पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०८ कारिकावला [ अनुमानखण्ड स्यानुमितिविरोधित्वं तत्त्वम् । तथाहि व्यभिचारादिविषयकत्वेन ज्ञानस्यानुमितिविरोधित्वात्ते प्रभा तथा दोषवत्त्वरूपासत्त्वेन हेतेोनिरूपणेन तेन रूपेण हेतुज्ञाने जाते परेण तादृशास तुप्रयोगे कृते त्वया असद्धेतुः प्रयुक्त इत्युक्त्या सभायां तादृशासद्धत्वप्रयोगेन वा विजयसंभवात् विजयलक्षणैककार्यकारित्वं हेतोरक्षतम् । एवं व्याप्तिपक्षधर्मत्वरूपसत्त्वदोषवत्वरूपासत्वयोरपि विजयलक्षणैककार्यकारित्वं ज्ञेयम् । तथान तादृशसङ्ग- त्या सद्धेतुनिरूपणानन्तरं असद्धेतुं निरूपयनि तादृशसङ्गत्या व्याप्तिपक्षधर्मतानिरूपणानन्तरं हेतुदोषानि- रूपयतीति मतभेदेनाओं ज्ञेयः । हेतुबदाभासन्त इति व्युत्पत्त्या हेतोराभासा इति व्युत्पत्त्या च हेत्वाभासशब्देन दुष्टहेतूनां हेतुदोषाणां च लाभादिति भावः । केचित्तु ननु मूले हेत्वाभाससामान्यलक्षणस्याकथनान्न्यूनत्वपरि. हाराय स्वयं लक्षणमाह तल्लक्षणं स्वित्यवतरणिकामाहुः तदसत् विभागवाक्यादेव तावदन्यतमत्वरूपदोषलक्ष. णस्य तद्वत्त्वरूपदुष्टलक्षणस्य चोपस्थितत्वात् तथापि शिष्यबुद्धिवेशद्याय मणिकारोक्तं सामान्यलक्षणमेव स्वयमाह ॥ तल्लक्षणं त्विति ॥ मणिकारोक्तहेतुदोषसामान्यलक्षणं त्वित्यर्थः । दोषलक्षणोक्त्या दोषवत्व रूपदुष्टलक्षणस्याप्युक्तप्रायस्वादित्याशयः ॥ यद्विषयकत्वेनेत्यत्र तृतीयार्थोऽवच्छिन्नत्वं तस्यानुमितिविरोधित्वेs. न्वयः । ज्ञानस्येत्यत्र षष्ठवर्थो वर्तमानत्वं तस्य च यद्विषयकत्वेऽन्वयः । अनुमितिविरोधित्वमनुमितिनिछप्र तिभ्यतानिरूपित्तप्रतिबन्धकत्वम् । तथाच ज्ञाननिष्ठयविषयकत्वावच्छिन्नमनुमितिनिष्टप्रतिबध्यतानिरूपितप्र. तिवन्धकत्वं हेत्वाभाससामान्यलक्षणम् । दोपसामान्ये लक्षणमुपपादयति ॥ तथाहीत्यादि ॥ व्यभिः चारादिविषयकत्वेन ज्ञानस्येति ॥ ज्ञाननिष्ठव्याभिचारादिविषयकत्वेनेत्यर्थः । तथाच साध्यतावच्छेद- दिनकरीयम्. हेत्वाभासलक्षणं वित्यर्थः । लक्ष्ये लक्षणं ग्राह्यति ॥ तथा हीति । ते व्यभिचारादयः । ननु यद्वि- षयकत्वेनेत्यत्र तृतीयाथांऽवच्छेदकत्वं तथा च वहिमान् धूमादित्यत्र बढ्यभावेऽतिव्याप्तिः पर्वतविशेष्यक- वह्वयभावप्रकारकनिर्णयत्वेन वयनामति प्रति प्रतिबन्धकलेन वह्नयभावविषयकत्वस्य प्रतिबन्धकतावच्छे. दककोटिप्रविष्टत्वात् । न च खरूपसम्बन्धरूपावच्छेदकतापर्याप्त्याधिकरणत्वमनतिरिक्तवृत्तित्वं वावच्छेदक- वं तृतीयार्थः वयभावविषयकत्वस्यावच्छेदककोटिप्रविष्टत्वेऽप्यवच्छेदकत्तापर्याप्त्यनधिकरणस्वादतिरिक्त- वृत्तित्वाच नातिव्याप्तिरिति वाच्यम् । पर्याप्तिनिवेशेऽसम्भवापत्तेः अप्रामाण्यज्ञानानास्कन्दितत्वस्याधिकस्य प्रतिबन्धकतावच्छेदककोटिप्रविष्टत्वात् अनतिरिकवृत्तित्वरूपावच्छेदकत्वनिवेशे टूदो वहिमान् धूमादित्या. रामरुद्रीयम्. प्यजिज्ञासाया एव प्रयोजकत्यादिति भावः ॥ हत्वाभासलक्षण स्विति ॥ हेतोराभासा दोषा इति व्यु. त्पत्या हेतुदोषलक्षणन्त्वित्यर्थः। यद्यपि दुष्टहेतूनामेव विभजनातू दुष्टहेतुलक्षणमेव वक्तव्यं तथापि दोषज्ञाने जा. ते दोषवत्त्वरूपदुष्टलक्षणस्य ज्ञातुं शक्यत्वाददोषः । एवञ्च मूले हेत्वाभासानिति पद हेतुवदाभासन्त इति व्युत्पत्त्या दुष्टहेतुपरमेवेति मन्तव्यम् ।। वह्नयभावेऽतिव्याप्तिरिति ।तथा च सद्धेतोरपि दुष्टतापत्तेरिति भावः ॥ न चे. ति॥ नन्ववच्छेदकतापर्याप्तिनिवेशे वह्नधभावदादवसंभव एव वह्नयभाववादविषयकत्वेऽप्यवच्छेदकता- पर्याप्तिविरहादप्रामाण्यवानानास्कन्दितत्वानाहार्यनिश्चयत्वान्तर्भावेनैवावच्छेदकतापर्याप्तः। न चैतत्रितयस. हित यद्विषयकत्वे प्रतिबन्ध कतावच्छेदकतापर्याप्तिस्तत्त्वमिति विवक्षणान्न दोष इति वाच्यम् । विशिष्टविषयक- त्वेन प्रतिवन्धकत्वे वाहिलादिना गुनायवगाहिन्नमाणां प्रतिवन्धकत्वानुपपत्त्या निरूप्यनिरूपकभावापन्नवि- पयिताशालिनिश्चयत्वेनैव प्रतिबन्धकताया वक्तव्यतया विशिष्टविषयकस्वादिसमुदायत्वस्य न्यूनवृत्तितया प- प्लिनवच्छेदकत्वान्न च प्रमात्मक ज्ञानायनिरूप्यनिरूपकभानापन्नविषयितैव विशिष्टविषयितेति निरूप्यनि- रूपकभावापन्नविथितात्वेन विशिष्टविषयितानां प्रतिवन्धकतावच्छेदकतापर्याप्तिरक्षतैवेति वाच्यम् । प्रत्ये- कावृत्तेसमुदायावृत्तिनियमनैकदेशातिव्याप्तिवारणाय पर्याप्त्यवच्छेदकतापर्यन्तनिवेशस्यावश्यकता याश- विशिष्टविषयितायामवच्छेदकतापर्याप्तेः कश्चिदप्यसम्भवादत आह ॥ अनतिरिकवृत्तित्वं वेति ॥ प्र. तिबन्धकतारन्याक्तित्वमेव प्रतिबन्धकतावच्छेदकत्व तथा च वइयभाषप्रकारकत्वादेरप्रतिबन्धकनिर्धर्मिता.