पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०२ कारिकावली [ अनुमानखण्डम् नानुमितिस्तादृशी सिद्धिर्विशिष्यैव तत्तदनुमितिप्रतिबन्धिका वक्तव्या तेन पर्वतस्तेजस्वी पा- प्रभा नुमितिर्जायतामितीच्छीयधूमालोकोभयत्वावच्छिन्नलिङ्गकत्वप्रकारताया निरुक्तधूमत्वावच्छिन्नलिजकत्वप्रका- रत्वान्यस्वेऽपि धूमालोकोभयत्वस्य धूमत्वसमानाधिकरणतया तादृशोभयत्वविशिष्टनिष्टलिङ्गताकत्वनिष्ठप्रकार- ताम्यत्वाभावात् किंतु पूर्वोक्तरीत्या आलोकावच्छिन्नलिङ्गताकत्वादिप्रकारसैव तादृशीति तदनिरूपितानुमिति- निष्ठविषयताशालीच्छात्वरूपानुगतधर्मत्य धूमालोकोभयलिङ्गकानुमितिर्जायतामितीच्छायामपि सत्त्वेन ताद- शेच्छावलात् सिद्धधात्मककेवलधूमपरामर्शसत्त्वेऽनुमित्यापत्तेः अतः धूमत्वसमानाधिकरणधर्मे अव्यासज्य- त्तित्वं निवेशितम् । तथाच उभयत्वत्याध्यासज्यवृत्तित्वाभावात् तादृशधर्मविशिष्टीनष्ठलिङ्गताकत्वप्रकारत्वा- स्मकनिरूप्यनिरूपकभावापन्न प्रयोज्यत्वनिष्ठप्रकारत्वसामान्यस्यापि धूमालोकोभयत्वावच्छिन्नलिङ्ग कल्वप्रका. रतायां सत्त्वेन तादृशकिंचिल्लिङ्गकत्वाप्रकारत्वानिरूपितविषयताशालीच्छात्वरूपानुगतधर्मानाक्रान्ततया निरुके. च्छाबलात् सिद्धयात्मककेवलधूमपरामर्शसत्त्वे ताट्यानुमित्यापत्तेरभावात् । नचैवं सति धूमलिङ्गकत्वालोक - लिङ्गकत्वान्यतरविसिमानुमितिआयतामितीच्छाया असंग्रहप्रसङ्गः तादृशेच्छीयाया आलोकलिङ्गक्रत्व प्रकार. - तायाः निरुक्तधूमत्वावच्छिन्नीलगकत्व प्रकार तान्यत्वात् निरुक्तधर्मविशिष्टनिष्ठलिङ्गताकत्वनिष्ठ प्रकारत्वान्यत्वा- च तादृश किंचिलिङ्गकत्वप्रकारत्वानिरूपितानुमितिनिष्टविपचताशालीच्छास्वरूपानुगतधर्माभावादिति वाच्यम् । एकधर्मावच्छिन्नप्रकारताया ऐक्यपक्षे अन्यतरत्वावच्छिन्नाया धूमलिङ्गकत्वालोकलिङ्गकत्वप्रकारताया ऐक्ये. न दोषाभावात् प्रकारभेदेन प्रकारताभेदे तु धूमलिकत्व प्रकारवान्यप्रकारतायाः धूमलिजकत्वावृत्तिधर्माव- च्छिन्नत्वेन विशेषणीयत्वात् अन्यतरत्वावच्छिन्नालोकलिङ्गकत्वप्रकारतायाः धूमलिङ्गकत्वावृत्तिधर्मावच्छि. नत्वाभावेन दोषाभावात्। एवं पर्वतोद्देश्यकत्ववाहविधेयकस्वप्रकारत्वान्यप्रयोज्यत्वावृत्तिस्वरूपसंवन्धावच्छिन्न- प्रकारतानिरूपितत्वेनापि अनुमिति निष्ठविषयत्ता विशेषणीया