पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ५०३ दिनकरीयम् . प्रत्यक्षातिरिक्तं ज्ञानं जायतामित्यायननुगतच्छानां तु तत्तद्वयक्तित्वेन न तु सकलेच्छानां तत्तद्वयक्तित्वेन गौरवादिति सिषाधयिषाकाले पर्वतो वह्निमानिति सिद्धिसत्त्वेऽपि पर्वतो वहिमानियनुमित्युत्पत्तेस्तादृशास. रामरुद्रीयम्. विधेयकज्ञान में जायतामित्यादीच्छानामसंग्रहापत्तिरिति तत्परित्यागः । नचैतादृशेच्छाया उत्तेजकत्वे सि. द्धिसत्वे पर्वतोदेश्यकवहिविधेयकप्रत्यक्षादिसामग्रीकालेऽपि तादृशेच्छाबलात्तादृशानुमित्यापत्तिरिति वाच्यम् । प्रत्यक्ष उद्देश्यस्वविधेयत्वयोरप्रमाणकत्वात् । न चैवमनुमितिगोचरत्वनिवेशोऽपि व्यर्थः तादृशेच्छाया अनुमि- तिमानविषयकत्वादेति वाच्यम् । पर्वतोद्देश्यकवह्निविधेयकप्रत्यक्षं जायतामिति विसंवादीच्छावलादनुमि- त्यापत्ति वारणाय तदावश्यकत्वात् । न चैवं शाब्दबोधेऽप्युद्देश्यकत्वविधेयकत्वयोरङ्गीकारात्तादृशेच्छावलात्ता- दृशशाब्दसामग्रीसत्त्वेऽपि सिद्धिसत्वे अनुमित्यापसिरिति वाच्यम् । पर्वतो वह्निमानिति शाब्दबोधे पर्वते वहिमत एव तादात्म्येन प्रकारतया पर्वतत्वावच्छिन्नोद्देश्यतानिरूपितवालवावच्छिन्नविधेयतायास्तत्रासत्त्वा- तू तादृशवाहविधेयताकत्वप्रकारताशाल्यनुमितिविषयकेच्छात्वेनैवोत्तेजकतायाः स्वीकरणीयत्वात् । अथैवम- पि पर्वते वाहिमतस्तादात्म्येन साध्यतायां पर्वते वह्निमद्विधेयकशाब्दसामनोदशायां सिद्धिसत्त्वेऽपि पर्वतत्वाव. च्छिन्नोद्देश्यतानिरूपितवहिमत्त्वावच्छिन्नविधे यताशालिज्ञानं जायतामितीच्छाबलापर्वतोद्देश्यकवह्निविधेयका- नुमित्यापत्तेरिति चेन्न । शाब्दबोधेऽप्युद्देश्यताविधेयतयोरुपगमे एतादृशेच्छानामपि वह्निविधेयकानुमिति- स्थले तत्तयक्तित्वेनैवोत्तेजकतायाः स्वीकरणीयत्वाल्लघूपायसम्भवस्थले एव गौरवस्य स्वीकर्तुमनुचितत्वात् । वस्तुतस्तु शाब्दबोधे विधेयत्वादिकमप्रामाणिकमेव अनुमितावेव तदङ्गीकार आवश्यकः अन्यथा पर्वतो त. हिमानित्यनुभितितात्पर्येण पर्वतमनुमिनामीत्यादिप्रयोगापत्तेरनुमितेर्विधेयत्वादिमत्त्वेऽन्यत्र द्वितीयाया विष- यित्वार्थकत्वेऽप्यनुमित्यर्थकधातुसमभिव्याहारे विधेयत्वस्य द्वितीयार्थतामुद्देश्यत्वस्य सप्तम्यर्थतामुपगम्य ता. दृशप्रयोगवारणसम्भवात् । न च प्रकारित्वमेव तत्र द्वितीयार्थोऽस्तु