पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुकावली-प्रभा-दिनकरीय-रामद्रीयसमन्विता । ५१३ 1 अन्यथा बाघस्याप्यनित्यदोषत्वापत्तेः । तस्मात्तख वह्नयभावव्याप्यपाषाणमयत्ववानिति पराम- शंकाले वहिव्याप्यधूमस्य नाभासत्वं भ्रमादनुमितिप्रतिबन्धमानं हेतुस्तु न दुष्टः इत्थं च प्रभा. भन्यथा ॥ निश्वयघटितसत्प्रतिपक्षदोषमझीकृत्य सद्धेतोस्सत्प्रतिपक्षत्वे ॥ बाधस्यापीति ॥ साध्याभाववत्त्वेन गृह्यमाणपक्षतावच्छेदकावच्छिन्नस्यापीत्यर्थः ॥ अनित्यदोषत्वापत्तेरिति ॥ तार- शनिश्चयकाले दोषत्वापत्तरित्यर्थः । नचेष्टापत्तिः तत्काले हेतोः बाधितत्वापत्तेरित्यर्थः । नन्वनतिरिकवृत्ति- स्वरूपावच्छेदकत्वस्य लक्षणघटकत्वे व्यभिचारादावथ्याप्तिः प्रतिबन्धक ताशून्ये धूमाभाषद्वृत्तित्वमिति ज्ञा- नेऽपि व्यभिचारविषयकत्वस्य सत्त्वादत आह ॥ इत्थंचेति ॥ पारिभाषिकावच्छेदकत्वस्य लक्षणघटकत्वे दिनकरीयम्. पत्तेरिति ॥ तथा च सद्धेतूनां प्रतिपरामर्शेऽपि न दुष्टत्वमिति भावः ॥ अन्यथा प्रतिबन्धकीभूतश्चमवि- षयस्यापि दोषत्वे ॥ अनित्यदोषत्वापत्तेरिति ॥ पक्षे साध्यागावभ्रमदशायां राद्धेतावपि दोपवत्त्वाप- तेरिलार्थः॥ इत्थं च पाशविशिष्टविषयकत्वेन ज्ञानस्य प्रतिबन्धकत्वं ताशचिशिष्टय दोषवत्त्वे च । हेत्वादिकमित्यादिना साध्याभावविशिष्टपक्षपरिग्रहः । गाशविशिष्टपदेन ब्यभिचारत्वादिविशिष्टं व्यभिचारा-- दिकमादाय लक्षणं न सम्भवति व्यभिचारविषयकत्वस्य प्रतिबन्धकतान्ये व्यभिचार इति ज्ञाने वृत्तित्वे- नातिरिकवृत्तित्वात् किं तु व्यभिचारादिविशिष्टं हेत्वादिकमादायैवेति व्यभिचारादिविशिष्टं देवादिकमेव दोष इति भावः । ननु व्यभिचारादिविशिष्टस्य हेतोदोषत्वे तहत्वस्य हेतावभावाद्धेतो दुत्वव्यवहारो न स्यात् । न च तादात्म्येन तस्वं विवक्षणीयमिति वाच्यम् । तथा सति वह्नयभावविशिष्टहदादे: तादा. रामद्रीयम. व्याप्तिवारणाय प्रकृतानुमितिप्रतिबन्धकतानवच्छेदककिञ्चिदवच्छिन्नविषयिताशून्यत्वेन तादृशनिश्चयो विशे- षणीयः उक्तविशिष्टविषयकनिश्चयश्च तथाविधाधेयतात्वावच्छिन्नविषयिताशात्येवेति न तत्रातिव्याप्तिः हुदो वह्नयभाववानिति निश्चयस्यापि तथाविध दत्वप्रकारतानिरूपितनिरवच्छिन्नविशेष्यताशालिस्वादुक्तं किश्चिदव. च्छिन्नेति । यद्यप्येवंसति एकदेशातिव्याप्तिरेकदेशविषयकस्यापि ह्रदो वयभाववानिति निश्चयस्यैव तथा- स्वात्तथापि निश्चये यद्रूपावच्छिन्नविषयित्वाघटकविषयिताशून्यत्वमपि निवेश्य सापि निरसनीया एकदेशवि- षयकतादृशनिश्चयस्याप्रासद्धेः तादृशविषयितासमानाधिकरणभेदप्रतियोगितावच्छेदकत्वमेव तदघटकमिति ध्येयम् । इत्थंच जातिमान् वयभाववानिति ज्ञानवारणायोक्तगुरुतरविशेषणमपि न देयमेवेति तदीयविषयि- तायाः प्रतिबन्धकतानवच्छेदकत्वादेव तद्वारणसम्मवादेवंच अन्धकृल्लेखनस्वरसाद्यद्रूपपदेन वहयभावहदत्वोभ- मोपादानेऽपि न क्षतिः उक्काप्रनिबन्धकज्ञानयोरेतद्विशेषणेनैव वारणात् । एवं प्रमेयत्वादिविशिष्टव्यभिचारा- दावतिव्याप्तिस्तद्वारणाय तादृशविशिष्टान्तराधटितत्वनिवेशोऽपि नोपादेय एवेति महालाघवम् । अथैवं स्वरू- पसम्बन्धरूपावच्छेदकत्वानिवेशेऽपि क्षत्यभावादनतिरिकवृत्तित्वनिवेशनमफलमिति चेत्परित्यज्यतां तदपि ता. वताप्यनाहार्यत्वादिविशेषणानिवेशेन लाघवातिशयस्यैव सम्पत्तेरिति । चतुत उत्कविशिष्टेऽतिव्याप्तिवारणाय स्वातन्त्र्येणैव प्रतिबन्धकतानवच्छेदकाकञ्चिदवच्छिन्नविषयताशून्यज्ञानविषयत्वरूपं विशेषणमुपादेयम् । एकदे- शादावत्तिव्याप्तिवारणायाव्यापकावेषयिताशून्यत्वादिविशेषितनिश्चयवृत्तियमावच्छिन्नविषयत्वमित्यादिविशे. ध्यदलमित्यत्रैव अन्धकृत्तात्पर्यमिति दिक् । केचित्तूक्तविशिष्टेऽतिव्याप्तिवारणाय यादृशविशिष्टविषयकनिश्चयवि- शिष्टयाशविशिष्टविषयकनिश्चयत्वमनुमितिप्रतिबन्धकतानतिरिक्तवृत्तिज्ञानवैशिष्टयानवच्छिन्न प्रतिवन्धकतान- वच्छेदकताशविशिष्टविषयिताद्वय शुन्यप्रतीतिविषयत्वेन तादृशविशिष्टो विशेषणीयः विशिष्टद्वयाविषयिता. यो ज्ञानवैशिष्टयानवच्छिन्न प्रतिबन्धकतानवच्छेदकत्वविशेषणात् वयभावविषयकनिश्चयविशिष्टवयभाववद्ध- दविषयकनिश्चयत्वस्यानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्वेऽपि न वह्नयभावनदादावसम्भवप्रसङ्ग इत्याहुः ।। व्याभिचारत्वादिविशिष्टमिति ॥ वह्निधूमस्य व्यभिचारी पक्षे साध्यस्य बाध इत्यादिव्यवहारात सा. माभावबत्तित्वस्य व्यभिचारपदार्थत्वेन साध्याभावस्यैव बाधपदार्थत्वेन प्रसिद्धतया साध्याभाववद्वृत्तित्व. 65 - -