पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७४ कारिकावली [शब्दखण्डम. प्रभा. तुत्वे पदज्ञानस्येव शक्तिज्ञानस्यापि प्रमाणत्वापत्तरित्यादिदूषणमप्यपास्तम् । तथाच निरुतशक्तिज्ञानस्य- गोत्वप्रकारकत्वाभावेन गोत्व प्रकारकस्मरणानुपपत्तिः तादृशस्मरणाभावात् गोत्वप्रकारकशाब्दबोधानुपपत्ति- रिति भावः । नच गोपदं गोत्वशक्तामत्याकारकशक्तिज्ञानस्य गोत्वप्रकारकतया तबलाद्गोत्वप्रकारकम्मरणोत्प. तो ततस्तत्प्रकारकशाब्दबोधोत्पत्तौ च बाधकाभाव इति वा पदविशेष्यकशक्तिज्ञाने येन संवन्धेन येन् : रूपेण यस्य प्रकारत्वं तद्बलात् तेन संबन्धेन तत्प्रकारकतद्विशेष्य कस्मृतेरेवाभ्युपगमात् अन्यथा पश्वादिपदानां परैरपि पश्वादावेव शक्ते स्वीकृततया पशुपदं पशौ शक्तामेति पदविशेष्यकशक्तिहानादाधे. यत्वसंवन्धन पशुप्रकारकस्मरणापत्तेः । एवंच गोत्वपदं गोत्वशक्तमिति गोत्वशक्तिज्ञानादिव गोपदं गोत्वः . शक्तमिति शक्तिज्ञानादपि गोस्वत्वप्रकारकगोत्वविशेध्य करमतेरेवाड़ीकरणीयतया निरुक्तशक्तिज्ञानात स्व-- रूपतो गोत्वप्रकारकगोविशेष्यकस्मरणानुपपत्ते१रित्वात् ततः स्वरूपतो गोत्वप्रकारकगोविशेष्यकशाब्दबोधा- नुपपत्तेः सुतरां दुर्वारत्वात् । केचित्तु समानप्रकारकत्वेनेति ईदृशशक्तिज्ञानस्य गोत्वप्रकारकत्वाभावेन गामा.. नयेत्यादौ गोत्वप्रकारकस्मरणशाब्दबोधयोरनुपपातेरित्यर्थः । नच गोपदं गोत्वशक्तमित्येतादृशक्तिज्ञान----- स्यैव शाब्दवोधहेतुत्वात् तस्य शक्त्यंशे गोत्वप्रकारकत्वान्न तत्प्रकारकशाब्दबोधानुपपत्तिरिति वाच्यम् । शक्ति.. ग्रहे येन संबन्धेन गोत्वादिप्रकारकत्वं शाब्दबोधस्यापि तेन संबन्धेन गोत्वादिप्रकारकत्वमित्येताहशसमान- प्रकारकत्वस्य परमते सिद्धान्तितत्वात् अत एवापूर्ववादे अपूर्वस्य पूर्वमनुपस्थितत्वात् कथं तत्र शक्तिप्रह इत्याशकय कार्यत्वेन घटादिषु शक्तिमहायोग्यतया शाब्दबोधे अपूर्वस्य भानमित्युक्तं तैरित्याहुः तदसत् श.. किप्रहे यदंशे गोत्वादिप्रकारकावं शाब्दबोधस्यापि तदशे गोत्वादिप्रकारकत्वमित्येतादृशसमानप्रकारकत्वस्य प. रमते सिद्धान्ति तत्वादिति यदुक्तं तन्नियुक्तिकम् । तथा सति पशुपदं पशुशक्तमिति शकिज्ञानस्य गोत्वपदं गोरचे श.. तमित्यादिशक्तिज्ञानस्य चाधेयतासंबन्धेन पशुगोत्वादिप्रकार कतया आधेयतया पशुगोस्वादिस्मरणापत्तेः । ततः पशुगोत्वादिप्रकारकशाब्दबोधापत्तश्च । अत