तेन पर्वते वह्नयनुमिति यतामित्यादीच्छाना. मपि सङ्ग्रहः । धूमलिङ्गकत्व प्रकारकेच्छासङ्ग्रहाय प्रयोज्यत्वावृत्तीति । अनुमितित्वप्रकारकेच्छासङ्ग्रहाय प्रका. रतायां स्वरूपसंबन्धावच्छिन्नत्वनिवेशः । तथाच निरुकधूमत्वावच्छिन्नलिङ्गकत्वप्रकारत्वान्यतादशलिङ्गकत्वा. वृत्तिधर्मावच्छिन्नधूमत्वसमानाधिकरणान्यासज्यवृत्तिधविशिष्टनिष्ठालगताकत्वनिष्ठप्रकारतान्या च या किंचि- लिङ्गकत्वप्रकारता तदनिरूपिता पर्वतोद्देश्यकत्ववह्निविधेयकत्वप्रकारत्वान्यप्रयोज्यत्वावृत्तिस्वरूपसंवन्धावच्छिन्न- प्रकारत्वानिरूपिता च या अनुमितिनिष्टविषयता तच्छालीच्छात्वेन सामान्यरूपेण निरुकेच्छानां सर्वासा योऽभावः तद्वैशिष्टयं अशाब्दज्ञानं जायतामित्यादीच्छानां तु उक्तदोषणानुगमासंभवेन तासां तत्तव्यक्तित्वाव- च्छिन्नाभावकूटवैशिष्टयं च सिद्धौ निवेशनीयमिति विश्वनाथपश्चाननस्य निगूढाभिप्राय इति यादृशयादृशसि- साधयिषेत्यादिग्रन्थपर्यालोवनया प्रतिभाति । स्वतन्त्रास्तु सिद्धयुत्तरानुमितो सिसाधयिषैव पक्षता सिद्धयनुः स्तरानुमितौ च सिद्धयभाव एव पक्षता अनुमितिमात्रे व्याप्तिपक्षधर्मत्वादिकं प्रयोजकमित्याहुः । उपाध्या- यमतानुयायिनस्तु सिसाधयिषासिद्धयभावयोरन्यतरत्वावच्छिन्नं पक्षतेल्याहुः । तदसत् सिसाधयिषायास्स- मवान सिद्धघभावस्य देशिकविशेषणतया हेतुत्वस्य वक्तव्यतथान्यतरत्वावच्छिन्नस्य एकसंबन्धेन हेतुत्वासं. भवात् ॥ विशिष्य वक्तव्येति ॥ पर्वतत्वपर्याप्तावच्छेदकतानिरूपितविशेष्यत्तानिरूपितवाहित्वपर्याप्ताव. दिनकरीयम्. छाव्य फेरनुत्तेजकवादिति भावः । इदं तु बोध्यं पर्वते वलयनुमिति यतामित्याउनुगतेच्छानां पर्वतत्वा. बच्छिन्नोद्देश्यकत्व प्रकारतानिरूपितवाहविधेयकत्व प्रकारताशाल्यनुमितिगोचरेच्छारवेनानुगतरूपेणैवोत्तेजकत्वं । रामरुद्रीयम् सोत्यभिप्रायः॥ तदिच्छाव्यक्तरिति ॥ धूमपरामर्शकालीनाया आलोकेन वह्निमनुमिनुयामितीच्छाध्यकरि- सर्थः ॥ अनुत्तेजकत्वादिति । पर्वतत्वावच्छिन्नोद्देश्यकवह्नित्वावच्छिन्नविधेयकधूमत्वावच्छिन्नलिङ्गका- सुमितिप्रतिबन्धकताया अनुत्तेजकत्वादित्यर्थः ताशप्रतिबन्धकतानिरूपितावच्छेदकतावदभावाप्रतियोगित्वा- दिति यावत् ॥ अनुमितिगोचरेच्छात्वेनेति ॥ अनुमितित्वावच्छिन्नविधेयकेत्युको पर्वतोद्देश्यकवहि-