तावतापि पर्वतमनुमिनोमीति प्रयोग- वारणसम्भवादिति वाच्यम् । तथापि पर्वतत्वमनुमिनोमीत्यादिप्रतीत्यापत्तेः अत एवोक्त गदाधरभट्टाचार्य- रनुमित्यर्थकधातुयोगे विधेयत्वं विधेयित्वं वा द्वितीयार्थ इति शाददार्थकधातुयोगे तु विषयित्वस्य द्वितीया- र्थत्वेऽपि न क्षतिः पर्वतं शृणोमीति प्रयोग इष्टापत्तेसप्तम्यास्तु अनुमित्यर्थकधातुभिन्नधातुयोगे सर्वत्र वि- शेष्यत्वमेवार्थः । यदि चैवं सति पर्वते पर्वत शृणोमीति प्रयोगापत्तिः पर्वतविशेष्यकशाब्दस्यापि पर्वतवि- षयकत्वादिति विभाव्यते तदा सप्तम्यन्तपदसमभिव्याहारस्थले तादात्म्यातिरिक्तसम्बन्धावच्छिन्नप्रकारितैव द्वितायार्थोऽस्तु अतिरिक्तान्तोपादानात्पर्वते वह्निमन्तं शृणोमीति न प्रयोग इति ध्येयम् । अथैवमपि धूमपरा- मर्शमात्रदशायां पर्वतोद्देश्यतानिरूपितवह्निविधेयताकालोकलिङ्ग कानुमितिर्जायतामितीच्छाबलामलिङ्गक- वयनुमित्यापत्तिः तादृशेच्छाया अपि तादृशसाध्यविधेयकत्वप्रकारकत्वादनुमितिविषयकत्वाञ्च किञ्चिलिकत्वाप्रकारकत्वमपीच्छाविशेषणं देयमतो न तादृशेच्छावलादुकानुमित्यापत्ति. रिति वाच्यम् । तथासति तादृशवह्निविधेयताकघूमलिङ्ग कानुमितिर्जाय तामितीच्छासत्त्वेऽपि धूम- लिङ्गकवयनुमितिर्न स्यात् । नच तद्धर्मावच्छिन्नलिङ्गकानुमितौ तदन्यधर्मावच्छिन्नलिङ्गकत्वाप्रका- रिकवेच्छोत्तेजिका वाच्येति धूमलिङ्गकरवप्रकारकेच्छायास्सङ्ग्रहो भिन्नलिङ्गकरवप्रकारकेच्छाया वारणञ्च सम्भवतीति वाच्यम् । एवमपि तादृशवह्निविधेयताका धूमलिङ्गकानुमितिरालोकलिङ्ग कानुमितिश्च जाय तामि- तीच्छाबलाद्भूमलिङ्गकानुमितेरशक्योपपादनत्वादिति चेत् मैवं तद्धर्मावच्छिन्नलिङ्गकानुमितौ निरुक्तव- हिविधेयकत्वप्रकारतानिरूपिता तद्धर्मान्यधर्मावच्छिन्नालिजकत्वप्रकारकत्वानिरूपितानुमिति निष्ठविशेष्यताशा- लीच्छात्वेनैवोत्तेजकत्वस्योपगन्तव्यत्वात् । उक्तसमूहालम्बनेच्छायां त्वनुमितौ विशेष्यत्ताद्वयमेका धूमालिश- कत्वप्रकारतानिरूपिता अपरा चालोकलिङ्गकत्वप्रकारतानिरूपिता समूहालम्बने प्रकारताभेदेनैव विशेष्यता भेदादन्यथा वृक्षः कपि संयोगवान्तदभाववांश्चेति समुच्चयस्य वृक्षः कपिसंयोगी न वेति संशयस्य च भेदो न स्यादेवधर्मावच्छिन्नावशेष्यकसमूहालम्बनेऽपि प्रकारताभेदेन विशेष्यताभेदः संशये चोभयप्रकारतानिरूपि- 1 न