पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रमा-दिनकरीय-रामरुद्रीयसमान्विता । ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् । सादृश्यधीर्गवादीनां या स्यात् सा करणं मतम् ॥ ७९ ॥ वाक्यार्थस्यातिदेशस्य स्मृतियापार उच्यते । गवयादिपदानां तु शक्तिधीरुपमाफलम् ॥ ८० ॥ उपमिति व्युत्पादयति ॥ ग्रामीणस्येति ॥ यत्रारण्यकेन केनचिद्वामीगायोक्तं गोसदृशो गवयपद्वाच्य इति पश्चाद्वामीणेन कचिदरण्यादौ गवयो दृष्टः तत्र गोसादृश्यदर्शन प्रभा. स्वात् तस्य व्याप्यतावच्छेदकत्वोपपत्तिः । यद्यपि धूमत्वविशिष्टनीलधूमत्वस्य धूमवभिन्नत्वमस्त्येव तथापि तस्य नालवधूमत्वोभयात्मकतया तत्र धूमवभिन्नत्वाभावादिति परन्तु स्वसमानाधिकरणत्वस्य स्वाभिन्न- त्वव्यापकतया धूमत्वं स्वसामानाधिकरण्यरूपव्यापकत्वस्याभावात् व्याप्यभूतस्वाभिनवस्याप्यभाव इति स्फुटीकरणाय स्वसमानाधिकरणत्वं धर्मान्तरे निवेशनीयमिति प्रतिभाति । एतेनोक्तनियमे पारिभाषिकं त. द्वटितत्वं निवेश्य धूमप्रागभावत्वसमूहाय धर्मान्तरे स्वसमानाधिकरणत्वनिवेश प्रक्षालनादीति न्यायम- स्तमिति दूषणमास्तम् । विरुद्धयोः परामर्श इति मूलस्य विरुद्धौ यो साध्यतदभावौ तत्साधकयोहेत्वो परा. मर्शकाले सत्प्रतिपक्षतेत्यभिप्रायेण विरुद्धत्वविशेषणप्रयोजनमाह ॥ कपिसंयोगेत्यादि । विरुद्धयोरि-- तीति ॥ विरुद्धत्येन गृह्यमाणयोरित्यर्थः । तेनाविरुद्धयोस्साध्यतदभावयोरपि विरुद्धत्वज्ञानकाले उभयच्या. प्यवत्तापरामर्शसत्त्वे सत्प्रतिपक्षत्वोपपत्तिः । नन्वेवं सत्प्रतिपक्षत्वं न हेत्वाभासरूपं तज्ज्ञानस्यानुमिति तत्क. रणान्यतरज्ञानाविरोधित्वात् किन्तु व्यावहारिकं तत् वाच्यमित्यनतिप्रसक्तं तत्स्वरूपमाह ॥ तथा चेति ॥ स्वं हेत्वभिमतपरं तत्साध्यस्य विरुद्धत्वेन गृह्यमाणः यस्साध्याभावः तद्वयाप्यत्वप्रकारतानिरूपि. तहेतुतावच्छेदकावच्छिन्नप्नकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यताशालिनिश्चयकालीनप्रकृतसरध्य--- व्याप्यत्वप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्न प्रकार तानिरूपितपक्षतावच्छेदकावच्छिन्नविशेप्यताशाली यो निश्चयः तद्विषयत्वरूपसत्प्रतिपक्षत्वावच्छिन्नः तादृशव्यवहाराश्रय इत्यर्थः । तेन साध्यव्याप्य हेतोः हेतुवि- शिष्टपक्षस्य वा प्रसिद्धस्वेऽपि नोकोभयपरामर्शानुपपत्तिः । प्रतियोग्यनवच्छेदककालावच्छिन्नपक्षकस्थल सं. कीर्णबाधमुदाहृय न्यूनतापरिहाराय प्रतियोग्यनवच्छेदकदेशावच्छिन्नपक्षकस्थले तमुदाहरति । एचमि- ति ॥ तथाच केवलवृक्षे कपिसंयोगसत्वेऽपि पक्षतावच्छेदकालावच्छेदेन कपिसंयोगाभावसत्त्वादिति भा. वः ॥ ५॥ ७६॥ ७७॥ ७८ ॥ ।। इति मुक्ताबळीनभायामनुमानपरिच्छेदस्समाप्तः ॥ प्रसङ्गसङ्गत्यावसरसरत्या वानुमाननिरूपणानन्तरमनुमितिनिरूपणानन्तरं च उपमानमुपमिति च नि. रूपायितुं कारणाभावादुपमानमेव नोत्पत्तुमर्हतीति शानिरासायादौ तत्साधनं प्रदर्शयति ॥ मूले ग्रामीण- स्येति ॥ ननु प्रामीणस्य गगवि सास्नादीनां प्रत्यक्षविषयत्वेनारण्यं प्रविष्टस्य तस्य चक्षुस्सन्निकर्षादेव मोन दिनकरीयम् अक्सरसमतिमभिप्रेत्साह ॥ उपमितिमिति ॥ तत्र गवये । साइदयदर्शनं सादृश्यप्रत्यक्षम् ॥ तदुप. रामरुद्रीयम्. अवसरसङ्गतिमिति ॥ प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्त्या अवश्यवक्तव्यत्वमवसरः प्रकृते चानुमानोपमानयोयोरपि प्रत्यक्षोपजीवकत्वेऽप्यनुमानस्य बहुवादिसम्मतत्त्वेन निरसनीयाल्पचादिविप्रतिप-- त्तिकत्वेन सुगमतया अनुमान एवं प्रायशो व्युत्पित्सोः प्रथंमतो जिज्ञासा जायत इत्यनुमाननिरूपणन प्रति- धन्धकीभूतशिष्यजिज्ञासानिवृत्या अवश्यवक्तव्यत्वमुपमानस्येत्यवसरसङ्गत्याऽनुमाननिरूपणानन्त रसुपमान निरूपणमिति भावः ॥ सादृश्यप्रत्यक्षमिति ॥ सादृश्यज्ञानस्य प्रत्यक्षान्यस्यैवोपमितिकरणस्व उपमान