पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुस्तावली-प्रभा-दिनकरीय-रामभद्रीयसमन्विता । रेऽपि न शक्तिगौरवात् । रथो गच्छतीत्यादौ तु व्यापारे आश्रयत्वे वा लक्षणा । जानाती- प्रभा. न्तपदसमभिव्याहारज्ञाने सत्याख्यातार्थभावना प्रकारकशाब्दबोधः निरुतसमभिव्याहारज्ञानाभाये भावनामु. ख्यविशेष्यकशाब्दबोध एव जायत इति न काप्यनुपपतिरित्यपि बोध्यम् । केचित्तु इदं त्ववधेयम् । संख्यान्वय- बाधं प्रति न स्वातन्त्र्येण प्रथमान्तपदोपस्थाध्यत्व हेतुः आख्याते न भावनामविषयीकृत्य संख्यान्वयबोधस्य कुत्राप्यजननात् संख्यान्वयबोधत्वव्यापकभावनान्वयबोधत्वावच्छिन हेतुभूतताइशनाथमान्तपदोपस्थाप्यत्वरूप- कारणविरहेणैव प्रथमान्तपदानुषस्थाप्ये संख्या वयापत्त्यभावात् । नच निरुक्तप्रथमान्तपदोपस्थाप्यत्वस्य जन्य- तावच्छेदकं भाषनान्वयबोधत्वं संख्यान्वयघोषत्वं वेत्यत्र विनिगमनाविरहस्सङ्ख्यामविषयी कृत्यापि भावनान्व- यबोधम्यानुभवसिद्धत्वेन भावनान्वयबोधत्वस्य जन्यतावच्छेदकत्वावश्यक वेन सङ्ख्यान्वयबोधत्वस्य तथा- त्वे मानाभावात् इत्याहुः तदसत् आख्यातार्थभावनाप्रकारकबोधत्वस्य तादृशरावधानकारकवोधत्वनिरूपितव्या- पकत्वेऽपि न तदवच्छिन्न कारणंन तादृशसत्याप्रकारकबोधनिर्वाहः । तथाहि भावनाप्रकारकबोध प्रति केवल प्रथ- मान्तपदनिरूक्तिवृतिज्ञामजन्योपस्थितेहेतुत्वं तादृशसङ्ख्यालयबोध प्रति तु निरुक्तविशेषणत्व तात्पर्येणानुच्चार - तनामपदनिरूपितवृत्तिज्ञानजन्योपस्थितेतुन्यमिति कारणतावच्छेदकभेदात् नैकेनापरस्य चारितार्थ्यम् । नचैवं चत्र इच मैत्रो गच्छत्तीत्यादौ चैत्रेऽपि तादृशभावनान्वयबोधापत्तिः निरुक्तकारणसन्यादिति वाच्यम्। तथापि चै. ते गमनानुकूलकृत्यभावेन योग्यताज्ञानरूपकारणाविरहात्तत्र तादृशान्वयबोधापत्तिविर हायोग्यताभ्रमाच्छाब्दभ्र- मस्येष्यत्वात् । नच निरुक्तभावनाप्रकारकशाब्दबोधजनकतावच्छेदककेवलनिरुक्त प्रथमान्तपदोपस्थाप्यत्वेनाख्या: तार्थ संख्याप्रकारकयोधं प्रत्यपि हेतुत्वं शक्यते वक्तुं तथा सति चैत्र इत्र मैत्री गच्छतीत्यादौ चैलऽपि ता- दृशसङ्खयान्वय बोधापत्तेः निरुक्तकारणसत्त्वात् तस्मात्तादृशभावनाप्रकारकबोधत्वताशसंख्याप्रकारकबोधत्व- योः व्याप्यव्यापकभावसत्त्वेऽपि व्यापकधर्मावच्छिन्नजनकसामय्या व्याययत्किंचिद्धर्मावच्छिन्नोत्पत्त्यसंभ- वेन तदवच्छिन्नं प्रति कारणतया उक्तसामग्र्यवश्यमभ्युपेयेत्यवधेयम् । ननु लकारसामान्यस्य न कृतौ श- क्तिः रथो गच्छतीत्यादौ रथे कृत्यभावेनाख्यातस्य व्यापारे लक्षणापत्तेः किंतु व्यापारमाने शक्ति रथो ग- च्छतीत्यादावपि गमनानुकूलव्यापारस्य रथे सत्त्वैन शक्त्यैव बोधोपपत्तेरिति बदतो मीमांसकस्य मतं निरस्यति ॥ एवमिति ॥ व्यापारपीति ॥ अपिना कर्ता समुचीयते । तथाच लकारसामान्यवाच्यो यथा कर्ता न भवति तथा व्यापारोऽपीति भावः । तत्र हेतुमाह || गौरवान्दिति ॥ तथाच गौरवात् कर्तृत्व यथा ना- ख्यातपदशक्यतावच्छेदकं तथा जन्यत्वघटितव्यापारस्वमपि न शक्यतावच्छेदकं गौरवादिति भावः । नच कृतौ शक्तिकल्पनमन्यत्र लक्षणाकल्पनामिति गौरव मिति वाच्यम् ईशगौरवस्य फलमुखत्वेनादोषत्वादिति उ. कार्थमेव प्रकाशयति ॥ रथो गच्छत्तीति ॥ ननु रथनिष्ठगमनानुकूलव्यापारः तक्षकादिकर्तृक विलक्षण- संयोग एवं स च गमनशुन्यकालेऽप्यस्तीति तदापि रथो गच्छत्तीति प्रयोगापत्तेः अनुकूलतासंबन्धेन गम- नविशिष्टविलक्षणसंयोगवत्त्वमेव तादृशप्रयोगनियामकं वाच्यम् एवं चानुकूलतासंबन्धेन गमन विशिष्टव्यापा. रस्येव निरूपितत्वसंबन्धेन गमनविशिष्टाश्रयत्वस्यैव नियामकत्वस्वीकारेणैवातिप्रसवारणे व्यापारे लक्षणा न स्वीकार्या व्यापारविषयको स्याननुभवात् गौरवाति मणिकारमतानुसारेणाह ॥ आश्रयत्वे वेति ॥ लक्षणेति । निरूदलक्षणेत्यर्थः । जागातीयादाविति ।। आत्मेत्यादिः। आदिना इच्छाकृत्योः परिग्रहः । दिनकरीयम्. घादिति ॥ जन्यत्वादिघटितस्य व्यापारत्वस्य कृतित्वजात्यपेक्षया गुरुत्वादिति भावः । नन्वाख्यातस्य न य. नायकत्वं रथो गच्छतीत्यादौ तदभावेऽप्यारयातपदप्रयोगादत आह॥रथ इति ॥ रथो गच्छतीत्यत्रगमनानु- कूलष्यापारस्य न बोधः किन्तु गमनाश्रयत्वस्यैवेति नवीनमतमाश्रित्याह ॥ आश्रयत्वे वेति ॥ लक्षणा निकट रामरुद्रीयम्. पि विभावनीयम् ॥ जन्यत्वादीति ॥ तज्जन्यत्वे सति तज्जन्यजनकस्यैव व्यापारपदार्थत्वादिति भावः ।। सदभावेऽपीति ॥ रथस्याचेतनत्वेन यत्नाभावेऽपीयर्थः ॥ गमनानुकूलव्यापारस्येति ॥ उत्तरदेश-