पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [ अनुमानखण्डम --- यः सपक्षे विपक्षे च भवेत्साधारणस्तु सः । यस्तूभयस्मायावृत्तः स त्वसाधारणो मंतः ॥ ७३ ।। यः सपक्ष इति ।। सपक्षविपक्षवृत्तिः साधारण इत्यर्थः । सपक्षो निश्चितसाध्यवान् । विपक्षः साध्यवद्भिन्नः । विरुद्धवारणाय सपक्षवृत्तित्वमुक्तम् । वस्तुतो विपक्षवृत्तित्वमेव वाच्य वि- रुद्धस्य साधारणत्वेऽपि दूपकताबीजस्य मिन्नतया तस्य पार्थक्यात् ॥ यस्तूभयस्मादि- ति ॥ सपक्षविपक्षव्यावृत्त इत्यर्थः । सपक्षः साध्यवत्तया निश्चितः । विपक्षः साध्यशून्य. तया निश्चितः । शब्दोऽनित्यः शब्दत्वादित्यादौ यदा शब्देऽनित्यत्वस्य सन्देहस्तदा सपक्षत्वं विपक्षत्वं च घटादीनामेव तद्वयावृत्तं च शब्दत्वमिति तदा तदसाधारणम् । यदातु शब्दे- ऽनित्यत्वानिश्चयस्तदा नासाधारणं इदं तु प्राचीनमते । नवीनमतं तु पूर्वमुक्तम् ।। ७३ ॥ तथैवानुपसंहारी केवलान्वयिपक्षकः । यः साध्यवति नैचास्ति स विरुद्ध उदाहतः ।। ७४ ।। केवलान्वयीति ॥ सर्वमभिधेयं प्रमेयत्वादित्यादी सर्वस्यैव पक्षत्वान् सामानाधिकरण्यग्र- । . दूधकताबीजस्येति ॥ अव्यभिचार ज्ञान प्रतिबन्धसामानाधिकरण्यप्रहप्रतिवन्धरूपदूपकतावीजस्येत्य- थः । निश्चयटित सपक्षत्वपिपक्षत्वनिवेशप्रयोजनमुदाहरणं च दर्शयति ॥ शब्दोऽनित्य इत्यादिना ॥ इ. दं निश्चयघटितासाधारण्यलक्षणं । प्राचीनमत इति ॥ साधारणस्यानित्यदोषत्ववादिप्राचीनमता. नुसारेणेत्यर्थः । उक्तमिति ॥ असाधारण साध्यासमानाधिकरण इति ग्रन्थेनोक्तमित्यर्थः ॥ ७३ ॥ दिनकरीयम् दूपकतावीजस्य भिन्नतयेति । साधारणस्याव्यभिचारज्ञाने विरुद्धस्य सामानाधिकरण्यग्रहे प्रति वन्धकवादिति भावः । असाधारण्यघट सपक्षत्वं निश्चयगर्भ न तु साध्यक्त्वमातमित्याह ॥ सपक्ष इ. ति ॥ एवमग्रेऽपि । सपक्षत्वविपक्षत्व योनिश्चयत्वनिवेशस्य फलमाह ॥ शब्द इत्यादिना ॥ पूर्वमुक्तभि- ति ॥ असाधारणः साध्यापमानाधिकरणों हेतुरित्यादिनाकामित्यर्थः ।। ७३ ॥ केवलान्यायपक्षक इति । अल पक्षता साध्य संशयरूपा गृह्यते तेन सर्वमाभिधेयं प्रमेयत्वादित्या. दौ यदा सिद्धिः सिधाधयिषा च तदा साध्यनिश्चयसम्भवेन सामानाधिकरण्यघटितव्याप्तिग्रहसम्भवात्तस्य रामरुद्रीयम्. प्रतियोगिसमानाधिकरणत्वादिति । भवम् । यत्र देशकालयो: स्वरूपसम्बन्धरूपपक्षतावच्छेदकत्वं तत्र त. दद्यच्छेदेन साध्याभाववत्वस्यापि बाधत्वामीकारादिति ध्येयम् । अन्न न सत्प्रतिपक्षोऽपि प्रतियोगिळ्यधिकर- रणगन्धाभावव्याप्यस्य घटेऽसम्भवादत एवासीर्णवाधोदाहरथामिदम् । अन्यथा सत्प्रतिपक्षसङ्कीर्णत्वेन बा. धस्य हेत्वाभासान्तरतानापि न स्यात् (अन्यथे। ) सत्प्रतिपक्षस्य बाघव्याप्यत्वं नानुपपन्नं व्यापकस्याधिक- देशत्तित्वे क्षतिविरहात् । न च गन्धाभावस्य केवलस्य संयोगाभाववत्केवलान्यथितया प्रतियोगिवैयधिक- रण्यघटितव्याप्तिघटितगन्धाभावव्याप्यरत्यस्यानापि सम्भवेतस्यापि सत्प्रतिपक्षसङ्कीर्णतवेति वाच्यम् । एतादृशस्य सत्प्ततिपक्षवा कारे घटो गन्धवान् पृथिवीत्वादित्यादिसद्धेतोरपि दुष्टत्वापत्तिरियलं पल्लवितेन ॥ इति पाठ इति ॥ कचित्पुस्तके तत्पदरहितस्य पाठस्य दर्शनादेतदभिहितम् ॥ ७१ ॥७२॥ अपि विप- क्षवनिर्वचनेऽपि । साध्याभाववन्मात्रं न विपक्ष इत्येतलाभायैव निश्चितत्वाँशनिवेश इति भावः ॥ गृहत इति ॥ नतु सिषाधयिषाविरहविशिष्टसिद्धशभाव रूपेति शेषः । साध्यनिश्चयेत्यादि सम्भवादित्यन्तं सद्धेतुत्वे