पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावलो-प्रभा-दिनकरीय-रामहद्रीयसमन्विता । रज्ञानादेरकिञ्चित्करत्वादावस्यानुमितिप्रतिबन्धकत्वं वाच्यम् । एवं यत्रोत्पत्तिक्षणावच्छिन्ने घटादौ गन्धव्याप्यपृथिवीत्ववत्ताज्ञानं तत्र बाधायैव प्रतिबन्धकत्वं वाच्यम् । नव प. क्षे घटे गन्धसत्वात् कथं बाथ इति वाच्यम् । पक्षतावच्छेदकदेशकालावच्छेदनानुनि- तेरनुभवसिद्धत्वादिति । बाधाद्वयाप्यभिन्ना ये हेत्वाभासास्तद्वयाप्या अपि तन्मध्य एवान्त- भवन्ति अन्यथा हेत्वाभासाधिक्यप्रसङ्गात् । बाधव्याप्यसत्प्रतिपक्षो भिन्न एव स्वतन्त्रेच्छेन मुनिना पृथगुपदेशात् सत्प्रतिपक्षव्याप्यस्तु न प्रतिबन्धक इति प्रघट्टकार्थः ॥ ७१ ॥७२॥ प्रभा. चोपपादनीयमिति भावः । वस्तुतो बाधस्थले व्यभिचारस्वरूपासिद्धयन्यतरनियमोऽपि स्थलाविशेषे नास्तीत्याह ।। एवमिति ॥ बाधस्यैवेति ॥ तथाच हेतोस्साध्यवदन्यवृत्तित्वाभावात् पटावृत्तित्वाभावाच्च न व्यभिचारस्वरूपासिद्धयोस्सत्त्वमिति भावः ॥ अन्यथेति ॥ व्यभिचारादिव्याप्यानामपि व्यभिचारायन. न्तर्गतत्व इत्यर्थः ॥ आधिक्यप्रसङ्गादिति ॥ तथाच ते च पञ्चेति भाष्यविरोधापत्त्या इष्टापत्तेवक्तुमश. क्यत्वादिति भावः ॥ न प्रतिबन्धक इति ॥ साध्याभावव्याप्यवपक्षस्यैव सत्प्रतिपक्षतया तव्याप्य वत्ता ज्ञानस्य साध्यानुमितिप्रतिबन्धकत्वे मानाभावादिति भावः ॥ १॥ ७२ ।। दिनकरीयम्. पि व्याप्तिनिश्चये सत्यपि भविष्यतीत्यत आह ॥ किञ्चति ॥ अकिञ्चित्करत्वादिति ॥ व्यभिचारज्ञान ह्यनुमिता न साक्षात्प्रतिबन्धकं किन्तु परामर्शप्रतिबन्धद्वारा तथा च परामर्शात्तरकालीन व्यभिचारज्ञानम- किञ्चित्करमिति तत्र बाधबुद्धिरेव प्रतिबन्धिकेत्ति भावः । व्यभिचाराद्यसङ्कीर्णमपि बाधं प्रदर्शयति । एव. मित्यादिना ॥ बाधस्यैवति ॥ तत्र पक्षे हेतुसत्त्वान्न स्वरूपासिद्धिः प्रतियोगिव्यधिकरणसाध्याभावव- द्वृत्तित्वरूपस्य व्यभिचारस्य चाभावादिति भावः । बाधतद्वयाप्यमिना ये हेत्वाभासास्तद्वयाप्या अपि तन्म. ध्य एवान्तर्भवन्तीति पाठः । बाधः साध्याभावविशिष्टपक्षादिस्तद्वयाप्यस्सत्प्रतिपक्षस्ताना व्यभिचारविरु- द्वासिद्धास्तद्वयाप्यानां तत्रैवान्तर्भाव इत्यर्थः । व्यभिचारादेरिव व्यभिचारादिव्याप्यस्यापि व्याप्तिमप्रति- बन्धकज्ञानविषयत्वेन पञ्चहेत्वाभासानन्तर्गतत्वे तस्यातिरिक्त हेत्वाभासत्वं स्यादित्यर्थः ॥न प्रतिबन्धक इति ॥ साध्याभावव्याप्यव्याप्यवत्ताज्ञानस्य साध्यवत्ताज्ञानविरोधित्वे मानाभावादिति भावः ॥ ७२ ॥ रामरुद्रीयम् . कधर्मिकपरामर्शोत्तरमपि तद्धर्मिकलौकिकबाधवुद्धेरपि तदुत्तरमपि वहियमिकधूमाभाववढ्योगोलकवृत्तित्वक- पव्यभिचारविषयकलौकिक प्रत्यक्षं भविष्यतीत्यर्थस्तथा च बाधयुद्धेयभिचारविषयकत्वमुपपद्यत एवेति भा- वः॥ तत्रेति ॥ अनुमितावित्यर्थः । ननु स्वरूपासिद्धयभावेऽपि व्यभिचारोऽस्त्येवोत्पत्तिक्षणावच्छेदेन ग- न्धाभाववति घटे पृथिवीत्वस्य सत्यादित्यत आह ॥ प्रतियोगिव्यधिकरणेति ॥ व्यभिचारघटकसा. ध्याभावे प्रतियोगिवैयधिकरण्यस्याप्रवेशे कपिसंयोग्येतद्वृक्षत्वादित्यादिसद्धेतोरपि व्यभिचारित्वापत्तिरिति भावः । अथोक्त सद्धेतोबाधितत्वापत्तिवारणाय प्रतियोगिव्यधिकरणसाध्याभाववत्पक्षादिरेव बावत्वेनाशीकर- णीयः एवमुक्तहेतोस्सत्प्रतिपक्षितत्ववारणाय प्रतियोगिव्यधिकरणसाध्याभावव्याप्यवत्पक्षस्यैव सत्प्रतिपक्षत्वम- प्यङ्गीकरणीयम् । यत्तु साध्यस्य प्रतियोगियधिकरण्यघटितसाध्याभावव्याप्तिमता विरोधाभावेन सत्प्रतिपक्षमह- स्म साध्यमहाविरोधित्वात्प्रतियोगिवैयधिकरण्याघाटितव्याविघटित एन सत्प्रतिपक्षोशीक्रियत इति नोफसद्धेतोः साध्याभावव्याप्यवत्पक्षत्वमिति तन तथासति प्रतियोगिवैयधिकरण्याघटिततदभावव्याप्यवत्ताज्ञानस्यैव स- बत्र तद्वत्तायुद्धिप्रतिबन्धकत्वमित्यायातं तथा च पूर्वं अन्धकारोक्तस्यानुमितिकारणपरामर्शस्य साध्यसंशयप्र. तिवन्धकत्वस्थानुपपत्तेः अनुमितिकारणपरामर्श प्रतियोगिवैयधिकरण्यघटितव्याप्तरेव विषयत्वात् तस्मा- स्प्रतियोगिवैयधिकरण्यघटितध्याप्तिंघटितस्यापि साध्याभावव्याप्यस्य साध्यविरोधित्वसंभवेन तस्यैव सत्प्रति- पक्षत्वमुचितम् । एवं चोत्पत्तिक्षयावच्छिन्नघटे यत गन्धस्साध्यते न तत्र बाधः सम्भवति गन्धाभावस्य पटे