पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७८ कारिकावली [शब्दखण्डम् तत्तद्वयक्तिबोधानुपपत्या कल्प्यमाना शक्तिीत्याकृतिविशिष्टव्यक्तावेव विश्राम्यतीति । प्रभा. सिद्धत्वेन सेश्वर मीमांसकमते गोपदात् गोत्वं बोद्धव्यमित्याकारकेश्वरेच्छारूपशक्तिस्वीकारे गवंतरास - मवेतत्वघटितगोत्वत्वस्य तादृशेच्छीयविशेष्यतावच्छेदकत्वरूप शक्यतावच्छेदकत्वात् गौरवापत्त्या तत्प्रकार- कशाब्दबोधापत्त्या च तद्वारणाय गोपदजन्य बोधविषयत्वसमानाधिकरणलोपलक्षिततादृशेच्छीयविशे- ध्यतावच्छेदकत्वरूपगुरुभूततत्पदशक्यतावच्छेदक बम कृन्य गोत्वत्वत्य गोपदशक्यतावच्छेदकरवानिराकरणे. नोक्तदोषद्वयनिराकरणं प्रक्षाळनाद्धीति न्यायकवळितत्वेनानुचितं । निरवच्छिन्नत्व सावच्छिन्नत्वाभ्यां शद्वैवि- ध्यकल्पनं क्वचितू जातिशक्ति कल्पनं कचिद्याकेशाक्त कल्पनामत्येव दोषः। निरीश्वरमीमांसकमते अतिरिक्तपदार्थ. रूपशक्तिकल्पनागौरवमेव दोषः । गोपदात् गोरूपार्थो बोद्धव्य इल्याकारकेश्वरेच्छारूपशक्तिवादिनैयायिकप्रभृ- तिमते तत्पदजन्यबोधविषयत्वाविशेषितकेचलतादेशच्छीयविशेष्यतावच्छेदकत्वरूपशक्यतावच्छेद त्वस्वीका. र; शतविध्याकल्पनं सर्वपदानां व्यक्तावेव शक्ति कल्पनं अतिरिक्तपदार्थरूपशक्तयस्वीकारश्वेत्येव गुण इति प्रति । भाति । मीमांसकरातनिराकरणपूर्वकं स्वमतमुपसंहरति । तस्मादिति ॥ उक्तदोषेण जातिशक्तिस्वीकारा. संभवादित्यर्थः ॥ तत्तजात्याकृतिविशिष्टेति ॥ कंवलव्य सौ शक्तिस्वीकार इत्यादिः । तत्तजातितत्त- दाकृतिविशिष्टेत्यर्थः । गोत्वघटत्वादिजातिसास्नादिमत्त्वकम्बुग्रीवादिमत्त्वादिरूपाकृतिविशिष्टेति यावत् ।। तत्तद्वयक्तिबोधानुपपत्त्येति ।। गोघटादिव्यक्तिबोधानुपपत्त्येत्यर्थः ॥ कल्प्यमानेति ॥ तादृशयोधनि. वाहायेत्यादिः । सर्वानुमतेत्यर्थः । शक्तिरिति ।। गोपदात सास्नादिमत्त्वविशिगाद्विव्या घटादिपदात् कम्युग्रीवादिमत्वविशिष्टघटादिर्वोद्धव्य इत्याकारकेन्छारूप शक्तिरित्यर्थः ॥ व्यक्तावेवेति ॥ तत्तन्नात्याक. तिविशिष्टतत्तथ कावेत्यर्थः । विश्राम्यतीति ॥ स्थास्यतीत्यर्थः । अत्र सास्नादिमत्त्वमविषयीकृत्य गवा दिनकरीयम्. कारणत्वेऽपि स भ्रमो न तु तस्य विषयसापकत्वमिति वाच्यम् । तथा सति प्रतीतेः कारणतावच्छदे. कवायंशेऽपि भ्रमत्वस्य ववतुं शक्यतया कारणतावच्छेदकत्वादीनां कुत्रापि सिद्धिर्न स्यात् । अस्तु वा गोवत्वादीनामनवच्छेदकत्वं तथापि गवेतरासमवेतत्वादिघटितगोत्वत्याधर्मितावच्छेदकताद्यात्मकगोवि पयतायाः शाब्दबोधकारणतावच्छेदककोटिप्रवेशप्रयुक्तं गौरवं दुर्वारमेवेति । स्वमतमुपसंहरति ॥ तस्मा दिति ॥ जाल्याकृतिविशिष्टव्यक्तावेवेति ॥ अवयवसंस्थानविशेषरूपाया आकृतेः शक्यत्वेऽपि न जातिवत्तदेवच्छेदकत्वम् । सामानाधिकरण्यसम्बन्धस्य शक्यतावच्छेदकतावच्छेदकत्वकल्पने गौरवात् । अत्र न परस्परपरित्यागेन परस्परस्य बोधाभावात् त्रिचक व शक्ति: । एतद्बोधनायव सूत्रे जात्या रामरुद्रीय- तावच्छेदकावच्छिन्न प्रतियोगिताकत्यानुयोगिताकत्वयोर्वाध उपेय ते न तूक्तरीत्या प्रकारत्वं प्रतीतेर्भिन्नाकारक- स्वापत्तोरत्यस्वरसादाह ।। अस्तु वेति ॥ गोविषयताया इति ॥ गोत्वस्वस्य गोघटितमूर्तिकत्वादिति भावः । मूले जात्याकृतिविशिष्टव्यक्तौ शक्तिप्रतिपादनाज्जात्याकृत्योर्द्वयोरेव शक्यतावच्छेदकत्वमित्यापतितम् । तन्त्र सङ्गच्छते । लाघवाजातिमात्रस्यैव शक्यतावच्छेद करवौचित्यात् । न च त्रिप्वप्येकैव शक्तिरिति वक्ष्य- माणतया गोत्वस्य शक्य तान्यूनवृत्तितया कथं तदवच्छेदकतासम्भव इति वाच्यम् । व्यक्तिवृत्तित्वविशिष्ट शक्यताव्यापकत्वेन शुद्धशक्यतात्वावच्छिन्नानतिप्रसक्तत्वेन च विशिष्टशक्यतायामवच्छेदकत्वसम्भवा. त् । अन्यथोभयोः शक्यतावच्छेदकत्वेऽपि तद्दोषतावाथ्यात् । एवं त्रयाणामेकशक्तिमत्त्वेऽपि कस्यचिद्विशेषणतया कस्यचिद्विशेष्यतया भानमपि मतदयेऽपि व्युत्पत्तिवैचित्र्येणैवोपपादनीयमि- ति भावः ॥ अवयवसंस्थानं अवयबसंयोगः ॥ सामानाधिकरण्येति ॥ शक्ये गवि सामा. नाधिकरण्यसम्बन्धेनवावयवसंयोगसत्त्वादिति भावः । इदमुपलक्षणम् । शुद्धगोत्वजातेरवयवसंयोगापेक्षया शरीरलाधवं नानासंयोगव्यक्तीनामवच्छेदकताकल्पनमपेक्ष्य एकस्या जातेस्तरकल्पनेऽपि लाधवमप्यनुसन्धे. यम् ॥ एकैवेति ॥ नानाशक्तिकनानार्थहर्यादिपदादेकैकस्यार्थस्य शाब्दबोधादिति भावः ॥ एकवचनमि-