पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [अनुमानखण्डम् विशिष्टत्वं सिद्धी विशेषणं तथा च यत्र सिद्धिर्नास्ति तत्र सिषाधयिपायां सत्यामसत्यामपि पक्षता । यत्र सिपाधयिषाऽस्ति तत्र सिद्धौ सत्यामसत्यामपि पक्षता । यत्र सिद्धिरस्ति सिपाध- यिपा च नास्ति तत्र न पक्षता सिपाधयिषाविरहविशिष्टसिद्धेः सत्त्वात् । ननु यत्र पराम- निन्तरं सिद्धिः ततः सिपाधयिषा सत्र सिधाधयिषाकाले परामर्शनाशान्नानुमितिः यत्र सिद्धिपरामर्शसिपाधयिषाः क्रमेण भवन्ति तत्र सिषाधयिषाकाले सिद्धनाशात्प्रतिबन्धकाभा- बादेवानुमिति: यत्र सिषाधयिपासिद्धिपरामर्शास्तत्र परामर्शकाले सिपाधयिषव नास्ति एव- मन्यत्रापि सिद्धिकाले पुरामर्शकाले च न सिपाधयिषा योग्यावभुगुणानां योगपद्यनिषेधात् तत्कथं सिषाधयिषाविरहविशिष्टत्वं सिद्धेविशेषणमिति चेन्न । यव वहिव्यायधूमवान् पर्वतो प्रभा. शेष्याभावप्रयुक्ता क्वचिदुभयाभावप्रयुक्तेत्युपपादयति । तथाचेत्यादि । तथाच पक्षताविरहस्थ- लमुपपादयति ॥ यत्र त्वित्यादिना ॥ अत्र सिसाधयिषाविरहविशिष्टत्वं समवायद्वयघटित- सामानाधिकरण्यसंयन्धावच्छिन्नसिसाधयिषानिष्ठप्रतियोगिताकाभावस्थाभावीयदैशिकविशेषणतारूपवैशिष्टयं समवायसंबन्धावच्छिन्नसिसाधायपानिष्टप्रतियोगिताकाभावस्य दैशिकविशेषणतासमवायोभयघटितसामा. नाधिकरण्यकालिकविशेषणत्वरूपवैशिष्ट्यं वा सिद्धौ निवेश्यम् । तेन सिसाधयिषाकालेऽपि कालिक- संबन्धेन सिसाधयिपाविरहवैशिष्टय सत्त्वेऽपि नानुमित्यनुपपत्तिरिति बोध्यम् ॥ एवमन्यत्रापीति ॥ यत्र सिसाधार्यषापरामर्शसिद्धयः सिद्धिसिसाघयिपापरामर्शाः परामर्शसि साधयिषासिर यो वा तत्रापी- त्यर्थः ॥ कथमिति ॥ सिसाधयिषाकालीनानुमितिनिर्वाहरूपनयोजनासंभवेन व्यर्धत्वादिति भावः ॥ दिनकरीयम् . सत्यामिति ॥ अत इति ॥ तत्रानुमितिनिर्वाहकपक्षता सिद्धयर्थामति भावः । तत्र सिपाधयिषायां स- त्यामसत्यामपीति ॥ सत्यामुभयाभावप्रयुक्तस्यासत्यां विशेष्याभावमात्रनयुक्तस्योक्तविशिष्टाभावस्य सत्त्वा- दिति भायः ॥ सिद्धौ सत्यामसत्यां चेति ॥ सत्यां विशेषणाभावमात्र प्रयुक्तस्यासत्यां तूभराभावप्रयु. कस्य विशिष्टाभावस्य सत्त्वादिति भावः ।। सिद्धेः सत्त्वादिति ॥ सिद्धेः सत्त्वेन तदभावरूपपक्षताया अभावादिति भावः । सिपाधशिषाविरह वैशिष्टयं च सिद्धावेककालावच्छेदेनैकात्मवृत्तित्त्वं तेन सिपाधयि. पाकालीनसिद्धेः कालिकसम्बन्धेन सिपाधयिषाविरहविशिष्टत्वसत्त्वेऽपि न क्षतिः । परामर्शरूपकारणसत्त्वे सिद्धिरूपविरोधिसत्वे यानुभित्सा स्यात्तदा तस्या उत्तेजकत्वं वाच्यं नचैतत्सम्भवतीत्याशङ्कते ॥ ननु यत्रेति ॥ परामानन्तरं परामर्शद्वितीयक्षणे ॥ ततः सिद्धयुत्पत्तिद्वितीयक्षणे ॥ क्रमेण अव्यवधा- नेन ॥ एवमन्यापीति ॥ यत्र परामर्शसिशधयिपासिद्धयः क्रमेण भवन्ति एवं सिद्धिसिषाधयिषापरा. मर्शाः एवं सिपाधयिषापरामर्शसिद्धयधेत्यर्थः ॥ सिद्धिकाले परामर्शकाले चति ॥ सिद्धिपरामर्शी- रामरुद्रीयम्. सत्त्वेऽपि पक्षे तदभाव सत्त्वात्पक्षतापत्तिरिति वाच्यम् । विशेष्यतासम्बन्धेन वर्तत इति तदर्थात् ॥ अत इ. तीति ॥ चतुर्थ्यन्तात्तसिरिति भावः ॥ एककालेति ॥ एकक्षणेत्यर्थः। तेन न स्थूलकालमादायातिप्रसङ्गः ।। विरोधिसत्वे प्रतिबन्धकसत्त्वे ॥ अनुमित्सा स्यात् ॥ अनुमित्सा वर्तेतेत्यर्थः । अन्यथा पराम- भावेऽनुमितेरेवानुत्पत्त्या सिषाधयिषाया उत्तेजकत्वकल्पने वीजाभावात्प्रतिबन्धकसत्त्वे कार्योत्पादार्थमे- वोत्तेजकस्य कल्पनीयत्वात् सिद्धयसत्त्वे प्रतिबन्धकाभावादेव कार्योत्पादसम्भवेनोत्तेजकस्यैवानपेक्षितत्वात सिषाधयिषाभावे धर्मिणोऽसत्त्वेन कस्योत्तेजकत्वं कल्पनीयमिति भावः । सिद्धिमात्रकाले परामर्शमात्रका- ले च सिषाधयिपायास्सम्भवात्सिद्धिकाल इत्यादिमूलमसङ्गतमतो व्याचष्टे ॥ सिद्धीति ॥ ननु चह्निव्याय धूमवान्पर्वतो वह्निमानिति प्रत्यक्षानन्तरं सिषार्धायधैव न सम्भवति इष्टसाधनताज्ञानाभावात् उपायेच्छां प्रति