पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकराय-रामद्रीयसमन्विता। मधुरं पिको रौतीत्यादौ पिकशब्दस्य कोकिले शक्तिग्रह इति । तत्र जातायेव शक्तिग्रहो न तु व्यक्ती व्यभिचारादानन्त्याच्च व्यक्तिं विना जातिभानस्यासम्भवात् व्यक्तेरपि भान- प्रभा. वच्छेद्यत्वात् तद्वारणाय माधुर्यविशिष्टाभिन्नत्वं धात्वर्थे निवेशितं काकादिकर्तृकलादश ब्व नः मधुरत्वाभाबेन तद्वार णम् ॥ इत्यादाविति ॥ इत्यादिवाश्य इत्यर्थः । घटकन्वं सप्तम्यर्थः तस्य पिकपदेऽन्वय || शक्ति ग्रह इति ॥ तथाच निरुक्तवाक्य जन्यबोधोत्तरं एतादृशासाधारणधर्मविशिष्टः कोकिल एव नान्य इनि मानसिकनि. श्वयसंभवन तादृशनिश्चयसहकृतमनस्सन्निकर्षात् कोकिल एव पिकपदवाच्य इत्यप्रामाण्य ज्ञानालास्क्रन्दितमान- से प्रत्यक्षं भवतीति भावः । इदानीं प्रसङ्ग साया जात्यादिविशिष्टव्यक्तौ शक्तिव्यवस्थापनाम जातिशक्तिवा दिमीमांसकमतं निरसितुं तन्मतमुपन्यस्यति ॥ जातावेवेति ॥ जातिविशिष्टशक्तिवादिमनेऽपि विशिष्टस्य वि- शषणविशेष्याभ्यामनतिरिक्ततया जातिशक्तिस्वीकारस्थावश्यकत्वालायचाचेति भावः । एव कारव्यवच्छेद्यार्थ- माह ॥ नत्विति ॥ व्यताविति ॥ शक्तिरिति शेषः । विशेष्यं नाभिधा गच्छेत् क्षीणशाकावशेषण इति तन्मतसिद्धत्वात् । अत इत्यादिः आभिधा शक्तिः विशेष्यं धर्मिणं न मच्छेन् बोधयितुं न समर्था कुत इत्याका- डायां हेतुगर्भविशेषणमाह क्षीणशक्तिरिति । यत इत्यादिः। विशेषणमात्र योधनसमा शक्तिरित्यर्थः । तथाचाभि- धारूयशक्तविशेषणबोधनमात्रसमर्थत्वेन धर्मियोधने सामर्थ्याभाशत् तत्र शक्तिस्वीकारो निष्प्रयोजनक इति तेषां अभिप्रायः धर्मिणि शक्तिस्वीकारे स्वमते प्रयोजनाभाव मुक्ता परमते बाधकमाह ॥ व्यभिचारादि ते ॥ य. किंचिद्धर्मिणि शक्तिस्वीकारे घटादिपदात् शक्तिमत्त्वेनानिणीतव्य तरपि शाब्दबोधोदयेन तत्र शक्ति ज्ञानकारण- तायां व्यभिचारादित्यर्थः ॥ आनन्त्यादिति ॥ सर्वासु व्यक्तिषु शक्तिस्वीकार इत्यादिः । व्यक्तिभेदेनेश्वरेच्छा. दिनकरीयम्. प्रसङ्गात् परमतनिराकरणपूर्व के स्वमते जाल्यादिविशिष्टे शक्ति व्यवस्थापयितुं भीमांसकमतमाह- जातावेवेति ॥ जातिविशिष्टे शक्तिस्वीकारे जातावपि शक्तिग्रह स्यावश्यकता नागृहीतविशेषणन्या. यात् । तथाच जातावेव शक्तिलाधवात् । तदुक्त विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिविशेषणे इति भावः । यस्यांकस्यांचियक्तौ शक्तिः सर्वासु वेति विकल्प्य आये दोषमाह ॥ व्यभिचारादिति ॥ अगृही- तशक्तिकव्यक्तावपि शाब्दबोधोदयेन तत्र शक्तिज्ञानाभावात् व्यभिचार एवेति भावः । द्वितीये तमाह ॥ आनन्त्यादिति । व्यक्तिभेदेन शक्तिभेदाच्छक्तयानन्यमित्यर्थः ।। असम्भवादिति । जातिभासकसा. रामरुदीयम्. हारोऽप्यनुमानविश्वथैव शक्तिग्राहकः । तथााक्तवाक्यादि हाम्रवृक्षे मधुररावकर्ता पिकादवाच्य इत्येव बो. धः । पिकपदस्य पूर्व शक्तिग्रहाभावात् कोकिलदर्शनानन्तरं कोकिलः पिकपदयाच्या सहकारतरौ मधुररा- चकर्तृत्वदित्यनुमानादेव शक्ति ग्रह इति ध्येयम् ॥ प्रसङ्गादिति ॥ प्रसङ्गसङ्ग तेरित्यर्थः । नागृहीतेति ॥ नागृहीतविशेषणा बुद्धिर्विशिष्टे यूपजायत इति न्यायः ! अगृहीतं अविषयीकृतं विशेषणं ययति व्युत्पत्त्या विशेषणाविषयिणी बुद्धिर्विशिष्टेषु नोपजायते विशिष्टविषयिणी न भवतीत्यर्थः । सप्तम्या विषयत्वार्थकत्वात् ।। लाघवादिति ॥ घटत्वविशिष्टनानाघटेषु शक्तिकल्पनामपेक्ष्य शुद्धैकघटत्वे शक्तिकल्पने लाघवादित्यर्थः ।। विशेष्यमित्यादि । अभिधा पदशक्तिः विशेष्यं न गच्छेत् न प्राप्नोति । कुत इत्याकालायामाह ॥ क्षीणेति ॥ क्षीणशक्तिर्विशेषण इत्यनन्तरं सदिति पूरणीयम् । तथाच यतो विशेषण प्राप्य पदशक्तिः क्षीणशक्तिः क्षीणसा-- मा भवति अतो विशेष्य नाभिधा गच्छेत् न प्राप्नुयादिति पर्यवसितार्थः । वक्ष्यमाणरीत्या विशेषणश- कात् पदादेव विशिष्टविषयकशाब्दबोधोपपत्तौ विशेष्यांशे शक्तिकल्पने बीजाभावादिति भावः । व्यकौ श. क्तिस्वीकारे व्यभिचारादानन्त्याच्चेति दूषणद्वयं मूलेऽभिहितम् । तयोस्सङ्गमनीयं विकल्प्य दूषयति ॥ य. स्यामिति ॥ व्यभिचारादितीति ॥ तद्विषयकशाब्दबोधं प्रति तद्धर्मिकशक्तिज्ञानमेव हेतुर्वान्च्यः ! अन्य- था घटादिपदात् पटादिशाब्दबोधापत्तेः । तथाच एकघटव्यक्तावेव घटपदशक्तिस्वीकारे घटान्तरविषयकशा- ब्दबोधोत्पत्त्या तादृशकार्यकारणभावे व्यभिचार इति भावः ॥ द्वितीयकल्पे दूषणमाह ॥ आनन्त्यमिति ॥ 72