतानिरूपितप्रतिबध्यत्वेन पूर्वोकसंशयाननुगमध्य तादृश प्रतिवध्यताशालिसंशयत्वं पक्षतालक्षणं वाच्यम् । तत्र बाधेऽतिव्याप्तिवारणाय संशयत्वनिवेशः । अत्र संशयत्वं च न साध्यतदभावोभयप्रकारकज्ञानत्वरूपं सा- ध्यविशेष्यकसंशयेऽव्याप्तेः घटः प्रमेयो न वेत्यादिसंशयेऽव्याप्तेश्च तत्र प्रमेयत्वाभावाप्रसिद्धेः किंतु ज्ञानभेदेन विषयिताभेदावीकारात् स्वनिष्ठविषयिताघटितधर्मावच्छिन्न प्रतिबन्धकतानिरूपित प्रतिबध्यत्वं विषयाघटित सर्वसाधारणं संशगत्वं वाच्यम् । एवंच पर्वतो वहिमानवेत्यादिसंशयं स्वपदेनोपादाय तनिष्ठा या विष. यिता पर्वतविशेष्यतानिरूपितवहिप्रकारता निरूपित प्रकारिताख्यविषयिता दद्धटितधर्मः पर्वतविशेष्यकवह्नि- प्रकारकनिश्चयत्वं तदवच्छिनप्रतिवन्धकतानिरूपित प्रतिबध्यत्वस्य स्वस्मिन् सत्त्वात् साध्यवत्तानिश्चयप्रति बध्यत्वस्यापि सत्त्वाच्च पर्वतो वह्निमान वेति संशयेषु लक्षणसमन्वयः । तथाच साध्यवसानिश्चयप्रतिबध्यत्वे स्रति स्वनिष्ठविषयिताघटितधर्मावच्छिन्न प्रतिबन्धकतानिरूपित प्रतिबध्यत्वं पक्षतासामान्यलक्षणमिति प्राचो वदन्ति तद्दूषयति ॥ विनापि साध्यसन्देहमिति ॥ ताशपक्षता क्वचिद्विशेषणाभावप्रयुक्का कचिद्वि- दिनकरीयम्. परामर्शस्य घटकतया पक्षधर्मत्वमपि प्रकृतं तदुपपादकत्वरूपोपोद्धातसङ्गत्या पक्षतानिरूपणम् । ध्या- प्तिनिरूपित ककार्यकारित्वमेव सङ्गतिरिति बोध्यम् । मूले पक्षतालक्षणस्थ स्पष्टतयाऽनुक्तेः पक्षतालक्षणं स्वा- तन्त्र्येण प्रदर्शयन् मूलार्थमाह ॥ सिषाधयिषाविरहेति ॥ धनगार्जितेन मेघानुमितिस्थलेऽव्याप्त्याप- त्या सिषाधयिषामात्रस्य पक्षतात्वं निषेधति ॥ सिपाधयिषामात्रं न पक्षतेति ॥ मेघानुमानात् मेधानुमितेः ॥ अत एव वक्ष्यमाणदूषणादेव । सिषाधयिषाविरहरूपविशेषणस्य प्रयोजनमाह ॥ सिद्धौ रामरुद्रीयम्. तानिरूपणे का सातिरित्यत आह ॥ व्याप्तिनिरूपितेत्यादि । एककार्यकारित्वं एककार्यप्रयो- जकत्वं । प्रयोजकत्वञ्च कारणकारणतावच्छेदकसाधारणं तेनानुमिती पक्षतायाः कारणत्वेऽपि व्याप्तेविषय. विधया कारणतावच्छेदकत्वेऽपि च न क्षतिः अत एव सद्धेतुनिरूपणानन्तरं हेत्वाभासनिरूपणेऽप्येक- कार्यकारित्वसङ्गतिप्रदर्शनं दीधितिकृतां साच्छते स्वोकसद्धेतोः परामर्शनानुमितेजननात् परोकप्रतिहेतो- दुष्टत्वेन ज्ञानस्य प्रतिबन्धकनिरासद्वाराऽनुमितावुपयोगाच्च । वस्तुतस्तूपोद्धातोऽपि व्याप्तिनिरूपिता सङ्गति- भवत्येव तदभिधानानन्तराभिधानप्रयोजक जिज्ञासाजनकज्ञानविषयत्वस्यैव तन्निरूपिततत्सङ्गतित्वात् व्याप्ति निरूपणानन्तरमप्येकपरामर्शविषयत्वेन पक्षवृत्तित्वस्मरणे वृत्तित्वघटक किं पक्षत्वमिति जिज्ञासोत्पा- दसम्भवात् अत एव पक्षतानिरूपणानन्तरं परामर्शस्य कारणताव्यवस्थापने दीधित्युक्तानुमितिलक्षणोपो- द्वातस्य पक्षतानिरूपितसङ्गतित्वमुपपादितं गदाधुरभट्टाचारिति ध्येयम् || स्पष्टतयेति ॥ सिषाधयिषा- विरहविशिष्टसिद्धयभावो यत्र स पक्ष इत्युक्तावष्यत्तिादृशाभावः पक्षतेति लाभसम्भवात्स्पष्टतयेत्युक्तम् ।। अव्याप्स्यापत्त्योति ॥ पक्षे पक्षताभावापत्त्येत्यर्थः । नच सिषाधयिषाविरहविशिष्टसिद्धेः समवायेन पुरषे 63 ..