एवेत्याद्युपष्टम्भक ग्रन्थघटकस्यापूर्वस्य यूर्वमनुपस्थितत्वात् कथं तत्र शक्तिग्रह इत्याशङ्कापन्धस्य गवादिपदानां गोत्वादिशक्तत्ववल्लिङ्घदस्यापि कार्यत्वशक्तत्वात् शाब्द. बोधात् पूर्वमपूर्वस्यानुपस्थितत्वेऽपि लिङ्पदं कार्यत्वशक्तमिति शक्तिमहसंभवात् अतः कार्यत्वप्रकारकस्मृ- तेशाब्दबोधस्य च संभवाचाक्षेपस्यासाङ्गत्यापत्त्या शक्तिग्रहे येन संवन्धेन यदंशे कार्यत्वप्रकारकत्वं तदंश एव स्मृतौ शाब्दबोधे च कार्यत्वप्रकारकत्वामिति नियममङ्गीकृत्योक्तशक्तिज्ञानस्याधेयतासंबन्धे- नव शक्त्यंश एवं कार्यत्वप्रकारकत या कार्यत्वप्रकारककार्यविशष्यकस्मरणस्य शाब्दबोधस्य चासंभवेन तत्संभ- वाय कार्य लिङ्दशक्यं लिपदं वा कार्यशक्तमिलेतादृशमेव शक्तिज्ञानमङ्गीकृत्य तहस्य कार्यांश एव कार्यत्वप्रकारकतया कार्यत्वप्रकार ककार्यविशेष्यकस्मरणशाब्दयोरुपपत्तिाच्या : एवंच सत्यपूर्वस्य शा- ब्दबोधात् पूर्वमनुपस्थितत्वात् कधं तत्र शक्ति ग्रह इत्याक्षेपसङ्गतिरित्यभिप्रायकत्वभ्रमेणैव उपष्टम्भक- तया तादृशशकाग्रन्थो लिखितः तनियुक्तिकं जातिप्रकारकशाब्दबोधस्थले पदानां जातिशतेस्तदनुमतत्वेऽपि उपाधि प्रकारकशाब्दबोधस्थले उपाधिविशिष्टव्यक्ति शक्तेरेव तदनुमततया वैदिकवाक्यघटकलिङ्पदं कार्य. स्वविशिष्टशक्त कार्यत्वविशिष्टं वा लिङ्पदशक्यमित्युभयविधशक्तिग्रहस्यापि कार्यांश एव कार्यत्वप्रकार- कतया कार्यविशेष्य ककार्यत्वप्रकारकस्मरणस्य शाब्दबोधस्य चानुपपत्त्यभावात् पदविशेष्य कशक्तिप्रहस्यापि संग्राह्यतया तन्निराकरणाभावेऽपि तादृशाक्षेपसातेः तादृशशक्तिग्रहानेराकरणे उपष्टम्भकतया तादृशशङ्कान-. न्थलेखनानौचित्यात् । किंच वैदिकलिङ्मदस्य कार्यशक्तस्तदनुमतत्वे कथं तत्र शक्तिग्रह इत्याक्षेपासङ्ग- तिः स्यात् कार्यरूपापूर्वे लिङ्गदशक्त्यभावात् कार्यत्वेन घटादिषु शक्तिग्रहादिति परिहारोऽप्यसङ्गतस्स्यात् लिङः कार्यविशिष्टे तैः शक्त्यनुपगमात् । तस्मान्मुक्कावळीग्रन्थो नैवं व्याख्य इति । ननु गोपदशक्तिज्ञान- स्य न गोत्वं गोपदशक्यमित्याकारकत्वं स्वीक्रियते येन स्वरूपतो गोत्यप्रकारकस्मरणशाब्दबोधयोरनुपपत्ति- स्यात् किन्तु शक्तिसंबन्धेन स्वरूपतो गोत्वप्रकारकगोपदविशेष्यकगोपदंगोरिल्याकारकमेव गोपदशक्ति- ज्ञानं गोपदं न गौरिति विपरीतकानप्रतिवध्यत्वं स्वीक्रियते तदेव स्वरूपतो गोत्वप्रकारकस्मृतिकारणमिति