पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली। मुक्तावली प्रभा-दिनकरीय-रामम्द्रीयसमन्विता । ॥ शन्नखण्डमू ।। पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः ।। शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी ।। ८१ ।। शाब्दबोधप्रकारं दर्शयति ।। पदज्ञानं विति ।। न तु ज्ञायमानं पदं करणम् । तदभा- वेऽपि मौनिश्लोकादौ शाब्दबोधात् ॥ पदार्थधीगिति ॥ पदजन्यपदार्थम्मरणं व्यापारः। अन्यथा पदज्ञानवतः प्रत्यक्षादिना पदार्थोपस्थितावपि शाब्दबोधापतेः । नत्रापि वृत्त्या प्रमा. उपजीव्याघजीवकमा वसङ्गत्या उपमानानन्तरं शब्दप्रमाणगुमिनिनिकारणानन्तरं शाब्दप्रमि- तिं च निरूपयति ।। मूले पदशानं स्विति ॥ आप्तोपदेशः शब्दवेति सूत्रपम्लिस्य शब्दस्यच प्रमाणत्वे मौनिश्लोकादी दोषस्य वक्ष्यमाणतया सूत्रे चेत्युपदेशाद्वाक्यज्ञानमपि शब्द प्रमाणमिति टीकाकृयाख्यानुसा-- रेण पदज्ञानस्य करणत्वमभिहितमिति बोध्यम् । मुक्तावल्यां शाब्बोधनकारमिति ॥ शाब्दवोध- जनककारणकलापमित्यर्थः । पदज्ञानं स्वित्यत एवकारार्थकतुशब्दानिषेध्यार्थमाह ॥ नतु शायमानमिति ।। अन्न हेतुमाह ॥ तदभावपीति ॥ पदोचारणाभावेऽपीत्यर्थः ॥ मौनिश्लोकादाचिति ॥ मौनिकर्तृक- वाक्यबोधकलिप्यादावित्यर्थः । आदिपदान् द्वित्वादिबोधकहस्तचेष्टादेः परिप्रहः ॥ पदजन्यति ॥ पद- ज्ञानजन्येत्यर्थः ॥ अन्यथति ॥ सदज्ञान जन्यत्वानिवेश इत्यर्थः ॥ पदज्ञानवत इति । इदंच करणसत्त्व- प्रतिपादनाय । प्रत्यक्षादिनेति !! आदिनानुमानपरिग्रहः । नव पदार्थधारित्यत्र धीपदस्य स्मृतिपरतया प्र. दिनकरीयम्. उपजीव्योपजीवकभावसङ्गतिमभिप्रेत्याह ॥ मूले पदज्ञानं स्विति ॥ एवकारार्थकस्य मूलस्थतुशब्दस्य व्य. वच्छेचं स्पष्टयति । मुसावल्यां न तु शायमानमिति ॥ मौनियोकादावित्यादिना द्वित्वादिबोधकवि जाती- यहस्त चेटादेः संग्रहः ।। अन्यथा पदार्थज्ञानमात्रस्य व्यापारत्वे ॥ तत्रापि पदजन्य पदार्थोपस्थिताक्षपि।। धटकर रामरुन्द्रीयम् . उपजीव्योपजीवकमावेति ॥ अत्रातिदेशवाक्यजन्यशाब्दबोधस्येवोपमानवमिति प्राचीनमते शब्द. स्मार्थज्ञानजन्यत्वेन शब्दस्यैव तन्मते प्रमाणत्वेन च शब्दोपमानयोः स्वरूपत उपजीव्योपजीवकभावः शक्ति- ज्ञानात्मकोपमितिजन्यत्वेन शाब्दबोधोपमियोरप्युपजीव्योपजीवाभावो बोध्यः । सादृश्यज्ञानमेवोपमान. मिति नवीनमते तु उपमितिद्वारा शाब्दबोधनिष्टस्योपमानापजीवकत्वस्य स्वाथ्यकरणत्वरूपपरम्परासंबन्धे- न शब्दनिष्ठत्वं बोध्यमिति भाव इति केचिदाहुः । तन्न प्रद्धेयम् । सादृश्यज्ञानात्मकोषमानजन्यत्वस्य सा- क्षासम्बन्धेनैवोपमिती सत्त्वांकुपमितेरपि पदज्ञानरूपत्वेन शब्दप्रमाणरूपत्वात् स्वरूपत एव सातिसम्भवात् । यद्यपि शाब्दबोधम्योपमानत्वनये उपमानेऽपि शब्दोपजीवकत्वमस्तीति शब्दानरूपणानन्तरमेवोपमानं कुतो न निरूपितमिति चयतुं शक्यते तथापि सातेरमन्तराभिधानव्याप्यत्वाभावेन न दोषः । प्रपचितं चेदमुपमान- ख एवं ॥ एवकारार्थकस्येति । एवकारार्थोऽर्थो यस्येति मध्यमलोपस मानवकारार्थबोधकस्येत्यर्थः ॥ हस्तचेवादेरिति । तथा च मौनिलोकस्थले विजातीयहस्तचेष्टास्थले च शब्दोच्चारणाभावेन ज्ञायमानप- दाभावाच्छाब्दबोधो न स्यात् । पदज्ञानम्य करणत्वमिति नवीनमते तु लिप्या हस्तचेष्टया च सद्देतितपद- शानाद्भवति शाब्दबोध इति भावः ॥ पदार्थ ज्ञान मात्रम्येति ॥ यद्य पे प्रयादिना पदादिश ने पदज्ञा- 69