पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामहद्रीयसमम्विता । यजायते तदेव व्यापार: तदनन्तरं गवयो गक्यपदवाच्य इति ज्ञानं यज्जायते तदुप- प्रभा. स्य साधनं सिद्धिः उपमानमुपमितिरिति सूत्रार्थत्वादिति ध्येयात् ॥ गवयो गवयपदवाच्य इति ज्ञा- में जायते तदुपमितिरिति ॥ तदेवोपमितिरित्यर्थः । एषकारेण गोसादृश्यावच्छिन्नविशेष्य कगवयप. दवाच्यत्वप्रकारकज्ञानस्योपमितित्वव्यवच्छेदः अन्यथा तादृशज्ञानस्य गोसदृशो गवयपदवाच्य इत्याकारक- वाक्यज्ञानाधीनत्वेन शाब्दबोधात्मकतया उपमितेः प्रमित्यन्तरत्वानुपपत्तेः गवयत्वावच्छिन्नविशष्यकमवयपद. वाच्यत्वप्रकारकज्ञानस्य गवयपदजन्य गवयत्वविशिष्टोपस्थिति विना शान्दवोधरूपत्वासंभवात् प्रकृतवाक्ये सह- शपदस्यैव सत्त्वात् । नच प्रत्यक्षेण गोसादृश्यस्य सास्नादेर्गवयत्वस्य वा उपस्थितौ गवयत्वावच्छेदेनैव कथं गवयपदवाच्यत्वोपमितिः । नच सादृश्यावच्छेदेनेति वाच्यम् तुल्योपस्थितिकत्वेऽपि गवयत्वजात्यपेक्षया गोसाह- श्यस्य गौरवज्ञानेन तदवच्छेदेन गवयपदवाच्यत्वोपमितेरनुइयात् । नच धर्मान्तरावशिष्टगोसादृश्यज्ञानात् गवय. त्वावच्छिन्नविशेष्यकगक्यपदवाच्यत्वोपमितेरनुदयात् तत्तद्धर्मविशिष्टसादृश्यज्ञानं तत्तद्धविच्छेदेनोपमिती करणं वाच्यम् तथाच गवयत्वानुपस्थितिकाले यदा अवयवसंस्थानरूपगुरुधर्मविशिष्टसादृश्यज्ञानं तद्धर्मावच्छेदेन गवयपदवाच्यत्वोपमित्यापत्तिरिति वाच्यम् इष्टापत्तेः तस्य गुरुधर्मत्वेन तद्धर्मविशिष्टविशेष्य कोपस्थितेर्धमत्वेन तस्यास्तादृशधर्मावच्छेदेन गवयपदवाच्यत्वासाधकत्वात् । टीकाकारास्तु वैधयीवशिष्टींपण्डदर्शनमप्युपमानम् । तथाहि कुतश्चित् पुरुषात्पश्वादिविरुद्धधर्मा करभ इति वाक्यश्रवणानन्तरं तादृशविरुद्धधर्मावच्छिन्नविशेष्यक. दिनकरीयम्. दर्शनस्वेत्र करणत्वं युक्तमित्युपक्षितम् ॥ स्मरणं यजायत इति ॥ सादृश्यविशिष्टपिण्डदर्शनस्योद्वो. धकविधया तादृशवाक्यार्थस्मारकत्वादिति भावः ॥ तदेव व्यापार इति ॥ एतेन सादृश्यविशिष्ट पिण्डदर्शनोत्तर यत्रातिदेशवाक्यार्थबोधस्तत्रातिदेशवाक्यार्थस्मरणापेक्षाभावान्नातिदेशवाक्यार्थस्मृतिव्यापारकं सादृश्यावशि- टपिण्डदर्शनं करणं किन्तु सादृश्यज्ञानमात्रं करणं विशेषणज्ञान विधया तज्जन्यमतिदेशवाक्यार्थज्ञानं सादृश्यविशि- टपिण्डदर्शनं च द्वयं व्यापार इति कस्यचिन्मतं प्रत्युक्तम् । यत्र सादृश्यविशिष्टपिण्डदर्शनोत्तरमतिदेशवाक्यार्थशा. ब्दबोधस्तलोपमिलनभ्युपगमात् किन्तु तदुत्तरं पुन: सादृश्यविशिष्टपिण्डदर्शनं ततोऽतिदेशवाक्यार्थस्मरणं त- दुत्तरमेवोपमितिरिति भावः ॥ गवयो गवयपद्याच्य इति ज्ञानं यजायत इति । एतेनोपमितिर्न प्रमि- रामरुद्रीयम्. सादृश्येति । तथा चातिदेशवाक्यार्थत्मरणस्य पूर्वतमशाब्दबोधजन्यत्वेऽपि तत्रोद्बोधकविधया सदृशपि- ण्डदर्शनमपि कारणमेवेति नानुपपत्तिरिति भावः ॥ एतेनेति ॥ अतिदेशवाक्यार्थस्मरणव्यापारकसदृशपि- ण्डदर्शनस्यैवोपमितिकरणत्वोपवर्णनेनेत्यर्थः ॥ बोध इति ॥ शाब्दबोध इत्यर्थः ॥ अभावादिति ॥ अ- नुभवात्मकातिदेशवाक्यार्थज्ञानस्यैव सत्त्वादिति भावः । नन्वेवं तादृशस्थले किं करणं को व्यापारः शाब्द- बोधस्य सदृशपिण्डदर्शनाजन्यत्वेन तद्वयापारत्वासम्भवादिलायङ्कायामेकदेशिमतानुसारेण करणव्यापारौ प्र. दर्शयति ॥ किन्त्वित्यादि ॥ साहश्यज्ञानमात्रमिति ॥ मात्रपदेन गवयत्वावच्छिन्नविशेष्यकत्वांशस्य प्रतिक्षेपः । द्वयमिति ॥ उभयोरपि विशेषणज्ञानविधया सादृश्यज्ञानजन्यत्वात् सशपिण्डदर्शनमतिदे-. शवाक्यार्थज्ञानंच विनोपमितेरनुदयेन तयोरुपमितिकारणत्वाच्च विनिगमनाविरहादिति भावः । एतेनेलने- नोक्तमर्थ प्रकटयति ॥ यत्रेत्यादि ॥ अनभ्युपगमादिति नन्वेवं तादृशस्थलेऽप्युपमितेरनुभवसिद्धतया अनुभवापलापप्रसङ्ग इत्यत आह ॥ किन्त्विति ॥ तवुत्तरमवेति ॥ तथा च क्षणद्वयविलम्बेनोपमितेरुप- पादनसम्भवान्नानुभवापलापापत्तिरिति भावः ॥ गवयो गवयपधाध्य इतीति ॥ पिण्डे चक्षुस्सयो- गानन्तरं योग्यसितया गवयत्व जातेरपि प्रत्यक्षेण महणात्तदवच्छिन्नधर्मिकमेव गोसादृश्यमानं गोपदवाच्य- स्वप्रकारिकोपमितिरपि नानुपपन्नेति मूलाभिप्रायः । यत्तु गोसदृशो गवयपदवाच्य इत्यारण्यकवाक्याज्जाय.. मानश्शाब्दबोध एवोपमितिः न तु प्रमित्यन्तरं न चैवं गोसादृश्यस्यैव गवयपदवाच्यतावच्छेदकत्वमुपमि- त्तिविषयो न तु गवयत्वस्येति वाच्यम् इष्टत्वादित्याह तन्मतं दूषयति ॥ एतेनेति ॥ उपमितेर्गवयोग-